संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । देव्य...

श्री इन्द्राक्षीकवचम् - ॐ श्रीगणेशाय नमः । देव्य...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । देव्युवाच - भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥१॥
श्रीभैरव उवाच इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् । जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥२॥
यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः । यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥३॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः । शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥४॥
दिगीश्वराश्च दिक्पाला यथावदनु भूतले । जगच्चिन्तामणिं वश्ये भोगमोक्षैकसाधनम् ॥५॥
सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् । जगच्चिन्तामणे देवि कवचस्यास्य कीर्तितः ॥६॥
देवीन्द्राक्षी परा प्रोक्ता ह्रीं बीजं शक्तिनी स्मृता । कीलकं प्रणवः प्रोक्तस्त्रिवर्गफलसाधने ॥७॥
अस्य श्री इन्द्राक्षीकवचस्य पुरन्दरऋषिः, बृहतीच्छन्दः, इन्द्राक्षी देवता । ह्रीं बीजं, श्रीं शक्तिः, प्रणवः कीलकम् । त्रिवर्गफलसाधने विनियोगः । ॐ ह्रीं श्रीं वज्रहस्ता मे शिरो रक्षतु सर्वदा । ऐं सौंः क्लीं पातु मे भालं वज्रिणी वज्रिसेविता ॥१॥
फट् स्वाहा वज्रहस्ता च पातु नेत्रे ममानिशम् । ॐ ह्रां कर्णौ सदा पातु ॐ श्रां गण्डौ सदावतु ॥२॥
ॐ ॐ मे नासिका पातु परमा परमेश्वरी । ॐ ऐं मुखं च मे पातु वीरधीरैकसुन्दरी ॥३॥
ॐ क्लीं जिह्वां सदा रक्षेद्देवता शशिसुन्दरी । ॐ क्लां कण्ठं ममाव्याद्वै देवता सूर्यसुन्दरी ॥४॥
ॐ सः स्कन्धौ सदा पातु देवी श्रीवह्निसुन्दरी । ॐ ऐं ह्रं मे उरः पातु देवता ऋक्षसुन्दरी ॥५॥
ॐ ऐं श्रीं मे स्तनौ पातु देवी कुलिशसुन्दरी । ॐ श्रीं ह्रीं मेऽवतात्पार्श्वे देवी श्रीतिथिसुन्दरी ॥६॥
ॐ ह्रां सौंः मेऽवतात्कुक्षिं देवी श्रीयोगसुन्दरी । ॐ श्रीं ह्रौं पातु मे नाभिं देवता पाशसुन्दरी ॥७॥
ॐ श्रीं मे पातु जठरं देवी कमलसुन्दरी । ॐ ह्रूं क्रीं पातु मे बाहू देवी खट्वाङ्गसुन्दरी ॥८॥
ॐ ह्रां श्रीं पातु मे हस्तौ देवी मार्गणसुन्दरी । ॐ क्रां ह्रां पातु मे ष्टष्ठं देवी भद्राङ्गसुन्दरी ॥९॥
ॐ ह्रीं सौंः पातु मे वस्तिं देवी पञ्चास्यसुन्दरी । ॐ श्रूं ह्रां क्रीं कटिं पातु देवता टङ्कसुन्दरी ॥१०॥
ॐ श्रीं स्रीं पातु मेशिश्नं देवी पीतनसुन्दरी । ॐ ह्रीं ह्रूं मेऽवताद्गुह्यं देवी पातालसुन्दरी ॥११॥
ॐ श्रीं क्लौं पातु मामूरू देवी ब्राह्मणसुन्दरी । ॐ ऐं स्तौंः मे रक्षेज्जानुनी देवी ब्रह्मसुन्दरी ॥१२॥
ॐ श्रींवै पातु मे जङ्घे देवता विष्णुसुन्दरी । ॐ स्रां ह्रां ऐं सदाऽव्यान्मे गुल्फौ गीर्वाणासुन्दरी ॥१३॥
ॐ ह्रीं श्रीं पातु मे पादौ देवता शिवसुन्दरी । ॐ स्रीं हूं पातु मे पूर्वे देवता यक्षसुन्दरी ॥१४॥
ॐ जुं सः पातु मे वह्रौ देवता दैत्यसुन्दरी । ॐ ऐं क्लीं पातु मे दक्षे देवता प्रेतसुन्दरी ॥१५॥
ॐ श्रां पातु मे नैरृत्यां देवी रक्षससुन्दरी । ॐ श्रीं मां पातु वारुण्यां देवी वरुणसुन्दरी ॥१६॥
ॐ क्रौं हूं पातु वायव्यं देवता वायुसुन्दरी । ॐ हूं पातु कौवीर्यां देवी पिशाचसुन्दरी ॥१७॥
ॐ ह्रीं श्रीं पातु मामीशे देवतेशानसुन्दरी । ॐ ऐं हुं पातु मामूर्ध्वे देवी गगनसुन्दरी ॥१८॥
ॐ ह्रीं अधस्तान्मे मायादेवी पन्नगसुन्दरी । ॐ ॐ ह्रीं मे प्रभतेऽव्याद्देवी ब्रह्माण्डसुन्दरी ॥१९॥
ॐ क्रौं क्लीं पातु मां रात्रौ देवी त्रैलोक्यसुन्दरी । ॐ क्लिं पातु निशीथे मां देवी श्रीकामसुन्दरी ॥२०॥
ॐ ह्रां क्रूं मां निशान्तेऽव्याद्देवता लोकसुन्दरी । सर्वत्र सर्वदा पातु देवी मां रूपसुन्दरी ॥२१॥
रणे राजकुले पूजे विवादे रिपुसग्रनि । दावाग्न्यरण्यभीतौ च पोताव्यौ जुररोगतः ॥२२॥
महाव्याधिषु मां पातु इन्द्राक्षी चेन्द्रसुन्दरी । ॐ ह्रीं श्रीं ऐं सौः क्लीं पायादिन्द्राक्षी मां भवाम्बुधेः ॥२३॥
शिरसः पादपर्यन्तं पादादिमस्तकान्तकम् । ॐ ह्रीं श्रीं सर्वभीतिभ्यः इन्द्राक्षी पातु मे वपुः ॥२४॥
फलश्रुतिः - इतीदं कवचं पुण्यं सर्वविद्यानिरूपणम् । जगच्चिन्तामणिं नाम त्रिषु लोकेशु दुर्लभम् ॥१॥
सर्वतत्त्वमयं दिव्यं सर्वतन्त्रैकरूपिणम् । सर्वागममयं तत्त्वं गोप्तव्यं पशुसङ्कटे ॥२॥
अर्धरात्रौ च मध्याह्ने रवौ कुङ्कुमकेन च । भूर्जत्वचि लिखेद्वर्म धारयेन्मूर्ध्नि वा भुजे ॥३॥
रणे सर्वान् रिपून् जित्वा कल्याणी गृहमाविशेत् । वन्ध्या वामभुजे धृत्वा ऋतुस्नात्वाह्नि पञ्चमे ॥४॥
धृत्वाऽचिरेण कालेन लभते तनयान् बहून् । ज्वरादयश्च ये रोगाः सत्रिपातादिकुष्ठकाः ॥५॥
विद्रवन्ति भयत्रस्ताः कवचस्यास्य धारणात् । सप्तजन्मार्जितं पापं दहत्पग्निरिवेन्धनम् ॥६॥
इन्द्रप्रभृतयो देवाः कामक्रोधादयोऽरयः । जीवादयश्च गुरवः शुक्राद्याः कवयस्तथा ॥७॥
भूपप्रभृतयो मर्त्या वश्यमेष्यन्ति वर्मणः । धारणात्पठनात्सत्यं सर्वविद्येश्वरो भवेत् ॥८॥
धनवान्पुत्रवान् श्रीमान्पठनात्साधको भवेत् । इतीदं कवचं गुह्यं गुह्याद्गुह्यतरं परम् ॥९॥
जगच्चिन्तामणिं नाम गोप्तव्यं च दुरात्मभ्यः । इन्द्राक्ष्याः सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् । अदातव्यमवक्तव्यमित्याज्ञापरमेश्चरि ॥१०॥
॥ इति श्रीरुद्रयामले तन्त्रे इन्द्राक्षीकवचं समाप्तम् ॥
॥ शुभमस्तु ॥

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP