संस्कृत सूची|संस्कृत साहित्य|कवच|
भगवन् ! सर्वमाख्यातं मन्त...

श्रीपद्मावतीकवचम् - भगवन् ! सर्वमाख्यातं मन्त...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

भगवन् ! सर्वमाख्यातं मन्त्रं यन्त्रं शुभप्रदम् । पद्मायाः कवचं ब्रूहि यद्यहं तव वल्लभः ॥१॥
महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् । कवचं मोहनं देवि !  गुरुभक्ताय दीयते ॥२॥
राज्ये देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरुभक्ताय दातव्यमन्यथा सिद्धिदं न हि ॥३॥
ऐं बीजम् । क्लीँ शक्तिः । ह्सौँ कीलकम् ।
पद्मावतीप्रीत्यर्थ जपे विनियोगः ।
ॐ परब्रह्मणे नमः शिरसि । अनुष्टुप्छन्दो यो नमः मुखे । श्रीपद्मावतीशक्तिदेवतायै नमः हृदये । आं बीजाय नम कण्ठे । ह्रीं शक्तये नमः गुह्ये । क्रौँ कीलकाय नमः पादयोः ।
श्रीपद्मावतीकवचसिद्ध्यर्थं जपे विनियोगः ॥
ॐ पद्मा बीजं शिरः पातु ललाटं पञ्चमी परा । नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ॥४॥
नाशिकां नागनाथश्च जिह्वां वागीश्वरी तथा । श्रुतिरूपा जगद्धात्री करौ हृथिमवासिनी ॥५॥
उदरं मोहदमनी कुण्डली नाभिमण्डलम् । पार्श्व पृष्ठं कटिं गुह्यं शक्तिस्थाननिवासिनी ॥६॥
ऊरू जङ्घे तथा पादौ सर्वविघ्नविनाशिनी । रक्ष रक्ष महामाये पद्मे !  पद्मालये शिवे ॥७॥
वाञ्छितं पूरयत्याशु पद्मा सा पात सर्वतः । भवद तु कवचं ढेगृया यो जानाति स मन्त्रवित ॥८॥
राजद्वारे श्मशाने च भूतप्रेतोपचारके । बन्धने च महादुःखे भये शत्रुसमागमे ॥९॥
स्मरणात्कवचस्याम्य भयं किञ्चिन्न जायने । प्रयोगमुपचार च पद्मायाः कर्तुमिच्छति ॥१०॥
कवचं प्रपठेदादौ ततः सिद्धिमवानुप्नुयात् । भूर्यपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ॥११॥
देहे च यत्र कुत्रापि सर्वसिद्धिर्भवेद ध्रुवम् । शस्त्राग्निजं भयं नेव भूतादिभयनाशनम् ॥१२॥
गुरुभक्तिं समासाद्य पद्मायाः स्तवनं कुरु । सहस्रनामपठने कवचं प्रथमं कुरु ॥१३॥
नन्दिना कथितं देवि !  तवाग्रे तत्प्रकाशितम् । साङ्गता जायते देवि !  नान्यथा गिरिनन्दिनी ॥१४॥
इद कवचमज्ञात्वा पद्मायाः स्तौति यो नर । कल्पकोटीशतेनापि न भवेत्सिद्धिदायिनी ॥१५॥
इति श्रीपद्मावतीकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP