संस्कृत सूची|संस्कृत साहित्य|कवच|
श्री गणेशाय नमः । मौलिं ...

वक्रतुण्डगणेशकवचम् - श्री गणेशाय नमः । मौलिं ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्री गणेशाय नमः । मौलिं महेशपुत्रोऽव्याद्भालं पातु विनायकः । त्रिनेत्रः पातु मे नेत्रे शूर्पकर्णोऽवतु श्रुती ॥१॥
हेरम्बो रक्षतु घ्राणं मुखं पातु गजाननः । जिह्वां पातु गणेशो मे कण्ठं श्रीकण्ठवल्लभः ॥२॥
स्कन्धौ महाबलः पातु विघ्नहा पातु मे भुजौ । करौ परशुभृत्पातु हृदयं स्कन्दपूर्वजः ॥३॥
मध्यं लम्बोदरः पातु नाभिं सिन्दूरभूषितः । जघनं पार्वतीपुत्रः सक्थिनी पातु पाशभृत् ॥४॥
जानुनी जगतां नाथो जङ्घे मूषकवाहनः । पादौ पद्मासनः पातु पादाधो दैत्यदर्पहा ॥५॥
एकदन्तोऽग्रतः पातु पृष्ठे पातु गणाधिपः । पार्श्वयोर्मोदकाहारो दिग्विदिक्षु च सिद्धिदः ॥६॥
व्रजतस्तिष्ठतो वापि जाग्रतः स्वपतोऽश्नतः । चतुर्थीवल्लभो देवः पातु मे भुक्तिमुक्तिदः ॥७॥
इदं पवित्रं स्तोत्रं च चतुर्थ्यां नियतः पठेत् । सिन्दूररक्तः कुसुमैर्दूर्वया पूज्य विघ्नपम् ॥८॥
राजा राजसुतो राजपत्नी मन्त्री कुलं चलम् । तस्यावश्यं भवेद्वश्यं विघ्नराजप्रसादतः ॥९॥
समन्त्रयन्त्रं यः स्तोत्रं करे संलिख्य धारयेत् । धनधान्यसमृद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥१०॥
अस्य मन्त्रः । ऐं क्लीं ह्रीं वक्रतुण्डाय हुं । रसलक्षं सदैकाग्र्यः षडङ्गन्यासपूर्वकम् । हुत्वा तदन्ते विधिवदष्टद्रव्यं पयो घृतम् ॥११॥
यं यं काममभिध्यायन् कुरुते कर्म किञ्चन । तं तं सर्वमवाप्नोति वक्रतुण्डप्रसादतः ॥१२॥
भृगुप्रणीतं यः स्तोत्रं पठते भुवि मानवः । भवेदव्याहतैश्वर्यः स गणेशप्रसादतः ॥१३॥
॥ इति गणेशरक्षाकरं स्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP