संस्कृत सूची|संस्कृत साहित्य|कवच|
ब्रह्मोवाच ।  शिरो ...

नवग्रहकवचम् - ब्रह्मोवाच ।  शिरो ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ब्रह्मोवाच ।  शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः । अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम् ॥
एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः । स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ॥
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् । दारार्थी लभते भार्यां सुरूपां सुमनोहराम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् । जले स्थले चान्तरिक्षे कारागारे विशेषतः । यः करे धारयेन्नित्यं भयं तस्य न विद्यते । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥
नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता । काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥
इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् ।

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP