संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - भगवन् दे...

मृत्युरक्षाकारकं कवचम् - श्रीदेव्युवाच - भगवन् दे...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - भगवन् देवदेवेश देवताभिः प्रपूजितः । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥१॥
मृत्युरक्षाकरं देव सर्वाशुभविनाशनम् । कथयस्वाद्य मे नाथ यदि स्नेहोऽस्ति मां प्रति ॥२॥
श्रीश्वर उवाच - अस्य मृत्युञ्जयमन्त्रस्य वामदेव ऋषिः, गायत्रीच्छन्दः, मृत्युञ्जयो देवता, साधकाभीष्टसिद्ध्यर्थे जपे विनियोगः शिरो मे सर्वदा पातु मृत्युञ्जयसदाशिवः । सत्र्यक्षरस्वरूपो मे वदनं च महेश्वरः ॥३॥
पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा ह्यायू रक्षतु मे सदा ॥४॥
बिल्ववृक्षसमासीनो दक्षिणामूर्तिरव्ययः । सदा मे सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥५॥
द्वाविंशत्यक्षरो रुद्रः कुक्षौ मे परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥६॥
चिन्तामणिर्बीजपूरे ह्यर्द्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥७॥
सत्र्यक्षरस्वरूपात्मा कूटरूपी महेश्वरः । मार्तण्ड भैरवो नित्यं पादौ मे परिरक्षतु ॥८॥
ॐ जूं सः महाबीजस्वरूपस्त्रिपुरान्तकः । ऊर्ध्वमूर्द्धनि चेशानो मम रक्षतु सर्वदा ॥९॥
दक्षिणस्यां महादेवो रक्षेन्मे गिरिनायकः । अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ॥१०॥
वामदेवः पश्चिमस्यां सदा मे परिरक्षतु । उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् ॥११॥
इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् । प्रातर्मध्याह्नकाले तु यः पठेच्छिवसन्निधौ ॥१२॥
सोऽभीष्टफलमाप्नोति कवचस्य प्रसादतः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥१३॥
सर्वसिद्धिकरं पुण्यं सर्वारिष्टविनाशनम् । योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः ॥१४॥
न तस्य हिंसां कुर्वन्ति पुत्रवत्या लयन्ति ते । पठित्वाऽभ्यर्चयेद्देवि यथाविधिपुरःसरम् ॥१५॥
लक्षञ्च मूलमन्त्रस्य पुरश्चरणमुच्यते । तद्धारणे महादेवि मृत्युरोगविनाशनम् ॥१६॥
एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् । इति ज्ञातं महादेवि तस्य वक्त्रे स्थितं सदा ॥१७॥
कवचस्य प्रसादेन मृत्युमुक्तो भवेन्नरः । अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ॥१८॥
तव स्नेहान्महादेवि कथितं कवचं शुभम् । न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥१९॥
इति श्रीकियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मृत्युरक्षाकारकं कवचं समाप्तम् । अथैओनविंशः पटलः

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP