संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । याज्ञवल...
श्रीगायत्रीकवचम् - श्रीगणेशाय नमः । याज्ञवल...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । याज्ञवल्क्य उवाच । स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम । चतुःषष्ठिकलानं च पातकानां च तद्वद ॥१॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् । देहं च देवतारूपं मन्त्ररूपं विशेषतः ॥२॥
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् । ब्रह्मोवाच । गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥३॥
ऋग्यजुःसामाथर्वाणि छन्दांसि परिकीर्तिताः । परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ॥४॥
रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् । सर्वं सर्वत्र संरक्षेत्सर्वाङ्गं भुवनेश्वरी ॥५॥
बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च । पुरुषार्थविनियोगो यो नश्च परिकीर्त्तितः ॥६॥
ऋषिं मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् । देवतां हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ॥७॥
शक्तिं विन्यस्य पदयोर्नाभौ तु कीलकं न्यसेत् । द्वात्रिंशत्तु महाविद्याः साङ्ख्यायनसगोत्रजाः ॥८॥
द्वादशलक्षसंयुक्ता विनियोगाः पृथक्पृथक् । एवं न्यासविधिं कृत्वा कराङ्गं विधिपूर्वकम् ॥९॥
व्याहृतित्रयमुच्चार्य ह्यनुलोमविलोमतः । चतुरक्षरसंयुक्तं कराङ्गन्यासमाचरेत् ॥१०॥
आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् । सा पातु वरदा देवी अङ्गप्रत्यङ्गसङ्गमे ॥११॥
ध्यानं मुद्रां नमस्कारं गुरुमन्त्रं तथैव च । संयोगमात्मसिद्धिं च षड्विधं किं विचारयेत् ॥१२॥
अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाथर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वाहा कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥
ॐ भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः । ॐ भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा । ॐ भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् । ॐ भूर्भुवः स्वः धीमहीति कवचाय हुम् । ॐ भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् । ॐ भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥
वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम्म् । सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥१३॥
अथ ध्यानम् । मुक्ता विद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥१४॥
ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥१५॥
पावकी मे दिशं रक्षेत्पावकोज्ज्वलशालिनी । यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥१६॥
पावमानीं दिशं रक्षेत्पवमानविलासिनी । दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥१७॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥१८॥
ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते । ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षक्रः ॥१९॥
ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः । सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसंयुताः ॥२०॥
वेदमाता च मां पातु सरहस्या सदैवता । देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥२१॥
चतुःषष्टिकला विद्या दिव्याद्या पातु देवता । बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥२२॥
तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् । वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥५३॥
देवस्य मे तु हृदयं धीमहीति गलं तथा । धियो मे पातु जिह्वायां यःपदं पातु लोचने ॥२४॥
ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् । तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ॥२५॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः । नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ॥२६॥
णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके । आत्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ॥२७॥
देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥२८॥
मकारो हृदयं रक्षेद्धिकारो जठरं तथा । धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥२९॥
गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥३०॥
दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् । जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥३१॥
सर्वतः सर्वदा पातु आपोज्योतीति षोडशी । इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥३२॥
चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् । जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥३३॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः । मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥३४॥
पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् । शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥३५॥
भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि । शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥३६॥
त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् । पुत्रवान् धनवान् श्रीमान्नानाविद्यानिधिर्भवेत् ॥३७॥
ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः । भवन्ति तस्य तुच्छनि किमन्यत्कथयामि ते ॥३८॥
अभिमन्त्रितगायत्रीकवचं मानसं पठेत् । तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥३९॥
लघुसामान्यकं मन्त्रं, महामन्त्रं तथैव च । यो वेत्ति धारणां युञ्जन्, जीवन्मुक्तः स उच्यते ॥४०॥
सप्ताव्याहृतिविप्रेन्द्र सप्तावस्थाः प्रकीर्तिताः । सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥४१॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥४२॥
शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् । दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥४३॥
भक्तियुक्तो भवेद्विप्रः सन्ध्याकर्म समाचरेत् । काले काले प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥४४॥
प्रणवं पूर्वमुद्धृत्य भूर्भुवस्वस्तथैव च । तुर्यं सहैव गायत्रीजप एवमुदाहृतम् ॥४५॥
तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः । स मूढो नरकं याति कालसूत्रमधोगतिः ॥४६॥
मन्त्रादौ जननं प्रोक्तं मत्रान्ते मृतसूत्रकम् । उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥४७॥
मत्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् । मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥४८॥
वाचिकस्त्वहमेव स्यादुपांशु शतमुच्यते । सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥४९॥
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् । जपं चाक्षस्वरूभेणानामिकामध्यपर्वणि ॥५०॥
अनामा मध्यया हीना कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥५१॥
पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः । गायत्री वेदमूलत्वाद्वेदः पर्वसु गीयते ॥५२॥
दशभिर्जन्मजनितं शतेनैव पुरा कृतम् । त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥५३॥
प्रातःकालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति । नादालये समाधिश्च सन्ध्यायां समुपासते ॥५४॥
अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने । असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥५५॥
विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् । वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥५६॥
गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते । सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥५७॥
ऋषिश्छन्दो देवताख्या बीजं शक्तिश्च कीलकम् । नियोगं न च जानाति गायत्री निष्फला भवेत् ॥५८॥
वर्णमुद्राध्यानपदमावाहनविसर्जनम् । दीपं चक्रं न जानाति गायत्री निषफला भवेत् ॥५९॥
शक्तिर्न्यासस्तथा स्थानं मन्त्रसम्बोधनं परम् । त्रिविधं यो न जानाति गायत्री तस्य निष्फला ॥६०॥
पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च । पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥६१॥
मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषिम् । व्यासो वाचस्पतिर्जीवस्तुता देवी तपःस्मृतौ ॥६२॥
सहस्रजप्ता सा देवी ह्युपपातकनाशिनी । लक्षजाप्ये तथा तच्च महापातकनाशिनी । कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥६३॥
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः । शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥६४॥
इति श्रीमद्वसिष्ठसंहितोक्तं गायत्रीकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 24, 2025

TOP