संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । अस्य श्...
मङ्गलकवचम् - श्रीगणेशाय नमः । अस्य श्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः । रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥१॥
अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥२॥
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥३॥
वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः । कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥४॥
जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा । सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥५॥
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् । भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥६॥
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् । भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् । रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥७॥
॥ इति श्रीमार्कण्डेयपुराणे मङ्गलकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP