संस्कृत सूची|संस्कृत साहित्य|कवच|
नारद उवाच - भगवन् सर्वधर...

वंशलाभाख्यकवचम् - नारद उवाच - भगवन् सर्वधर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

नारद उवाच - भगवन् सर्वधर्मज्ञ पार्वतीप्राणवल्लभ । वंशलाभाख्यकवचं कृपया मे प्रकाशय ॥
ईश्वर उवाच - वंशलाभाख्यकवचं दुर्लभं भुवनत्रये । यस्य प्रसादात् कमला लेभे तनयमुत्तमम् ॥
कामदेवमपर्णा च विनायकषडाननौ । जयन्तभिन्द्रवनिता देवपत्न्यः सुतानपि ॥
विनियोगः - अस्य वंशलाभाख्यकवचस्य भैरवऋषिरनुष्टुपछन्दः, श्रीपार्वती देवता, जीविततनयप्राप्तये विनियोगः । पार्वती मे शिरः पातु वक्त्रं पातु महेश्वरी । भवानी नयने पातु भ्रुवौ शङ्करसुन्दरी ॥१॥
मध्ये पातु महेशानी नितम्बं सुरवन्दिता । ऊरू गौरी सदा पातु कौषिकी जानुयुग्मकम् ॥२॥
बाहु द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी । पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी ॥३॥
नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी । रुद्राणी हृदयं पातु स्तनद्वन्द्वं महेश्वरी ॥४॥
आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला । इति ते कथितं विप्र कवचं देवपूजितम् ॥५॥
पठित्वा धारयित्वा च अक्षयं तनयं लभेत् । ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥६॥
सहस्रादित्यसङ्काशां सर्वाभरणभूषिताम् । त्रिनेत्रां पाणिविन्यस्तपाशाङ्कुशवराभयाम् ॥७॥
॥ श्रीभैरवतन्त्रे शिवनारदसंवादे वंशलाभाख्यकवचं सम्पूर्ण ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP