संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । श्रीपीता...
श्रीबगलामुखीशत्रुविनाशककवचम् - श्रीगणेशाय नमः । श्रीपीता...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । श्रीपीताम्बरायै नमः ।
श्रीदेव्युवाच - नमस्ते शम्भवे तुभ्यं नमस्ते शशिशेखर । त्वत्प्रसादाच्छ्रुतं सर्वमधुना कवचं वद ॥१॥
श्रीशिव उवाच - शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण रिपोः स्तम्भो भवेत् क्षणात् ॥२॥
कवचस्य च देवेशि महामायाप्रभावतः । पङ्क्तिः छन्दः समुद्दिष्टं देवता बगलामुखी ॥३॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
ॐकारो मे शिरः पातु ह्रीङ्कारो वदनेऽवतु ॥४॥
बगलामुखी दोर्युग्मं कण्ठे सर्वदाऽवतु । दुष्टानां पातु हृदयं वाचं मुखं ततः पदम् ॥५॥
उदरे सर्वदा पातु स्तम्भयेति सदा मम । जिह्वां कीलय मे मातर्बगला सर्वसदाऽवतु ॥६॥
बुद्धिं विनाशय पादौ तु ह्लीं ॐ मे दिग्विदिक्षु च । स्वाहा मे सर्वदा पातु सर्वत्र सर्वसन्धिषु ॥७॥
इति ते कथितं देवि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण सर्वस्थम्भो भवेत् क्षणात् ॥८॥
यद् धृत्वा विविधा दैत्या वासवेन हताः पुरा । यस्य प्रसादात् सिद्धोऽहं हरिः सत्त्वगुणान्वितः ॥९॥
वेधा सृष्टिं वितनुते कामः सर्वजगज्जयी । लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिणे भुजे ॥१०॥
षट्कर्मसिद्धीस्तस्याशु मम तुल्यो भवेद्ध्रुवम् । अज्ञात्वा कवचं देवि तस्य मन्त्रो न सिध्यति ॥११॥
इति श्रीबगलामुखीशत्रुविनाशकं कवचं समाप्तम् ।
N/A
References : N/A
Last Updated : November 30, 2025

TOP