संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । श्रीदत्...
श्रीदत्तगोरक्षनाथकवच - श्रीगणेशाय नमः । श्रीदत्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । श्रीदत्तात्रेयाय नमः । ॐ नमो दत्तगोरक्षनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । पूर्वायै इन्द्राय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । आग्नेय्यै अग्नेदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । दक्षिणायै यमाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । नैरृत्यै निरृतिनाथाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । पश्चिमे वरुणाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । वायव्यां वायवे नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । उत्तराशायां कुबेराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । ईशान्यां ईश्वराय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । ऊर्ध्वायां अर्थश्वेदपाय नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । अधो दिशि भूमिदेवतायै नमः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः । मध्ये प्रकाशा ज्योतिदेवतायै नमः ॥
पार्वत्युवाच - नमस्ते देवदेवेश विश्वव्यापिन्महेश्वर । श्रीदत्तगोरक्षकवचं स्तवराजं वद प्रभो ॥१॥
श्री ईश्वर उवाच - शृणु शैलसुते सत्यसिद्धमार्गमयोदितम् । ज्ञानविज्ञानमार्गेण जीवन्मुक्तो भवेन्नरः ॥२॥
सर्वज्ञत्वं कार्यसिद्धिं लभते वरमुत्तमम् । वाक्सिद्धिं योगसिद्धिं च लभते चिन्तितार्थकम् ॥३॥
न दुष्टेभ्यः प्रदातव्यं न दातव्यं कुलेश्वरि । निष्प्रपञ्चाय शिष्याय दद्यात्सविधिपूर्वकम् ॥४॥
रहस्यातिरहस्यं च मम वक्त्राद्विनिर्गतम् । एकान्ते निर्जले रम्ये सरित्सिन्धुतटे नगे ॥५॥
बिल्वस्थलालये जप्त्वा कुलमार्गे शुभस्थले । सर्वसिद्धेश्वरो साक्षात्प्राप्यते नात्र संशयः ॥६॥
पार्वत्युवाच - अल्पायासेन देवेश पठेन्नित्यं स लभ्यते । दत्तगोरक्षकवचं स्तवराजं मयोदितम् ॥७॥
न्यासं ध्यानं च संयुक्तो जपपूजा विशेषतः । सर्वसिद्धिप्रदो नित्यं मयानुग्रहकारकम् ॥८॥
श्री ईश्वर उवाच - तव भक्ताय शान्ताय पठनाच्चिन्तितं लभेत् । सुरासुरजनाग्रे च न मया कथितं प्रिये ॥९॥
ॐ अस्य श्रीदत्तगोरक्षकवचमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्रीदत्तात्रेयगोरक्षपरमात्मा देवता । ॐ बीजम् । अनुभव शक्तिः । श्रीदत्तगोरक्षप्रसादसिद्धर्थे जपे विनियोगः ॥१०॥
अथ करन्यासः । ॐ द्रां घ्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ तं रं तर्जनीभ्यां नमः ॥
ॐ त्रं क्षं मध्यमाभ्यां नमः ॥
ॐ अं नं अनामिकाभ्यां नमः ॥
ॐ बं थं कनिष्ठिकाभ्यां नमः ॥
ॐ द्रां ह्रीं करतलकरपृष्ठाभ्यां नमः ॥११॥
अथ हृदयादिन्यासः । ॐ द्रां घ्रां हृदयाय नमः । ॐ तं रं शिरसे स्वाहा । ॐ त्रं क्षं शिखायै वषट् । ॐ अं नं कवचाय हुम् । ॐ बं थं नेत्रत्रयाय वौषट् । ॐ द्रां ह्रीं अस्राय फट् ॥इति दिग्बन्धः ॥
सर्वरक्षणार्थे सर्वसिद्ध्यर्थे जपे विनियोगः ॥१२॥
॥ अथ गायत्री ॥
ॐ आदिरूपाय विद्महे ॐ अनादिरूपाय धीमहि । तन्नो दत्तगोरक्षप्रचोदयात् ॥१३॥
॥ अथ मन्त्रः ॥
ॐ ॐ दं वं तं ॐ ॐ ॐ दत्तगोरक्षसिद्धाय नमः ॥
इति जप्त्वा शतत्रयम् ॥१४॥
॥ अथ ध्यानम् ॥
दिगम्बरं त्रिगुणात्मकं नारायणं निरञ्जनं योगेश्वरम् ॥
ॐ अनादिनाथं सर्वव्यापियोगिं सकलेश्वरम् ॥
चिन्मयं ज्योतिरूपं निराधारं सोऽहं ब्रह्मसनातनम् ॥
घोररूपं महाघोरं अष्टाङ्गयोगसिद्धिसिद्धेश्वरम् ॥१५॥
ॐ नमो भगवते दत्तात्रेयाय विष्णवे । गुरुपरमात्मने वासुदेवाय नमोऽस्तुते । ॐ नमो गोरक्षनाथाय रुद्राय त्रैलोक्याधिपतये । जितेन्द्रियाय सनातनाय नमोऽस्तुते ॥१६॥
शिखायां पातु गोरक्षं ब्रह्मरन्ध्रेच दत्तकम् । भाले गोरक्षनाथश्च दत्तात्रेयो भुवस्थले ॥१७॥
चक्षुभ्यां घोरयोगीन्द्र गर्भयोगीन्द्र कर्णकौ । पाहि मां दत्तगोरक्ष वामदक्षिणनासिकाम् ॥१८॥
मुखे गोरक्षनाथं च दत्तं चैवाधरोष्ठके । जिह्वाया पातु गोरक्षं दन्तान्पातु चिबुत्रकम् ॥१९॥
अनसूयासुतं कण्ठे गोरक्षं कण्ठपृष्ठके । वामदक्षिणहस्तौ च दत्तगोरक्ष पाहि माम् ॥२०॥
सत्सेना हृदये पातु दत्तगोरक्षदैवतम् । कट्या नाभिं च मां पातु दत्तगोरक्ष योगिनाम् ॥२१॥
ऊरौ जङ्घादिलिङ्गातं पातु गोरक्षदत्तकम् । पादौ पादतलान्तं च दत्तगोरक्ष पाहिमाम् ॥२२॥
मस्तकापादपर्यन्तं आपादतलमस्तकम् । दत्तात्रेयं च गोरक्षं पातु मां सर्वतस्तनुः ॥२३॥
दिशाष्टौ च तथाऽऽकाशं पाताले विदिशाष्टके । दिवारात्रौ त्रिवेलायां दत्तगोरक्ष पाहि माम् ॥२४॥
जलाग्निघोरयुद्धे च शस्त्रघाते विषत्तके । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥२५॥
मन्त्रादि यन्त्रतन्त्राणां कल्पकोटिन्यकृत्तिमम् । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥२६॥
अग्निपार्थे चौरसर्पे व्याघ्रदुष्टभये वने । रक्ष रक्ष सदा देव दत्तगोरक्षदैवतम् ॥२७॥
भूतप्रेतपिशाचोग्रकूष्माण्डा भैरवादयः । डाकिनीशाकिनीकृत्या पादगोरक्षदत्तकम् ॥२८॥
स्वर्गपातालभूलोके यत्र यत्र भवेत्शिवम् । तत्र रक्षतु गोरक्षं दत्तात्रेयश्च पातु माम् ॥२९॥
ॐ नमो देवदेवेश नमो देवाधिनायक । नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥३०॥
नमो ऋग्वेदरूपाय नमो यजुस्वरूपिणे । नमो गोरक्षनाथाय दत्तात्रेय नमो नमः ॥३१॥
नमो सामस्वरूपाय नमोऽथर्वणरूपिणे । नमोऽस्तु नवनाथाय नमो षोडशसिद्धये ॥३२॥
नमो अनादिदेवाय नमो आदिस्वरूपिणे । नमो वेदस्वरूपाय नमो सिद्धान्तरूपिणे ॥३३॥
नमो निर्मलरूपाय नमो चिन्मयव्यापिने । नमो विद्युत्स्वरूपाय नमो ज्योतिस्वरूपिणे ॥३४॥
नमो अघोररूपाय नमो निष्कर्मरूपिणे । नमो विश्वस्वरूपाय नमो सर्वस्वरूपिणे ॥३५॥
नमो अनन्तरूपाय नमो बोधस्वरूपिणे । नमो सकलस्वरूपाय नमो वज्रस्वरूपिणे ॥३६॥
नमो कल्मषनाशाय नमो पापप्रणाशिने । नमो चारुस्वरूपाय नमो दिव्यस्वरूपिणे ॥३७॥
नमो दुष्टप्रणाशाय नमो दैत्यान्तकाय च । नमो अधर्मनाशाय नमो धर्मस्वरूपिणे ॥३८॥
नमो निष्कर्मरूपाय नमो कर्मान्तकाय च । नमो भस्माङ्गरागाय नमो दिगम्बराय च ॥३९॥
नमो सुस्मितवक्त्राय नमो सुस्मितलोचन । नमो द्वेषविनाशाय नमो क्रोधान्तकाय च ॥४०॥
नमो निःशङ्करूपाय नमो वैराग्यरूपिणे । नमो मङ्गलरूपाय नमो कल्याणरूपिणे ॥४१॥
ऋद्धिसिद्धिफलं दाता भुक्तिमुक्तिप्रदायकम् । नमोऽस्तु दत्तगोरक्षं संसारार्णवतारणम् ॥४२॥
इति दत्तस्तवं दिव्यं दत्तगोरक्षकं शुभम् । पठनाल्लभते शैवं वाक्सिद्धिर्देहसिद्धिदम् ॥४३॥
योगसिद्धिः सर्वसिद्धिः इष्टसिद्धिर्लभन्ति च । दुष्टदानवसंहर्ता निर्भयो जायते नरः ॥४४॥
न मृत्युर्न जरा रोगं निर्भयो जायते नरः । तत्रैव विजयो लाभो यत्र तिष्ठति साधकः ॥४५॥
स्वशक्तिसहितादेव नवनाथेषु बोधना । सगणशक्तिसहिता देव प्रसन्नसङ्क्रमात् ॥४६॥
ॐ नमो दत्तात्रेयाय नमो नमोऽस्तु ॐ विष्णुस्वरूपाय नमो नमोऽस्तु । ॐ नमो गोरक्षनाथाय नमो नमस्ते ॐ शिवस्वरूपाय नमो नमस्ते ॥४७॥
इति श्रीरुद्रयामले श्रीईश्वरपार्वतीसंवादे दत्तगोरक्षनाथकवचस्तवराजं सम्पूर्णम् ।
श्रीदत्तात्रेयार्पणमस्तु । शुभमस्तु । श्रीरस्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
N/A
References : N/A
Last Updated : November 25, 2025

TOP