संस्कृत सूची|संस्कृत साहित्य|कवच|
शौनक उवाच । किं स्तोत्रं...

श्रीविष्णुकवचं - शौनक उवाच । किं स्तोत्रं...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

शौनक उवाच । किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा । दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥८॥
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् । दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥९॥
तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम । शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥१०॥
सौतिरुवाच । तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् । तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं श‍ृणु ॥११॥
ओं नमो भगवते रासमण्डलेशाय स्वाहा । इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥१२॥
पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः । पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥१३॥
ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् । मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥१४॥
अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् । पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥१५॥
शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले । धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥१६॥
ब्रह्मोवाच । राधाकान्त महाभाग कवचं यं प्रकाशितम् । ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥१७॥
मां महेशं च धर्मं च भक्तं च भक्तवत्सल । त्वं प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥१८॥
श्रीकृष्ण उवाच । श‍ृणु वक्ष्यामि ब्रह्मेश धर्मदं कवचं परम् । अहं दास्यामि युष्मभ्यः गोपनीयं सुदुर्लभम् ॥१९॥
यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि । यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥२०॥
कुरु सृष्टिमिदं धृत्वा धाता त्रिजगतां भव । संहर्ता भव हे शम्भो मम तुल्यो भवे भव ॥२१॥
हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् । तपसां फलदाता च यूयं भवत मद्वरात् ॥२२॥
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् । ऋषिश्च्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥२३॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ॥२४॥
यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः । तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥२५॥
प्रणवो मे शिरः पातु नमो रासेश्वराय च । भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥२६॥
कृष्णः पायात् श्रोत्रयुग्मं हे हरे घ्राणमेव च । जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥२७॥
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः । ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥२८॥
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु । दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥२९॥
ओं नमो भगवते रासमण्डलेशाय स्वाहा । स्वयं वक्षस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥३०॥
ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदावतु । ओं विष्णवे स्वाहेति च कङ्कालं सर्वतोऽवतु ॥३१॥
ओं हरये नम इति पृष्ठं पादं सदावतु । ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥३२॥
प्राच्यां मां पातु श्रीकृष्णः आग्नेय्यां पातु माधवः । दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ॥३३॥
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः । उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥३४॥
सन्ततं सर्वतः पातु परो नारायणः स्वयम् । इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ॥३५॥
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च । अश्वमेधसहस्राणि वाजपेयशतानि च । कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥३६॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥३७॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् द्विज ॥३८॥
इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP