संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीपादः पातु मे पादावूरू...

श्रीदत्तात्रेयकवचम् - श्रीपादः पातु मे पादावूरू...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीपादः पातु मे पादावूरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥१॥
नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः । कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥२॥
स्रक्कुण्डीशूलडमरुशङ्खचक्रधरः करान् । पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥३॥
जिह्वां मे वेदवाक्पातु नेत्रे मे पातु दिव्यदृक् । नासिकां पातु गन्धात्मा पातु पुण्यश्रवाः श्रुती ॥४॥
ललाटं पातु हंसात्मा शिरः पातु जटाधरः । कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥५॥
सर्वान्तरोऽन्तकरणं प्राणान्मे पातु योगिराट् । उपरिष्टादधस्ताच्च पृष्ठतः पार्श्वतोऽग्रजः ॥६॥
अन्तर्बहिश्च मां नित्यं नानारूपधरोऽवतु । वर्जितं कवचेनाव्यात्स्थानं मे दिव्यदर्शनः ॥७॥
राजतः शत्रुतो हिंस्राद् दुष्प्रयोगादितोऽघतः । आधिव्याधिभयार्तिभ्यो दत्तात्रेयः सदावतु ॥८॥
धनधान्यगृहक्षेत्रस्त्रीपुत्रपशुकिङ्करान् । ज्ञातींश्च पातु नित्यं मेऽनसूयानन्दवर्धनः ॥९॥
बालोन्मत्तपिशाचाभो द्युनिट्सन्धिषु पातु माम् । भूतभौतिकमृत्युभ्यो हरिः पातु दिगम्बरः ॥१०॥
य एतद्दत्तकवचं सन्नह्याद्भक्तिभावितः । सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥११॥
भूतप्रेतपिशाचाद्यैर्देवैरप्यपराजितः । भुक्त्वात्र दिव्यभोगान्स देहान्ते तत्पदं व्रजेत् ॥१२॥
इति श्रीमद् परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP