संस्कृत सूची|संस्कृत साहित्य|कवच|
वज्रपञ्जराख्यसूर्यकवचम् ।...

सूर्यकवचम् - वज्रपञ्जराख्यसूर्यकवचम् ।...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

वज्रपञ्जराख्यसूर्यकवचम् । श्रीभैरव उवाच - यो देवदेवो भगवान् भास्करो महसां निधिः । गायत्रीनायको भास्वान् सवितेति प्रगीयते ॥१॥
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥२॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिबर्हणम् ॥३॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥४॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥५॥
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् । धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥६॥
विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति । शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥७॥
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः । मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥८॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥९॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् । इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥१०॥
परत्र परमा मुक्तिर्देवानामपि दुर्लभा । कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥११॥
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥१२॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि । सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥१३॥
ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः । उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥१४॥
ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः । ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥१५॥
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः । चं छं जं झं च नासां मे पातु या^र्ं अर्यमा प्रभुः ॥१६॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः । तं थं दं धं गलं पातु नं नारायणवल्लभः ॥१७॥
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः । यं रं लं वं भुजौ पातु मूलं सकनायकः ॥१८॥
शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः । ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥१९॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः । अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥२०॥
ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः । कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥२१॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु । पं फं बं भं यं रं लं वं जङ्घे मे।आव्याद् विभाकरः ॥२२॥
शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः । ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥२३॥
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु । बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ॥२४॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः । उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥२५॥
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः । प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥२६॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥२७॥
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे । सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥२८॥
ओं ओं ओं उत ओंउॐ ह स म यः सूरोऽवतान्मां भयाद् । ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः । सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात् । पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥२९॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् । अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥३०॥
इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम् । सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥३१॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥३२॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये । अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥३३॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि । कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥३४॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥३५॥
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥३६॥
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी । शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥३७॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥३८॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये । यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥३९॥
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति । तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥४०॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि सविता वरदो भवेत् ॥४१॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् । तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥४२॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे । महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥४३॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥४४॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये । इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥४५॥
इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥३३ ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP