संस्कृत सूची|संस्कृत साहित्य|कवच|
बालार्कमण्डलाभासां चतुर्ब...

श्रीबाला दुःस्वप्ननाशककवचम् - बालार्कमण्डलाभासां चतुर्ब...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥१॥
पुर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे । मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥२॥
ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी । अधस्तात् पातु देवेशी पातालतलवासिनी ॥३॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि । महाविद्या भगवती पातु मां परमेश्वरी ॥४॥
ऐं लं ललाटे मां पायात् ह्रौं ह्रीं हंसश्च नेत्रयोः । नासिकाकर्णयोः पातु ह्रीं ह्रैं तु चिबुके तथा ॥५॥
सौः पातु मे हृदि गले ह्रीं ह्रः नाभिदेशके । सौः क्लीं श्रीं गुह्यदेशे तु ऐं ह्रीं पातु च पादयोः ॥६॥
ह्रीं क्लीं मां सर्वतः पातु सौः पायात् पदसन्धिषु । जले स्थले तथा कोशे देवराजगृहे तथा ॥७॥
क्षें क्षें मां त्वरिता पातु मां चक्री सौः मनोभवा । हंसौः पायान्महादेवी परं निष्कलदेवता ॥८॥
विजया मङ्गला दूती कल्पा मां भगमालिनी । ज्वालामालिनी नित्या सर्वदा पातु मां शिवा ॥९॥
इतीदं कवचं देवि देवानामपि दुर्लभम् । तव प्रीत्या समाख्यातं गोपनीयं प्रयत्नतः ॥१०॥
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये । धन्यं प्रशस्यमायुष्यं भोगमोक्षप्रदं शिवम् ॥११॥
इति श्रीबाला दुःस्वप्ननाशककवचं (४) सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP