संस्कृत सूची|संस्कृत साहित्य|कवच|
प्रसीद भगवन् ब्रह्मन् सर्...

श्रीसुदर्शनकवचम् - प्रसीद भगवन् ब्रह्मन् सर्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्त्वतः ॥१॥
नारदः -- श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् । सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥२॥
कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् । सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥३॥
ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते । शिरः  सुदर्शनः पातु ललाटं चक्रनायकः ॥४॥
घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम । सहस्रारः श‍ृतिं पातु कपोलं देववल्लभः ॥५॥
विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः । कण्ठं पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वरः ॥६॥
भुजौ मे पातु विजयी करौ कैटभनाशनः । षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥७॥
मध्यं पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् । सर्वायुधमयः पातु कटिं श्रोणिं महाध्युतिः ॥८॥
सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ । गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥९॥
जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः । गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥१०॥
सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः । य इदं कवचं दिव्यं परमानन्द दायिनम् ॥११॥
सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः । तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥१२॥
कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः । पलायन्तेऽनिशं पीताः वर्मणोस्य प्रभावतः ॥१३॥
कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः । नश्यन्त्येतन् मन्त्रिताम्बु पानात् सप्त दिनावधि ॥१४॥
अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् । ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः ॥१५॥
इति श्रीभृगुसंहितोक्त श्रीसुदर्शन कवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP