संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ अथ श्रीमदानन्दरामायणे म...

श्रीलक्ष्मणकवचम् - ॥ अथ श्रीमदानन्दरामायणे म...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ अथ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीलक्ष्मणकवचम् ॥
अगस्तिरुवाच- सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामळं बिभ्रन्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरम् । बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥
ॐ अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । श्रीलक्ष्मणो देवता । शेष इति बीजम् । सुमित्रानन्दन इति शक्तिः । रामानुज इति कीलकम् । रामदास इत्यस्त्रम् । रघुवंशज इति कवचम् । सौमित्रिरिति मन्त्रः । श्रीलक्ष्मणप्रीत्यर्थं  सकलमनोऽभिलषितसिद्ध्यर्थं जपे विनियोगः ॥
अथ अङ्गुळीन्यासः - ॐ लक्ष्मणाय अङ्गुष्ठाभ्यां नमः । ॐ शेषाय तर्जनीभ्यां नमः । ॐ सुमित्रानन्दनाय मध्यमाभ्यां नमः । ॐ रामानुजाय अनामिकाभ्यां नमः । ॐ रामदासाय कनिष्ठिकाभ्यां नमः । ॐ रघुवंशजाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः - ॐ लक्ष्मणाय हृदयाय नमः । ॐ शेषाय शिरसे स्वाहा । ॐ सुमित्रानन्दनाय शिखायै वषट् । ॐ रामानुजाय कवचाय हुं । ॐ रामदासाय नेत्रत्रयाय वौषट् । ॐ रघुवंशजाय अस्त्राय फट् । ॐ सौमित्रये इति दिग्बन्धः ॥
अथ ध्यानम् - रामपृष्ठस्थितं रम्यं रत्नकुण्डलधारिणम् । नीलोत्पलदळश्यामं रत्नकङ्कणमण्डितम् ॥१॥
रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमम् । वरपीताम्बरधरं मुकुटेनाधिशोभितम् ॥२॥
तूणीरे कार्मुके चापि बिभ्रन्तं च स्मिताननम् । रत्नमालाधरं दिव्यं पुष्पमालाविराजितम् ॥३॥
एवं ध्यात्वा लक्ष्मणं च राघवन्यस्तलोचनम् । कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥४॥
अथ कवचम् । ॐ लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः । प्रतीच्यां पातु सौमित्रिः पातूदीच्यां रघूत्तमः ॥५॥
अधः पातु महावीरः चोर्ध्वं पातु नृपात्मजः । मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥६॥
स्मिताननः शिरः पातु भालं पातूर्मिलाधवः । भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोऽक्षिणी ॥७॥
कपोले रममन्त्री च सर्वदा पातु वै मम । कर्णमूले सदा पातु कबन्धभुजखण्डनः ॥८॥
नासाग्रं मे सदा पातु सुमित्राऽऽनन्दवर्धनः । रामन्यस्तेक्षणः पातु सदा मेऽत्र मुखं भुवि ॥९॥
सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि । सौम्यरूपः पातु जिह्वां अनन्तः पातु मे द्विजान् ॥१०॥
चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः । स्कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनः ॥११॥
करौ कङ्कणधारी च नखान् रक्तनखोऽवतु । कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥१२॥
पार्श्वे राघवपृष्ठस्थः पृष्ठदेशं मनोरमः । नाभिं गम्भीरनाभिस्तु कटिं च रुक्ममेखलः ॥१३॥
गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः । ऊरू पातु विष्णुतल्पः सुमुखोऽवतु जानुनी ॥१४॥
नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान् मम । पादावङ्गदतातोऽव्यात् पात्वङ्गानि सुलोचनः ॥१५॥
चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा । रोमाणि मे सदा पातु रविवंशसमुद्भवः ॥१६॥
दशरथसुतः पातु निशायां मम सादरम् । भूगोलधारी मां पातु दिवसे दिवसे सदा ॥१७॥
सर्वकालेषु मामिन्द्रजिद्धन्ताऽवतु सर्वदा । एवं सौमित्रिकवचं सुतीक्ष्ण कथितं मया ॥१८॥
इदं प्रातः समुत्थाय ये पठन्त्यत्र मानवाः । ते धन्या मानवा लोके तेषां च सफलो भवः ॥१९॥
सौमित्रेः कवचस्यास्य पठनान्निश्चयेन हि । पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ॥२०॥
पत्नीकामो लभेत्पत्नीं गोधनार्थी तु गोधनम् । धान्यार्थी प्राप्नुयाद्धान्यं राज्यार्थी राज्यमाप्नुयात् ॥२१॥
पठितं रामकवचं सौमित्रिकवचं विना । घृतेन हीनो नैवेद्यस्तेन दत्तो न संयशयः ॥२२॥
केवलं रामकवचं पठितं मानवैर्यदि । तत्पाठेन सुसन्तुष्टो न भवेद्रघुनन्दनः ॥२३॥
अतः प्रयत्नतश्चेदं सौमित्रिकवचं नरैः । पठनीयं सर्वदैव सर्ववाञ्छितदायकम् ॥२४॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीलक्ष्मणकवचं सम्पूर्णम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत्  हनुमत्-लक्ष्मण-सीता-राम –  अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP