संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ अस्य श्रीगायत्रीकवचस्य,...

गायत्रीकवचम् - ॐ अस्य श्रीगायत्रीकवचस्य,...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः बीजम्, भुवः शक्तिः, स्वः कीलकम्, गायत्री प्रीत्यर्थं जपे विनियोगः । अथ ध्यानं पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् । सावित्रीं ब्रह्म वरदां चन्द्रकोटिसुशीतलाम् ॥
त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् । वराभयाङ्कुशकशाहेमपत्राक्षमालिकाम् ॥
शङ्खचक्राब्जयुगलं कराभ्यां दधतीं वराम् । सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥
ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥
ॐ ब्रह्मोवाच । विश्वामित्र महाप्राज्ञ गायत्रीकवचं श‍ृणु । यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत्क्षणात् ॥१॥
सावित्री मे शिरः पातु शिखायाममृतेश्वरी । ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥२॥
कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिका । गायत्री वदनं पातु शारदा दशनच्छदौ ॥३॥
द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती । साङ्ख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥४॥
चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी । स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥५॥
उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया । जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥६॥
पार्श्वौ मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु । ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकावतु ॥७॥
जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका । सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥८॥
सर्वाङ्गं वेदजननी पातु मे सर्वदानघा । इत्येतत्कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् । पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ॥९॥
त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानववाप्नुयात् । सर्वशास्त्रार्थतत्तवज्ञः स भवेद्वेदवित्तमः ॥१०॥
सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् । प्राप्नोति जपमात्रेण पुरुषार्थांश्चतुर्विधान् ॥११॥
इति श्रीविश्वामित्रसंहितोक्तं गायत्रीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP