संस्कृत सूची|
संस्कृत साहित्य|
कवच|
विनियोगः - ॐ अस्य श्रीमह...
श्रीदशमहाविद्याकवचम् - विनियोगः - ॐ अस्य श्रीमह...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
विनियोगः - ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ॥
ऋष्यादि न्यासः - श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे श्रीमहाविद्यादेवतायै नमः हृदि सर्वसिद्धिप्राप्त्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥
मानसपुजनम् - ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ॥
अथ श्रीमहाविद्याकवचम् ।
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी । आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥१॥
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी । वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥२॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी । ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी । सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् । शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् । चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥६॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती । जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी । बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी । उदरं पातु मे नित्यं महाविद्या महोदरी ॥९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु । गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥१०॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी । रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥११॥
महाभयेषु घोरेषु महाभयनिवारिणी । पातु देवी महामाया कामाख्यापीठवासिनी ॥१२॥
भस्माचलगता दिव्यसिंहासनकृताश्रया । पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥१३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् । तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥१४॥
इति श्रीदशमहाविद्याकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : November 25, 2025

TOP