संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीकृष्णाय नमः ॥श्रीगोपी...

सुदर्शनकवचम् - श्रीकृष्णाय नमः ॥श्रीगोपी...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीकृष्णाय नमः ॥श्रीगोपीजनवल्लभाय नमः ॥
अथ विनियोगः ॐ अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः । श्रीसुदर्शनो देवता ॥गायत्री छन्दः ॥दुष्टं दारयतीति कीलकम् ॥
हन हन द्विष इति बीजम् ॥
सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥
अथ न्यासः ॐ नारायणऋषये नमः शिरसि ॥
ॐ गायत्री छन्दसे नमः मुखे ॥
ॐ दुष्टं दारयतीति कीलकाय नमः हृदये ॥
ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ॥
ॐ सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ॥
 इति ऋष्यादिः ॥
अथ हृदयादिन्यासः ॐ नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ॥
ॐ गायत्रीछन्दसे नमः तर्जनीभ्यां नमः । ॐ दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ॥- ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ॥
ॐ सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल-करपृष्ठाभ्यां नमः ॥
ॐ नारायणऋषये नमः हृदयाय नमः ॥
ॐ गायत्रीछन्दसे नमः शिरसे स्वाहा ॥
ॐ दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ॥
ॐ ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ॥
ॐ सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ॥
ॐ सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ॥
 इति न्यासं विधाय ध्यानं कुर्यात् । अथ ध्यानम् । सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् । ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥१॥
कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् । सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥२॥
अथ मन्त्रः - ॐ ह्रां ह्रीं ह्र्रूं नमो भगवते भो भो सुदर्शनचक्र   दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥
अथ सुदर्शन-कवचम् । श्री कृष्णाय नमः ॥श्रीगोपीजनवल्लभाय नमः ॥
ॐ वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः । सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥१॥
यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते । उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥२॥
ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः । वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥३॥
वैष्णवानां हितार्थाय चक्रं धारयते हरिः । पीताम्बरः परब्रह्म वनमाली गदाधरः ॥४॥
कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः । श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥५॥
दावाग्निपानकर्ता च गोपीभयनिवारकः । गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥६॥
व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः । गो-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥७॥
कामरूपी कलावांश्च कामिन्यां कामदो विभुः । मन्मथो मथुरानाथो माधवो मकरध्वजः ॥८॥
श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः । भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥९॥
सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः । श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥१०॥
चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः । कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥११॥
भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः । हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥१२॥
भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् । कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥१३॥
पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः । भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥१४॥
नाटकं चेटकं चैव छलं छिद्रं न दृश्यते । अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥१५॥
सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय । भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥१६॥
व्याल-व्याघ्र-महाशत्रु-वैरिबन्धो न लभ्यते । आधिव्याधिहरश्चैव ग्रहपीडा-विनाशनम् ॥१७॥
इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते । वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥१८॥
कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् । देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥१९॥
वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च । सुदर्शनमहामन्त्रो लभते जयमङ्गलम् । सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥२०॥
इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP