संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीमहा-त्रिपुर-सुन्दर्...

श्रीपरामहायोनिकवचसाधना - ॥ श्रीमहा-त्रिपुर-सुन्दर्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीमहा-त्रिपुर-सुन्दर्यै नमः ॥
 ॥पूर्व पीठिका ॥ ॐ नमः शिवाय गुरवे, नाद-विन्दु-कलात्मने ।
श्री गणेशाय नमः । श्री मन्महा-त्रिपुर-सुन्दर्यै नमः । ॥ श्री भैरव उवाच ॥
क्रम-दीक्षा-विधानानि, मयोक्तानि महेश्वरि! । त्वयात्मनः कुलागारे, कवचं यत् सु-गोपितम् ॥१॥
अधुना कृपया त्वं च, तत्-सर्वं वक्तुमर्हसि । ॥ श्री भैरव्युवाच ॥
श‍ृणु ! नाथ प्रवक्ष्यामि, तन्त्र-सारमिदं महत् ॥२॥
एतच्छ्री-कवचस्यास्य, पर-ब्रह्म ऋषिः शिवः । महती जगतीच्छन्दश्चिच्छक्तिर्देवतोच्यते ॥३॥
ऐं वीजं ह्रीं तथा शक्तिः, सकलह्रीं कीलकं तथा । पर-ब्रह्म-प्राप्ति-हेतौ, विनियोगः प्रकीर्तितः ॥४॥
अथ ॥विनियोग ॥ ॐ अस्य श्री परा-महा-योनि-कवचस्य श्री पर-ब्रह्म-शिवः ऋषिः । महती जगतीः छन्दः । श्री चिच्छक्तिः देवता । ऐं वीजम् । ह्रीं शक्तिः । सकलह्रीं कीलकम् । पर-ब्रह्म-प्राप्ति-हेतौ पाठे विनियोगः ।
॥ ऋष्यादि-न्यास ॥ श्री पर-ब्रह्म-शिवः-ऋषये नमः शिरसि । महती जगतीः - छन्दसे नमः मुखे । श्री चिच्छक्तिः - देवतायै नमः हृदये । ऐं-वीजाय नमः गुह्ये । ह्रीं-शक्त्ये नमः नाभौ । सकलह्रीं-कीलकाय नमः पादयोः । पर-ब्रह्म-प्राप्ति-हेतौ पाठे विनियोगाय नमः सर्वाङ्गे (सर्वाङ्गे) । ॥ ध्यान ॥ ॐ आधारे तरुणार्क-बिम्ब-रुचिरं हेम-प्रभं वाग्भवम् । बीजं मन्मथमिन्द्र-गोप-सदृशं हृत्-पङ्कजे संस्थितम् ॥
विष्णु-ब्रह्म-पदस्थ-शक्ति-कलितं सोम-प्रभा-भासुरम् । ये ध्यायन्ति पद-त्रयं तव शिवे ! ते यान्ति सौख्यं पदम् ॥
अथ कवच पाठ । ॐ ह्री स्त्रीं हूं फट् उग्र-तारा, मूलाधारं ममावतु । ह्रीं भुवनेश्वरी पातु, स्वाधिष्ठानं च मे सदा ॥१॥
क्रीं हूं ह्रीं दक्षिणा पातु, मणिपुरं तथा मम । नमो भगवत्यै हस्ख्फ्रें, कुब्जिकायै श्रां श्रीं श्रूं श्रां श्रीं  श्रूम् । ङञणनमे-अघोरा-मुखि छां छीं किणि-किणि विच्चे ॥२॥
अनाहतं सदा पातु, कुब्जिका परमेश्वरी । फ्रें ख्फ्रें गुह्य-काली सा, विशुद्धं मे च रक्षतु ॥३॥
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं । आज्ञा-चक्रं महा-देवी, षोडशी पातु मे सदा ॥४॥
हस्क्ष्म्लवरयूँ शक्ष्म्लवरयीम् । नाद-चक्रं च मे पातु, श्रीमदानन्द-भैरवः ॥५॥
ह्सौंः शौंः अर्ध-नारीश्वरी बिन्दुश्च मेऽवतु । हंसः सोऽहं सदा पातु, सहस्रारं सदा मम ॥६॥
कएईलह्रीं  हसकहलह्रीं  सकलह्रीं  श्रीं । शिरो मे पातु सा देवी, महा-त्रिपुर-सुन्दरी ॥७॥
``कएईलह्रीं'' कामेशी, भ्रू-मध्यं मे सदाऽवतु । ``हसकहलह्रीं'' वज्रेशी, दक्ष-नेत्रं सदाऽवतु ॥८॥
``सकलह्रीं'' वाम-नेत्रं, रक्षतु भग-मालिनी । ``हस्रें हस्कलह्रीं ह्सौंः'', त्रि-नेत्रं पातु भैरवी ॥९॥
``ह्रीं श्रीं सौः'' त्रिपुरा-सिद्धा, कर्णौ मे परि-रक्षतु । ``ह्रीं क्लीं क्षुं'' मां सदा पातु, मुखं त्रिपुर-मालिनी ॥१०॥
``हसैं हस्क्लीं हसौं'' कण्ठं, पातु श्रीत्रिपुरा-श्रीर्मे । ``हैं हक्लीं हसौं'' पातु, वक्षस्त्रिपुर-वासिनी ॥११॥
दौवारिजौ सदा पातु, ह्याणिमाद्यष्ट-सिद्धयः । ``ह्रीं क्लीं सौः'' पातु मे नाभिं, परा त्रिपुर-सुन्दरी ॥१२॥
दश-मुद्रा-युता देवी, ममोरु पातु सर्वदा । ``ऐं क्लीं सौः'' पातु मे जानू, श्रीमहा-त्रिपुरेश्वरी ॥१३॥
षड्-दर्शनं सदा पातु, जङ्घा-युग्मं च सर्वदा । ``अं आं सौः'' त्रिपुरा पातु, पादौ च सतत नमः ॥१४॥
``ॐ ह्रीं श्रीं'' पातु मां पूर्वे, श्रीमहा-भुवनेश्वरी । ``कएईलह्रीं'' दक्षिणे मां, पराऽऽद्या परि-रक्षतु ॥१५॥
``सौः ऐं क्लीं ह्रीं श्रीं'' श्रीकुजा, पश्चिमे मां सदाऽवतु । ``श्रीं ह्रीं क्लीं ऐं सौः'' चोत्तरे मां, पातु योगेश्वरी परा ॥१६॥
``हसकहलह्रीं'' पातु, मामधो वज्र-योगिनी । ``सकलह्रीं'' सा ललिता, ह्यूर्ध्वे मां परि-रक्षतु ॥१७॥
श्रीं-५ ॐ-३ क-५ ह-६ स-४ सौः-५ सदाऽवतु । सर्वाङ्गं मे च चिद्रूपा, महा-त्रिपुर-सुन्दरी ॥१८॥
(श्रीं-५ -- श्रीं ह्री क्लीं ऐं सौः, ॐ-३ -- ॐ ह्रीं श्रीं, क-५ -- क ए ई ल ह्रीं, ह-६ -- ह स क ह ल ह्रीं , स-४ -- स क ल ह्रीं, सौः-५ -- सौः ऐं क्लीं ह्रीं श्रीं)
   ॥फल-श्रुति ॥ इति ते कथितं देव!,  ब्रह्मानन्द-मयं परम् । श्री महा-योनिराख्यातं, कवचं देव-दुर्लभम् ॥१॥
मम तेजसा रचितं, श्रीविद्या-क्रम-संयुतम् । तव स्नेहान्महा-देव!, तवाग्रे तु मयोदितम् ॥२॥
राज्यं देयं शिरो देयं, न देयं कवचं परम् । देयं पूर्णाभिषिक्ताय, स्व-शिष्याय महेश्वर ! ॥३॥
अन्यथा नारकी भूयात्, कल्प-कोटि-शतैरपि । दिक्-सहस्रेण पाठेन, ह्यासाध्यं साध्यते क्षणात् ॥४॥
लक्षं जपत्वा महा-देव!, तद्दशांशं हुनेद् यदि । ब्रह्म-ज्ञानमवाप्नोति, पर-ब्रह्मणि लीयते ॥५॥
भूर्जे विलिख्य गुटिकां, स्वर्णस्थां धारयेद् यदि । कण्ठे वा दक्षिणे बाहौ, साक्षात् कामेश्वरो भवेत् । नारी वाम-भुजे धृत्वा, भवेत् त्रिपुर-सुन्दरी ॥६॥
ॐ तत्सत् श्रीमहा-निर्वाण-तन्त्रे श्रीमहा-योनि-नाम श्रीमन्महा-त्रिपुर-सुन्दरी-कवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP