संस्कृत सूची|
संस्कृत साहित्य|
कवच|
अथ षष्ठसप्ततितमः पटलः श्...
काकिनीकवचम् - अथ षष्ठसप्ततितमः पटलः श्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अथ षष्ठसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच कथयामि महाकाल! चात्यन्ताद्भुतसाधनम् । कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् ॥७६-१॥
यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके । भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥७६-२॥
किं न सिद्धिं करोत्येव साधको योगिनीपतिः । योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥७६-३॥
महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव च । फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥७६-४॥
जङ्घासिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा । अणिमाद्यष्टसिद्धिश्च करे तस्य स्थिरा भवेत् ॥७६-५॥
कवचं काकिनीदेव्याः सर्वसिद्धिप्रदायकम् । अकाले वा सुकाले वा पठनाद् धर्मसञ्चयम् ॥७६-६॥
जयी धर्मसञ्चयेन जयो यत्र शिवस्ततः । यत्र शिवा तत्र शिवः कवचात्मा द्वयं प्रियौ ॥७६-७॥
कर्तारौ तौ सदा तारौ पार्वतीपरमेश्वरौ । कार्यकारणस्रष्टारौ उभौ तत्र परात्परौ ॥७६-८॥
कवचात्मकमूर्त्तौ च स्थातारौ प्रभवात्मकौ । तस्य नामाक्षरं वक्ष्ये शृष्णुष्व भैरवेश्वर ॥७६-९॥
भैरवी भीमरूपा च विरूपा रूपवर्जिता । सूक्ष्मातिसूक्ष्मरूपा च स्वप्रकाशा च शाकिनी ॥७६-१०॥
चपला चञ्चला भीमा चन्द्रदेवी परापरा । कमलाक्षी देवमाता खड्गकपालधारिणी ॥७६-११॥
गुर्वी गौरी घनच्छाया ओंङ्काराद्या चरुप्रिया । छाया जया चाञ्जना च ओङ्कारात्मा कलावती ॥७६-१२॥
टङ्कारिणी डाकिनी च टक्कादेवी रुणप्रिया । तारिणी स्थूलपुष्टा च दयाधर्मप्रिया नुतिः ॥७६-१३॥
परमा बुद्धिशक्तिश्च फलदा फाल्गुनी कला । वसुधारा वासुकी च भद्रकाली भवाभवा ॥७६-१४॥
मनसा मोहिनी माता यशोदा याज्ञिका यशा । रूपेश्वरी रणप्राणा लक्ष्मीर्लक्षणशोभिता ॥७६-१५॥
वसुप्रिया वसुरता बालरक्षा शशिप्रभा । षडक्षरी शारदा च हरिद्रा हारमालिनी ॥७६-१६॥
लावण्यनिरता लङ्का क्षयरोगविनाशिनी । क्षेत्रपाला च क्षेत्री च क्षत्रिया क्षेमदा क्षमा ॥७६-१७॥
क्षुन्निवृत्तिकरी क्षुब्धा क्षालनाख्या क्षराक्षरा । अनन्ताख्या उमा दुर्गा ऋषभा ईश्वरप्रिया ॥७६-१८॥
ऌकारबीजकूटस्था ऌकारदीर्घजीविका । एरण्डरणचामुण्डा ऐन्द्री डट्टप्रियान्तरा ॥७६-१९॥
तुनुतुण्डा ओषधी च उत्तमाधममध्यमा । औद्वेषिणी औषधस्था अट्टहासात्मसङ्गता ॥७६-२०॥
अर्थदा अष्टहस्ता च अर्ककोटिमयूखगा । अर्धनारीश्वरा अर्च्या अर्बुदास्त्रधरा समा ॥७६-२१॥
अष्टैश्वर्यप्रदा अर्घा अम्भस्था चाप्यरुन्धती । अर्पणाख्या अर्कमुनी अर्पणा अस्खलस्थिता ॥७६-२२॥
अर्चनाढ्या अर्चनास्था अराती अरुणाधरा । अष्टोत्तराख्यममृतं पठित्वा कवचं पठेत् ॥७६-२३॥
तदा फलसमृद्धिः स्यादायुरारोग्यसाधनम् । शाकिनीकवचस्यास्य सदाशिव ऋषिः स्मृतः ॥७६-२४॥
गायत्रीच्छन्द एवापि शाकिनी देहदेवता । ॐ श्रीं क्लीं मे शिरः पातु ब्लूँ ह्लूँ मे ललाटकम् ॥७६-२५॥
चक्षुषी खेचरी पातु कर्णौ मे शिवशाकिनी । गण्डयुग्मं सदा पातु देवशाकम्भरी रमा ॥७६-२६॥
स्वाहा पातु युग्मनासां ओष्ठाऽधरं शिरोऽवतु । द्रीं ह्रीं श्रीं मे दन्तपङ्क्तिं जिह्वाग्रं देहदेवता ॥७६-२७॥
चिबुकं कमला देवी वाग्दात्री मे कपालकम् । वदनं कालिका पातु शब्दबीजात्मिका गलम् ॥७६-२८॥
कण्ठदेवी शाकिनी च पातु मे कण्ठपङ्कजम् । सुरादेवी सदा पातु हृत्पद्मं कामरूपिणी ॥७६-२९॥
कलावती कामकामा काममाला विशुद्धकम् । सदाशिवपथं पातु लक्ष्मीर्मे नाभिपङ्कजम् ॥७६-३०॥
उल्कामुखी सदा पातु देवमाता षडक्षरम् । सदा पातु विष्णुपद्मं राकिणी पातु मे दलम् ॥७६-३१॥
कटिदेशं सदा पातु भोगदा ज्ञानमोक्षदा । मूलाधारं सदा पातु काकिनी परमेश्वरी ॥७६-३२॥
एकरूपा सदा पातु लिङ्गाधारं विरूपिणी । मार्कण्डपूजिता देवी मृकुण्डा मूलवासिनी ॥७६-३३॥
सदा मे पातु देवेशि अभया चारुदेशकम् । दर्शनाख्या महादेवी लिङ्गाधारं पदान्तरम् ॥७६-३४॥
पातु देवी हिरण्याक्षी सर्वाङ्गं सर्वदेवता । विधात्री सूक्ष्मरूपस्था स्थूलाङ्गी च कृशोदरी ॥७६-३५॥
सर्वत्र सर्वदा पातु देवी शाकम्भरी मम । हृत्कालिका सदा पातु सर्वाङ्गं सर्वदेशके ॥७६-३६॥
इति ते कथितं नाथ कवचं देवदुर्लभम् । पठित्वा सिद्धिप्राप्नोति राजत्वं लभते नरः ॥७६-३७॥
अकस्मात् सूर्यतुल्यः स्यात् कामजेता स्वयं भवेत् । धारणाद् देहवृद्धिः स्यादायुरारोग्यसम्पदम् ॥७६-३८॥
वायुसिद्धिकरं साक्षादमृतानन्दविग्रहम् । अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं करोति हि ॥७६-३९॥
खेचरो योगजेता स्यादाशाक्षयकरो भवेत् । ततः पठेत् काममन्त्रं तदन्ते ध्यानमाचरेत् ॥७६-४०॥
ॐश्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणा- मुम्म इषाण सर्वलोकम्म इषाण ॥७६-४१॥
जपित्वा काममन्त्रं हि सर्वकामफलं लभेत् । ततो ध्यात्वा च कवचं ध्यायेद्यः शाकिनीशिवम् ॥७६-४२॥
स वेदपारमायाति शाकिनीध्यानयोगतः ॥७६-४३॥
प्राणाख्यां शुक्लपद्मे निरवधिनिलयां शाकिनीं पीतवस्त्रां सूक्ष्मां भूषातिरुद्रोद्भवतनुचपलां चञ्चलां सिद्धिलोलाम् । हस्तैः पद्मैश्चतुर्भिः सुनयनकमलैर्भासमानां शिवाढ्यां पद्माभीतिप्रचण्डासिचसहितां शाकमातां भजामि ॥७६-४४॥
ध्यात्वा योगी श्मशाने गिरिवरकुहरे डाकिनीदेशमध्ये शून्ये गर्तेवने वा गगनगृहतले शून्यगेहे सुप्रवासे । ज्ञानात्मा यो वशी वा पठति च सततं शाकिनीदेहयोगं गङ्गायां स्वीयगर्भे कवचमभयदं सर्वदं याति सिद्धिम् ॥७६-४५॥
कवचं कारणैर्देवीं पूजयित्वा यथाविधि । अकस्मात् कायसिद्धिः स्यादष्टैश्वर्यसमन्वितः ॥७६-४६॥
मोक्षमाप्नोति भावेन सुखं तस्य पदे पदे । म्रियन्तु बालका यस्याः काकवन्ध्या च या भवेत् ॥७६-४७॥
धारयित्वा त्विमां विद्यामेतैर्दोषैर्न लिप्यते । कण्ठे यो धारयेदेतां समरे काण्डधारिणीम् ॥७६-४८॥
अक्षयत्वमवाप्नोति जीवमात्रः सदाशिवः । गोरोचनाकुङ्कुमेन कालागुरुहरिद्रया ॥७६-४९॥
लाक्षारसैर्लेखयित्वा धारयित्वाऽमृतं लभेत् ॥७६-५०॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे शाकिनीकवचं नाम षष्ठसप्ततितमः पटलः ॥७६॥
N/A
References : N/A
Last Updated : November 17, 2025

TOP