संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । श्रीरवल...

श्रीकेदारकवचम् - श्रीगणेशाय नमः । श्रीरवल...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । श्रीरवलनाथाय नमः । अस्य श्रीरवलनाथकवचस्तोत्रमन्त्रस्य, ब्रह्मणे ऋषये नमः । शिरसि । अनुष्टुप् छन्दसे नमः । मुखे । श्रीरवलनाथाय नमः । हृदये । रं बीजाय नमः । गुह्ये । वं शक्तये नमः । पादयोः । लं कीलकाय नमः । सर्वाङ्गे । श्रीरवलनाथप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् । केयूरादिविभूषितैः करतलैरत्नाङ्कितैः सुन्दरं नानाहारविचित्रपन्नगयुतैर्हेमाम्बरैर्मण्डितम् । हस्ताभ्यां धृतखड्गपात्रडमरूशूलं सदा बिभ्रतं वाजीवाहनदैत्यदर्पदलनं केदारमीशं भजे ॥
अथ कवचम् । ॐ केदारः पूर्वतः पातु चाग्नेय्यां रवलेश्वरः । दक्षिणे वारिजाक्षस्तु नैरृत्यां रक्षसूदनः ॥१॥
पश्चिमे पन्नगेशश्च वायव्यां दैत्यनाशकः । उत्तरे उत्तरेशश्च ईशान्यां ईश एव च ॥२॥
ऊर्ध्वं गङ्गाधरः पातु धरायाञ्च त्रिविक्रमः । एवं दशदिशोन्यस्य पश्चादङ्गेषु विन्यसेत् ॥३॥
शिखायां रेणुकानाथो मस्तके भाललोचनः । भालं मे रक्ष भगवन् भ्रूमध्ये मेदिनीपतिः ॥४॥
नेत्रयोर्ज्योतिनाथश्च कर्णयोः कीर्तिवर्धनः । कुण्डलीनाः कपोलौच नासिकां विघ्ननाशनः ॥५॥
ओष्ठद्वयो उमानाथो दन्तयोर्धरणीधरः । जिह्वायां वेदजिह्वश्च हनुश्चहनुमत्प्रियः ॥६॥
ग्रीवायां नीलकण्ठश्च स्कन्धौस्कन्द प्रियङ्करः । बाहोः शस्त्रभृतां श्रेष्ठो हस्तेडमरूधारकः ॥७॥
हृदयं विश्वनाथश्च उदरं मे जनप्रियः । नाभिं पातु गुहावासो कटिमध्ये कपालभृत् ॥८॥
गुह्येगुह्य निवासश्च उरूभ्यां उक्षवाहनः । जान्वोर्जह्नु सुताधारी जङ्घयोर्जङ्गनोद्बलीन् ॥९॥
गुल्फयोः गूढकर्तात्मा पादयोः पदवन्दितः । नखेषु रोमकूपेषु व्यापकः सर्वसन्धिषु ॥१०॥
अग्रतः पातु मे खड्गी पृष्ठतः पातु शूलवान् । पातुमां पात्रधारीच वातपित्तकफादिषु ॥११॥
जले जलधरः पातु स्थले स्थाणुः सनातनः । महार्णवे महादुर्गे अग्नि चोरभयेषु च ॥१२॥
शस्त्रक्षतेषु यो रक्षेद् रत्नासुरनिबर्हणः । सुप्ति प्रमाद विपदै रक्षमां गिरिवासकः ॥१३॥ (विषदै रक्षेन्मां)
य इदं कवचं दिव्यं केदारस्य महात्मनः । पठन्ति श‍ृण्वते वाणी सर्वपापैः प्रमुच्यते ॥१४॥
इति श्रीपद्मपुराणे करवीरखण्डे केदारकवचं सम्पूर्णम् ॥
श्रीनाथचरणार्पणमस्तु ।

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP