संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्री बटुकभैरवकवचस्य ...

बटुकभैरवकवचम् - अस्य श्री बटुकभैरवकवचस्य ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्री बटुकभैरवकवचस्य आनन्दभैरव ऋषिस्त्रिष्टुप् छन्दः श्री बटुकभैरवोदेवता बं बीजं ह्रीं शक्तिः ॐ बटुकायेति कीलकं ममाभीष्टसिद्धयर्थे जपे विनियोगः । ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः । पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥१॥
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा । आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः ॥२॥
नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे । वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥३॥
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा । संहारभैरवः पायादीशान्यां च महेश्वरः ॥४॥
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभु । सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥५॥
वामदेवो वनान्ते च वनेऽघोरस्तथाऽवतु । जले तत्पुरुषः पातु स्थले ईशान एव च ॥६॥
डाकिनीपुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः । हाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥७॥
पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः । मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा ॥८॥
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा । वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥९॥
नमो भैरवदेवाय सर्वभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥१०॥
॥ इति भैरवतन्त्रोक्तं बटुकभैरवकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP