संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीगणेशाय नमः ॥ ऋष...

दिव्यमङ्गलाख्यम् - ॥ श्रीगणेशाय नमः ॥ ऋष...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीगणेशाय नमः ॥
ऋषय ऊचुः -- भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रविशारद! । श्रीगङ्गायास्तु कवचं ब्रूहि नो वदतां वर! ॥१॥
गुप्तं सहस्रनामाख्यं स्तोत्रं परमपावनम् । इदानीं श्रोतुमिच्छामि गङ्गायाः कवचं शुभम् ॥२॥
यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति । पापानि च विलीयन्ते वर्धन्ते धनसम्पदः ॥३॥
सनत्कुमार उवाच -- श‍ृणुध्वं मुनयः सर्वे गुह्याद्गुह्यतरं परम् । जाह्नव्या दिव्यकवचं भुक्तिमुक्तिफलप्रदम् ॥४॥
ॐ अस्य श्रीगङ्गाकवचमन्त्रस्य श्रीसदाशिव ऋषिरनुष्टुप् छन्दः संसारतारिणी श्रीगङ्गा देवता श्री बीजं गं शक्तिः गामिति कीलकं मम सकलपापक्षयपूर्वकं मोक्षसाधने जपे विनयोगः ॥
अथ ध्यानं प्रवक्ष्यामि गङ्गायाः सुरदुर्लभम् । यत् कृत्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥६॥
नेत्रत्रयोद्भासितचारुदेहां श्वेताम्बरां चन्द्रकलात्मिकां च । माणिक्यमुक्ताफलभूषिताङ्गी श्वेतातपत्रां करुणारसार्द्राम् ॥७॥
सूर्येन्दुकोटिद्युतिमङ्गनाभिः सचामराभिः परिवीज्यमानाम् । चतुर्भुजां हस्तचतुष्टयेन वराभये पद्मयुगं दधानाम् ॥८॥
दिव्यानुलेपेन विभूषिताङ्गी दिव्यां दधानां स्रजमादिशक्तिम् । सुरैरनेकैरृषिभिश्च दिव्यैर्निषेव्यमानामुपचारयोगैः ॥९॥
नानाविधान्पातकिनः प्रपत्रान् सन्तारयन्ती करुणादृशार्द्राम् । ध्यायेदिमां पूर्णशशांङ्कशुभ्रां नदैर्नदीभिः परिसेव्यमानाम् ॥१०॥
एवं ध्यात्वा महादेवी गङ्गां त्रिभुवनेश्वरीम् । जपेन्मन्त्रं महादेव्यास्तस्योद्धारो निरूप्यते ॥११॥
प्रणवो वाग्भवं माया कामबीजं नमः पदम् । भगवत्यम्बिके अम्बालिके पदमथोद्धरेत् ॥१२॥
महामालिनि तस्यान्त एह्योहि पदमुद्धरेत् । अशेषतीर्थालवाले मायालक्ष्मीर्मनोभवः ॥१३॥
ततः शिवजटाजूटाधिरूढे पदमुद्धरेत् । गङ्गे गङ्गाम्बिके स्वाहा मनुर्द्विकरणाक्षरः ॥१४॥
सर्वसम्पत्प्रदः सर्वपातकौघविनाशनः । सर्वकल्याणनिलयो गङ्गासान्निध्यकारकः ॥१५॥
एतस्य मन्त्रराजस्य महादेव ऋषिः स्वयम् । विराट् छन्दः स्मृतं देवी जाह्नवी देवता स्वयम् ॥१६॥
तारो बीजं वाग्भवं च शक्तिर्माया च कीलकम् । तारकं कामबीजं च मुक्तौ च विनियोगकः ॥१७॥
कुर्यात् षडंङ्ग मन्त्रं स्वमायया प्रणवाद्यया । षड्दीर्घभिनयात्पश्चाज्जपेन्मन्न्त्रं शताष्टकम् ॥१८॥
ततस्तु कवचं देव्याः पठेत् सर्वार्थसिद्धये । तदहं संप्रवक्ष्यामि श‍ृणुध्वं मुनिपुङ्गवाः ॥१९॥
प्राच्यां श्रीजाह्नवी पातु याम्यां गङ्गा सदाऽवतु । भीष्मसूः पश्चिमायां मे उदीच्यां सुरनिम्नगा ॥२०॥
भागीरथ्यग्निकोणे मां त्रिस्रोताः पातु नैरृते । वायव्ये मां श्वेतवासा ईशाने त्रिपथस्थिता ॥२१॥
ब्रह्मगङ्गा चोर्ध्द्वदेशमधः पातालजाह्नवी । दिग्विदिक्प्रान्तराले मां गङ्गा स्वर्गगताऽवतु ॥२२॥
हृदस्ते पातु मे केशानभयं मे शिरोऽवतु । भालं मे कमलं पातु ध्रुवौ चन्द्रकलाऽवतु ॥
नेत्रे पातु जगद्धात्री ममोष्ठं विजयाऽवतु । विष्णुः पद्मधरं पातु श्रोत्रे पातु सुदर्शना ॥२३॥
मन्दाकिनी दन्तपङ्क्तिं स्वर्गगागण्डयुग्मकम् । सुधाजला पातु जिह्वां वाणी पातु मुखं मम ॥२४॥
तोतला तालुदेशं मे चिबुकं सर्वमङ्गला । मन्दाकिनी वक्त्रवृत्तं व्योम-गङ्गाजलं मम ॥२५॥
कृकोटिकां कल्मषघ्नी स्कन्धयोः सुरनिम्नगा । कौर्मी पातु भुजद्वन्द्वं पाण्योः फलकमीश्वरी ॥२६॥
कराङ्गुलीः पातु चान्द्री नखानाकाशचन्द्रिका । सूर्यमण्डलगा पातु कक्षां सागरतारिणी ॥२७॥
वक्षःस्थलं पातु नित्यं देवी मेऽलकनन्दिका । हृदयं पातु चक्षुमें सीता पातूदरं मम ॥२८॥
पार्श्वयोः पर्वतद्रावा स्तनौ सोमेश्वरी तथा । जगदुद्धारिणी नाभिं पृष्टं मकरवाहना ॥२९॥
विष्णुशक्तिः कटिं पातु स्फिचौ पातु दयाम्बुधिः । विष्णु पादाब्जसम्भूता गुह्यं मे परिरक्षतु ॥३०॥
कृपाकोमलगात्री सा मूलाधारं ममावतु । स्वाधिष्ठानं पातु नित्यं पापादथ दवानला ॥३१॥
पायान्मे मणिपूरं सा शान्तनोः सुखवर्धिनी । अनाहतं सदा पायाद् भगीरथनिषेविता ॥३२॥
विशुद्धचक्रं मे पातु वशिष्ठोपासिताम्बिका । आज्ञाचक्रं मम प्रीत्या विश्वामित्रार्चिताऽवतु ॥३३॥
ब्रह्मरन्ध्रं सदा पातु स्रवत्पीयूषमन्दिरम् । स्वयम्भूलिङ्गिनी लिङ्गं कुण्डली परदेवता ॥३४॥
पतितोद्धारिणी पातु जठरं शङ्करप्रिया । जटालङ्कारिणी शम्भोरुरूयुग्मं ममावतु ॥३५॥
जानू मृडानी मे पातु जङ्घे पातु जगत्प्रसूः । लावण्यशेवधिः पातु गुल्फो गगनमेखला ॥३६॥
मत्स्यकक्षपहंसालिराजिता पातु पादयोः । पादांङ्गुलीः पातु नित्यं निश्रेणी समनोहरे ॥३७॥
रसासृङ्मांसमेदांसि पातु मे भवतारिणी । मनोबुद्धिमहन्तां मे पातु नारायणी सदा ॥३८॥
आयुः कल्याणदा पातु वयो रक्षतु वैष्णवी । भार्यां वृद्धिकरी पातु पुत्रान् वंशकरी मम ॥३९॥
गृहं रक्षतु लक्ष्मी में पातु क्षेत्रं शिवप्रिया । धर्मकर्त्री यशः पातु धर्मं पातु मनःस्विनी ॥४०॥
कुलं कुलेशी मे पातु सद्गतिं पातु सद्गतिः । जले स्थलेऽनलेऽरण्ये पाताले रणसङ्कटे ॥४१॥
दुर्गे गृहे जगन्नाथा पातु सर्वनदीश्वरी । अग्रतः पातु गङ्गोर्ध्वं पातु गङ्गा च पार्श्वयोः ॥४२॥
गङ्गैव पृष्ठतः पातु तथाधः पातु मे वपुः । इतीदं कवचं दिव्यं गङ्गायाः परमाद्भुतम् ॥४३॥
ऋषयः कथितं साक्षान्महापातकनाशनम् । एककालं द्विकालं वा त्रिकालं यः सदा पठेत् ॥४४॥
गङ्गायाः श्रावयेद्वापि तस्य पापं प्रणश्यति । वर्धन्ते सम्पदः सर्वाः सम्पद्यन्ते मनोरथाः ॥४५॥
जायते सिद्धयोऽष्टौ च नश्यन्ति विपदः क्षणात् । कुष्ठात् प्रमुच्यते कुष्ठी व्याधिभ्यश्चापि मुच्यते ॥४६॥
निर्मलं स्यान्मनस्तस्य विशुद्धं स्फटिकोपमम् । यस्य यस्य च देवस्य क्रियते पूजनं जपः ॥४७॥
तस्य तस्य प्रसादं सा गङ्गादेवी प्रयच्छति । पातकानामनेकानां प्रायश्चित्तं चिकीर्षुणा ॥४८॥
पठनीयं तु गङ्गायाः कवचं पातकापहम् । गङ्गामाहात्म्यविण्मन्त्री गङ्गा-कवचमभ्यसेत् ॥४९॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वाणि तेन दानानि दत्तानि मुनिपुङ्गवाः ॥५०॥
श्रीविष्णुस्तोषितस्तेन तोषितस्तेन शङ्करः । अर्घ्यदानेन सन्तुष्टः कृतस्तेन दिवाकरः ॥५२॥
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः । नाभिमात्रे जले स्थित्वा यो गङ्गाकवचं पठेत् ॥५३॥
स स्वप्ने पश्यति क्षिप्रं जाह्नवी पुरतः स्थिताम् । इदं कवचमज्ञात्वा गङ्गामन्त्रं जपेन्नरः ॥५४॥
सर्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगंशिशुर्यथा । गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो हरिसायुज्यमाप्नुयात् ॥५५॥
इदं गङ्गाजले स्थित्वा कवचं यः सकृज्जपेत् । भूतप्रेतपिशाचादिबाधाभ्यो मुच्यते क्षणात् ॥५६॥
पितरस्तृप्तिमायान्ति कवचस्यास्य पाठतः । श्राद्धकाले पठेन्मर्त्यो नयेत्स्वर्गं पितामहान् ॥५७॥
भूर्जे लिखित्वा कवचं मस्तके धारयेद्यदि । यत्र तत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥५८॥
मुनिभिः कथितं देव्याः जाह्नव्याः कवचोत्तमम् । यूयं पठध्वं सततं सद्गतिं समवाप्स्यथ ॥५९॥
॥ इति श्रीब्रह्माण्डपुराणे ऋषिसनत्कुमारसंवादे गङ्गाया दिव्यमङ्गलं नाम कवचं सम्पूर्णम् ॥
शुभमस्तु ।
शुभमस्तु सर्वजगतः ।
॥ श्रीगङ्गायै नमः ॥

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP