संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । श्रीपार...

मातङ्गीकवचम् - श्रीगणेशाय नमः । श्रीपार...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । श्रीपार्वत्युवाच । देवदेव महादेव सृष्टिसंहारकारक । मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥१॥
शिव उवाच । अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् । तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥२॥
शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे । अनया सदृशी विद्या न भूता न भविष्यति ॥३॥
शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् । एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥४॥
उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः । सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥५॥
महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु । ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥६॥
ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका । ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥७॥
ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा । ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥८॥
उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी । शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥९॥
उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः । स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥१०॥
अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् । भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥११॥
दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् । उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥१२॥
रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः । रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥१३॥
सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन । अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥१४॥
भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् । प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥१५॥
स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे । सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥१६॥
स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा । वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥१७॥
जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् । शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥१८॥
इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा । तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥१९॥
॥ इति श्रीरुद्रयामले तन्त्रे मातङ्गीसुमुखीकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP