संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । श्रीभैर...

वरदगणेशकवचम् - श्रीगणेशाय नमः । श्रीभैर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । श्रीभैरव उवाच । महादेवि गणेशस्य वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥१॥
अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः , गायत्र्यं छन्दः , श्रीमहागणपतिर्देवता , गं बीजं , ह्रीं शक्तिः , कुरुकुरु कीलकं , वज्रविद्यादिसिद्ध्यर्थे महागणपतिवज्रपञ्जरकवचपाठे विनियोगः । ध्यानम् । विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं साक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् । प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥२॥
ॐश्रींह्रींगं शिरः पातु महागणपतिः प्रभुः । विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥३॥
पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः । श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥४॥
द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् । दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥५॥
गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥६॥
ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः । हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥७॥
प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः । कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥८॥
मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् । विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥९॥
जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु । पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥१०॥
पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम । विचारो जठरं पातु भूतानि चोग्ररूपकः ॥११॥
शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु । पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥१२॥
विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु । पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥१३॥
दक्षिणे पातु संहारो नैरृते रुरुभैरवः । पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥१४॥
उत्तरे मां सितास्युऽव्यादैशान्यामसितात्मकः । प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥१५॥
दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥१६॥
सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः । ॐॐ राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात् श्रींश्रीं शत्रुगृहे शशौं जलभये क्लींक्लीं वनान्तेऽवतु । ग्लौंग्लूंग्लैंग्लंगुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौंगगौं नित्यं यक्षपिशाचभूतफणिषु ग्लौंगं गणेशोऽवतु ॥१७॥
इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् । वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥१८॥
अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् । विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥१९॥
तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा । तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥२०॥
यंयं कामयते कामं तं तं प्राप्नोति पाठतः । अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥२१॥
इति गुह्यं सुकवचं महागणपतेः प्रियम् । सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥२२॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP