संस्कृत सूची|संस्कृत साहित्य|कवच|
भैरव उवाच - वक्ष्यामि दे...

रुद्रकवचम् - भैरव उवाच - वक्ष्यामि दे...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

भैरव उवाच - वक्ष्यामि देवि कवचं मङ्गलं प्राणरक्षकम् । अहोरात्रं महादेवरक्षार्थं देवमण्डितम् ॥१॥
अस्य श्रीमहादेवकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, सौः बीजं, रुद्राः देवता, सर्वार्थसाधने विनियोगः । रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः । कपर्दी दक्षिणे पातु वामपार्श्वे तथा हरः ॥२॥
शिवः शिरसि मां पातु ललाटे नीललोहितः । नेत्रं मे त्र्यम्बकः पातु बाहुयुग्मं महेश्वरः ॥३॥
हृदये च महादेव ईश्वरश्च तथोदरे । नाभौ कुक्षौ कटिस्थाने पादौ पातु महेश्वरः ॥४॥
सर्वं रक्षतु भूतेशः सर्वगात्राणि मे हरः । पाशं शूलञ्च दिव्यास्त्रं खड्गं वज्रं तथैव च ॥५॥
नमस्करोमि भूतेश रक्ष मां जगदीश्वर । पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल ॥६॥
जन्ममृत्युजराव्याधिकामक्रोधादपि प्रभो । लोभमोहान्महादेव रक्ष मां त्रिदशेश्वर ॥७॥
त्वं गतिस्त्वं मतिश्चैव त्वं भूमिस्त्वं परायणः । कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे ॥८॥
फलश्रुतिः । इत्येतद्रुद्रकवचं पाठनात्पापनाशनम् । महादेवप्रसादेन भैरवेन च कीर्तितम् ॥९॥
न तस्य पापं देहेषु न भयं तस्य विद्यते । प्राप्नोति सुखमारोग्यं पुत्रमायुः प्रवर्द्धनम् ॥१०॥
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमेव च ॥११॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । ब्रह्महत्यादि पापं च पठनादेव नश्यति ॥१२॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे रुद्रकवचं समाप्तम् । अष्टमः पटलः

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP