संस्कृत सूची|संस्कृत साहित्य|कवच|
विनियोगः । ॐ अस्य श्रीशन...

श्रीशनिवज्रपंजरकवचम् - विनियोगः । ॐ अस्य श्रीशन...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

विनियोगः । ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादि न्यासः ।  श्रीकश्यप ऋषयेनमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीशनैश्चर देवतायै नमः हृदि । श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
ध्यानम् । नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥१॥
ब्रह्मा उवाच ॥
श‍ृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥२॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥३॥
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥५॥
स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥६॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥७॥
पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः । अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥८॥
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥९॥
व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा । कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥१०॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे । कवचं पठते नित्यं न पीडा जायते क्वचित् ॥११॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा । जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥१२॥
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP