संस्कृत सूची|संस्कृत साहित्य|कवच|
श्री गणेशाय नमः । श्री बग...

श्रीबगलामुखीकवचम् - श्री गणेशाय नमः । श्री बग...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्री गणेशाय नमः । श्री बगलायै नमः ।
प्रथमं गुरुं ध्यात्वा प्राणायामं कृत्वा कवचं पठेत् । ॐ अस्य श्रीपीताम्बराबगलामुखीकवचस्य महादेव ऋषिः, उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजम्, स्वाहा शक्तिः, अं ठः कीलकम्, मम सन्निहितानां दूरस्थानां सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं सर्वसम्पत्तिप्राप्तिचतुर्वर्गफलसाधनार्थे जपे विनियोगः ।
ध्यानम् - मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां सिंहासनोपरि गतां परिपीतवर्णाम् ॥
पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥२॥
इति ध्यात्वा पठेत् । हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये । अपृच्छद् गिरिशं देवी साधकानुग्रहेच्छया ॥१॥
श्रीपार्वत्युवाच । देवदेव महादेव भक्तानुग्रहकारक । श‍ृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥२॥
विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः । तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥३॥
मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥४॥
यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः । कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥५॥
यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् । आत्मानं सततं रक्षेद् व्याघ्राग्निरिपुराजतः ॥६॥
श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् । विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ॥७॥
तदाह कवचं देव्यै कृपया करुणानिधिः । श्रीशङ्कर उवाच । श‍ृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ॥८॥
यस्य स्मरणमात्रेण बगलामुखी प्रसीदति । सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ॥९॥
पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी । नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ॥१०॥
पातु नित्यं महादेवी प्रतीच्यां शूकरानना । वायव्ये पातु मां काली कौवेर्यां त्रिपुराऽवतु ॥११॥
ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया । ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ॥१२॥
अधस्ताद् अपि मां पातु वाराही चक्रधारिणि । मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ॥१३॥
भालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी । श्रवणौ विजया पातु नासिकायुगलं जया ॥१४॥
शारदा वचनं पातु जिह्वां पातु सुरेश्वरी । कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ॥१५॥
सुन्दरी पातु बाहू मे जया पातु करौ सदा । भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ॥१६॥
नाभिं पातु महामाया कटिं कमललोचना । ऊरू मे पातु मातङ्गी जानुनी चापराजिता ॥१७॥
जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा । सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ॥१८॥
पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु । रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ॥१९॥
स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी । इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ॥२०॥
गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् । यः सकृच्छृणुयाद् एतत् कवचं मन्मुखोदितम् ॥२१॥
स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् । तस्याशु शत्रवो यान्ति यमस्य भवते शिवे ॥२२॥
इति श्रीरुद्रयामले महातन्त्रे श्रीमहाविद्यापीताम्बरा बगलामुखीकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP