संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ नमोभगवते रुद्राय । राज...

माहेश्वरकवचम् - ॐ नमोभगवते रुद्राय । राज...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ नमोभगवते रुद्राय । राजोवाच । अङ्गन्यासं यदुक्तंभो महेशाक्षर संयुतम् । विधानं कीदृशं तस्य कर्तव्यं केन हेतुना ॥१॥
तद्वदस्व महाभाग विस्तरेण ममाग्रतः । भृगुरुवाच । कवचं महेश्वरं राजन् देवैरपि सुदुर्लभम् ॥२॥
यः करोति स्वगात्रेषु पूतात्मा संभवेन्नरः । कृत्वा न्यासमिमं यस्तु सङ्ग्राम प्रविशेन्नरः ॥३॥
न शरास्तोमरास्तस्य खड्गशक्ति परश्वधाः । प्रभवन्ति रिपोः क्वापि भवेच्छिवपराक्रमः ॥४॥
व्याधिग्रस्तस्तु यः कश्चित्कारयेच्चैवमार्जनम् । एकादशकुशैः साग्रैर्मुक्तोभवति नान्यथा ॥५॥
न भूता न पिशाचाश्च कूष्माण्डा न विनायकाः । शिवस्मरणमात्रेण न विशन्ति कलेवरे ॥६॥
ॐ नमः पञ्चवक्त्राय शशिसोमार्कनेत्राय भयार्त्तानामभयाय मम सर्वगात्ररक्षार्थे विनियोगः ॐ ह्रौं ह्रां ह्रं मन्त्रेणानेन वृषगोमयभस्मनाम् आमन्त्र्यललाटे तिलकमादाय पठेत् ॥
त्राहि मां देव दुष्प्रेक्ष्य शत्रूणांभयवर्धन । ॐ स्वच्छन्दभैरवः प्राच्यामाग्नेय्यां - शिखिलोचनः ॥७॥
भूतेशो दक्षिणे भागे नैरृत्यां भीमदर्शनः । वारुणे वृषकेतुश्च वायौ रक्षतु शङ्करः ॥८॥
दिग्वासाः सौम्यतो नित्यमैशान्यां मदनान्तकः । वामदेव ऊर्ध्वतो रक्षेदधोरक्षेत्त्रिलोचनः ॥९॥
पुरारिः पुरतः पातु कपर्दी पातु पृष्ठतः । विश्वेशो दक्षिणे भागे वामे कालीपतिः सदा ॥१०॥
माहेश्वरः शिरोभागे भवो भाले सदावतु । भ्रुवोर्मध्ये महातेजास्त्रिनेत्रो नेत्रयोर्द्वयोः ॥११॥
पिनाकी नासिका देशे कर्णयोर्गिरिजापतिः । उग्रः कपोलतो रक्षेन्मुखदेशे महाभुजः ॥१२॥
जिह्वायामन्धकध्वंसी दन्तान्रक्षतु मृत्युजित् । नीलकण्ठः सदाकण्ठे पृष्ठे कामाङ्गनाशनः ॥१३॥
त्रिपुरारिः स्कन्धदेशे बाह्वोश्च चन्द्रशेखरः । हस्तिचर्मधरो हस्ते नखाङ्गुलिषु शूलभृत् ॥१४॥
भवानीशः पातु हृदयं पातूदरकटीर्मृडः । गुदे लिङ्गे च मेढ्रे च नाभौ च प्रमथाधिपः ॥१५॥
जङ्घोरुचरणे भीमः सर्वाङ्गेकेशवप्रियः । रोमकूपे विरूपाक्षः शब्दे स्पर्शेच योगवित् ॥१६॥
रक्तमज्जावसामासशुक्रेवसुगणार्चितः । प्राणापानसमानेषुदानव्यानेषुधूर्ज्जटीः ॥१७॥
रक्षाहीनन्तुयत्स्थानं वर्जितं कवचेन यत् । तत्सर्वं रक्षमे देव व्याथिदुर्गज्वरादितः ॥१८॥
कार्यं कर्म त्विदं प्राज्ञैर्दीपं प्रज्वाल्य सर्पिषा । निवेद्य शिखिनेत्राय वारयेच्चोत्तरं मुखम् ॥१९॥
ज्वरदाहपरिक्रान्तं तथान्यव्याधिसंयुतम् । कुशैःसंमार्ज्य समार्ज्यक्षिपेद्दीपशिखेज्वरम् ॥२०॥
ऐकाहिकं द्व्याहिकं वा तृतीयकचतुर्थकम् । वातपित्तकफोद्भूतं सन्निपातोग्रतेजसम् ॥२१॥
अन्यद्दुःखदुराधर्षं कर्म चाभिचारिकम् । धातुस्थं कफसंमिश्रं विषम कामसम्भवम् ॥२२॥
भूताभिषङ्गसगर्तं भूतचेष्टादिसस्थितम् । शिवाज्ञां घोरमन्त्रेण पूर्ववृत्तं स्वयं स्मर ॥२३॥
जहि देहं मनुष्यस्य दीपं गच्छ महाज्वर । कृत्वा तु कवचं दिव्यं सर्वव्याधिभयार्दनम् ॥२४॥
न बाधन्ते व्याधयस्तं बालग्रहभयाश्च ये । लूताविस्फोटकं घोरशिरोर्त्तिच्छर्द्दिविग्रहम् ॥२५॥ ?? कामलाक्षयकासञ्च गुल्माश्मरिभगन्दरान् । शूलोन्मादञ्चहृद्रोगं यकृतं पाण्डुविद्रधिम् ॥२६॥
अतिसारादयोरोगा डाकिनीग्रहपीडिताम् । पामाविचर्चिकाद्द्रुकुष्ठव्याधिविषार्दनम् ॥२७॥
स्मरणान्नाशयत्याशु कवचं शूलपाणिनः । यस्तु स्मरति नित्यं वै यस्तु धारयते नरः ॥२८॥
समुक्तः सर्वपापेभ्यो वसेच्छिवपुरे चिरम् । सख्यव्रतस्य दानस्य यज्ञस्यास्तीव शास्त्रतः ॥२९॥
न सङ्ख्या विद्यते शम्भोः सर्वकामफलप्रदम् ॥३०॥
श्रोतव्यं सततं भक्त्या कवचं सर्वकामिकम् । लिखितं तिष्ठते यस्य गृहे सम्यगनुत्तमम् ॥३१॥
न तत्र कलहोद्वेगं नाकालमरणंभवेत् । नाल्पप्रजाः स्त्रियस्तत्र न दौर्भाग्यसमाश्रिताः ॥३२॥
तस्मान्माहेश्वरं नाम कवचं सुरगणार्चितम् । श्रोतव्यं पठितव्यञ्च मन्तव्यं भावुकप्रदम् ॥३३॥
माहेश्वरस्य कवचं सर्वव्याधिनिषूदनम् । यः पठेच्चेन्नरो नित्यं सव्रजेच्छाङ्करं पुरम् ॥३४॥
इति श्रीमाहेश्वरकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP