संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । अस्य श्...

चन्द्रकवचम् - श्रीगणेशाय नमः । अस्य श्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥१॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥२॥
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः । प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥३॥
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा । करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥४॥
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः । मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥५॥
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा । अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥६॥
सर्वाण्यन्यानि चाङ्गानि पातु चन्दूऽखिलं वपुः । एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥
॥ इति श्रीचन्द्रकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP