संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीदेव्युवाच- भगवन् देव...
श्रीमहाशास्त्रनुग्रहकवचम्स्तोत्रम् - श्रीदेव्युवाच- भगवन् देव...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीदेव्युवाच- भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥१ महाव्याधिमहाव्याळघोरराजैः समावृते दुःस्वर्प्नशोकसन्तापैः दुर्विनीतैः समावृते ॥२ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा तेषां सिद्धिञ्च मुक्तिञ्चत्वं मे ब्रूहिवृषद्वज ॥३ ईश्वर उवाच- शृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥४ अग्निस्तम्भ जलस्तंभ सेनास्तंभ विधायकम् । महाभूतप्रशमनं महाव्याधि निवारणम् ॥५ महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् । सर्वरक्षोत्तमं आयुरारोग्यवर्धनम् ॥६ किमतो बहुनोक्तेन यं यं कामयते द्विजः । तंतमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात् ॥७ कवचस्य ऋषिर्ब्रह्मा गायत्रीःछन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥८ षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥९ अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रां इत्यादि षडङ्गन्यासः ॥
ध्यानम् ॥
तेजोमण्डल मध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेषु कार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्य संमोहनम् ॥
लं इत्यादि पञ्चोपचार पूजा ॥
महाशास्ता शिरः पातु फालं हरिहरात्मजः । कामरूपी दृशं पातु सर्वज्ञो मे श्रुती सदा ॥१ घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥२ कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहु पातु विरूपाक्षः करौ तु कमलाप्रियः ॥३ भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात् कटीम् ॥४ सनीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा । ऊरु पातु गजारूढो वज्रधारी च जानुनी ॥५ जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥६ इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातक नाशनम् ॥७ ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥८ यं यं कामयते कामं तं तमाप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥
इति श्रीगुह्यरत्न चिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं समाप्तम् ॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP