संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । अथ शा...

शारिकाकवचम् - ॐ श्रीगणेशाय नमः । अथ शा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । अथ शारिकाकवचम् । श्रीभैरव उवाच - ॐ अधुना श‍ृणु देवेशि शारिकाकवचं परम् । त्रैलोक्यमोहनं नाम मूलमन्त्रमयं परम् ॥१॥
अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् । सर्वापत्तारणं दिव्यं सर्वसिद्धिप्रदं कलौ ॥२॥
सर्वस्वं मे रहस्यं मे परमं परमाद्भुतम् । धारणादस्य देवेशि विष्णुना स जलोद्भवः ॥३॥
दानवेन्द्रो हतः शीघ्रमन्धकारो यथेन्दुना । मयापि त्रिपुराध्यक्षो दानवो जिष्णुना बलः ॥४॥
जम्भो वृत्रासुरो देवि प्रभावादस्य वर्मणः । कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः ॥५॥
त्रिष्टुप्छन्दो देवता च त्रैलोक्यमोहिनीश्वरी । शारिका शर्म बीजं च माशक्तिः कीलकं गजः ॥६॥
त्रैलोक्यमोहविद्यार्थे विनियोगः प्रकीर्तितः । ॐ मे  दुर्गा शिरः पायादेकाक्षरविभूषणा ॥७॥
ॐ ह्रीं चण्डी ललाटं मे जगदुल्लासरूपिणी । ॐ ह्रीं श्रीं त्र्यक्षरा पातु भ्रुवौ मे भगमालिनी ॥८॥
ॐ ह्रीं श्रीं हूं च नेत्रेऽव्यात्सर्वमङ्गलमङ्गला । ॐ ह्रीं श्रीं हूं फ्रामऽव्यान्मे श्रुती शङ्करवल्लभा ॥९॥
ॐ ह्रीं श्रीं हूं फ्रां आं पातु नासां नारायणेश्वरी । ॐ ह्रीं श्रीं हूं फ्रां आं शां मे पातु वक्त्रं सरस्वती ॥१०॥
अं आं इं ईं  रदान्पातु मातृका शेखरेश्वरी । उं ऊं ऋं ॠं लृं लॄं एं ऐं पायादोष्ठौ भवप्रिया ॥११॥
ॐ औं अं अः गलं पातु नीलकण्ठासनेश्वरी । कं खं गं घं ङं मे पातु स्कन्धौ स्कन्दसमर्चिता ॥१२॥
चं छं जं झं ञं मे पायाद्वक्षो वामप्रियाम्बिका । टं ठं डं ढं णं मे पायात्पार्श्वौ पर्वतनन्दिनी ॥१३॥
तं थं दं धं नं मे पातु कुक्षिं कुलाकुलेश्वरी । पं फं बं भं मं मे पातु नाभिं नारदसेविता ॥१४॥
यं रं लं वं गुदं पातु गुह्यकेश्वरपूजिता । शं षं सं हं कटिं पातु देवी कात्यायनी तथा ॥१५॥
ळं क्षः ऊरू सदा पातु सर्वसारस्वतप्रदा । ॐ शां जानू शिवा पातु ॐ आं जङ्घेऽवतादुमा ॥१६॥
ॐ फ्रां पादौ सदा पातु राजमातङ्गिनी मम । ॐ हूं पादादिमूर्धान्तं वपुर्मे पातु कुब्जिका ॥१७॥
ॐ श्रीं मूर्धादिपादान्तं वपुर्मे, पातु शारदा । ॐ ह्रीं सप्ताक्षरीपातु शारिका सकलं वपुः ॥१८॥
पूर्वे मां पातु ब्रह्माणी वह्नौ मे वैष्णवी सदा । दक्षिणेऽवतु मां चण्डी नैरृते मेऽपराजिता ॥१९॥
पश्चिमेऽवतु कौमारी वायव्ये शाम्भवी च माम् । वाराही चोत्तरे पायादीशाने नारसिंहिका ॥२०॥
प्रभाते मामुमा पातु मध्ये कामाऽवताच्च माम् । चार्वङ्गी मां दिनान्तेऽव्यान्निशादौ टङ्कधारिणी ॥२१॥
निशीथेऽव्यादुग्रतारा निशान्ते पार्वती च माम् । सर्वत्र यक्षिणी पातु शिवा मां पातु सर्वदा ॥२२॥
असिताङ्गः क्षितेः पातु रुरुर्मां पातु पाथसः । चण्डो मां पातु मरुतः क्रोधोऽव्यान्मां हुताशनात् ॥२३॥
उन्मत्तः सोमतः पातु कपाली सूर्यतोऽवतु । भीषणो यज्ञविघ्नात्तु संहारः शून्यमण्डलात् ॥२४॥
रणे मां कालिका पातु द्यूते त्रिपुरसुन्दरी । दुर्गाऽवतु विवादे वा श्रीचक्रं सर्वदाऽवतु ॥२५॥
सर्वत्र सर्वदा देवी पातु मां शारिका परा । धनं पुत्रं सुतान्दारान्गृहं यद्यत्तु मामकम् । तत्तन्मम शिवः पातु वामदेवो चिदीश्वरः ॥२६॥
इत्येतत्कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् । त्रैलोक्यमोहनं नाम शारिकाया रहस्यकम् ॥२७॥
विनाऽमुना न सिद्धिः स्यात्कवचेन्द्रेण पार्वति । कोटिलक्ष्यप्रजप्तस्य मन्त्रस्याऽस्य महेश्वरि ॥२८॥
तस्मात्पठेच्छिवे वर्म मनुगर्भमनुक्षणम् । सर्वोत्पातप्रशमनं बलबुद्धिप्रवर्धनम् ॥२९॥
परमानन्ददं लोके परमैश्वर्यकारणम् । यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥३०॥
स एव भैरवाध्यक्षस्त्रैलोक्यविजयी विभुः । रवौ भूर्जे लिखेद्वर्म स्वयम्भूकुसुमस्रजा ॥३१॥
कुसुमेनाष्ठगन्धेन स्तन्येन निजरेतसा । धारयेन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् ॥३२॥
धनकामी लभेद्वित्तं पुत्रकामी लभेत्प्रजाम् । रणे रिपून्नरो हत्वा कल्याणी गृहमाविशेत् ॥३३॥
धृत्वा वक्षसि देवेशि वाग्मित्वं जायते क्षणात् । वन्ध्या च काकवन्ध्या च मृतवत्सा लभेत्सुतान् ॥३४॥
मार्काण्डेयायुषो देवि साक्षाद्वैश्रवणोपमान् । किं किं न लभते मर्त्यः पठन्कवचमुत्तमम् ॥३५॥
यः पठेदर्धरात्रे तु श्मशाने मुक्तकुन्तलः । पीत्वा शीधुं स देवेशि देवीदर्शनमाप्नुयात् ॥३६॥
स्तम्भयेद्भास्करं वायुं मोहयेत्त्रिजगद्ध्रुवम् । बहु किं कथ्यतां तस्य कवचस्याऽस्य धारणात् ॥३७॥
पठणाच्छ्रवणाद्वापि स भवेद्भैरवोपमः । इतीदं कवचं देवि त्रैलोक्यवश्यकारणम् ॥३८॥
त्रैलोक्यमोहनं नाम गोपनीयं सुरेश्वरि । यस्य कस्य न दातव्यं विना शिष्येण पार्वति ॥३९॥
दीक्षिताय कुलीनाय दत्त्वा मोक्षमवाप्नुयात् । विना दानं न गृह्णीयान्नदद्याद्दक्षिणां विना ॥४०॥
दत्त्वा गृहीत्वाऽप्युभयोः सिद्धिहानिर्भवेद्ध्रुवम् । अन्यथा यस्तु गृह्णीयाद्दद्याद्वा कवचेश्वरम् ॥४१॥
पुत्रान्दारान्सुताँश्चैव योगिन्यो भक्षयन्ति तम् । अज्ञात्वा कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥४२॥
स भवेच्छिवहा सत्यं सर्वोपद्रवसङ्कुलः । धृत्वा यः कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥४३॥
स एव परमां सिद्धिं लभते नात्र संशयः । इतीदं कवचं देवि सारं सर्वस्वमुत्तमम् । रहस्यं शारिकारत्नं गोपनीयं स्वयोनिवत् ॥४४॥
इति श्रीरुद्रियामले तन्त्रे शारिकाकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP