संस्कृत सूची|
संस्कृत साहित्य|
कवच|
ऐश्वरं परमं तत्त्वमादिमध्...
श्रीशङ्करकवचम् - ऐश्वरं परमं तत्त्वमादिमध्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानामनाधारमविक्रियम् ॥१॥
अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥२॥
एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः । वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥३॥
ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि । तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥४॥
तैः पृष्टः कथयामास कुमारप्रभवं च यत् । चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥५॥
मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः । कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥६॥
सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् । शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥७॥
चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् । जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥८॥
जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः । अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥९॥
ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् । मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसम्मितम् ॥१०॥
मार्कण्डेयः - त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः । भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥११॥
श्रीकृष्ण उवाच - साधु साधु मुने पृष्टं हिताय सकलस्य च । अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥१२॥
दैवतं सर्वलोकानां सर्वकारणकारणम् । ज्योतिर्यत्परमानन्दं सावधानमतिः शृणु ॥१३॥
विश्वसाधनमीशानं गुणातीतमजं परम् । जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥१४॥
यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः । स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥१५॥
तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते । सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥१६॥
पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर । तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥१७॥
महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः । सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥१८॥
निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥१९॥
तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी । वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥२०॥
जनयामास धातारं दक्षिणाङ्गात् सदाशिवः । मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥२१॥
तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः । स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः । ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥२२॥
ब्रह्मविष्णुरुद्रा ऊचुः - तपः केन प्रकारेण कर्तव्यं परमेश्वर । ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥२३॥
महादेव उवाच - कायेन मनसा वाचा ध्यानपूजाजपादिभिः । कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥२४॥
देवा ऊचुः - त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः । सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥२५॥
शङ्कर उवाच - शृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् । सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥२६॥
यया संसारमग्नानां मुक्तिर्भवति शाश्वती । शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥२७॥
पठतां शृण्वतां सद्यो मुक्तिः स्यादनपायिनी । ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥२८॥
भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः । ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥२९॥
पार्वतीसहितं शम्भुं जटामकुटमण्डितम् । वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥३०॥
त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् । सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥३१॥
बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् । दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥३२॥
विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् । सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥३३॥
सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् । जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥३४॥
दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् । निशाकरकराकारं भेषजं भवरोगिणाम् ॥३५॥
पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥३६॥
ज्ञानवैराग्यसम्पन्नं नित्यानन्दमयं परम् । शाश्वतैश्वर्यसम्पूर्णं महायोगीश्वरेश्वरम् ॥३७॥
समस्तशक्तिसम्पन्नं पुण्यकायं दुरासदम् । तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥३८॥
यतीनां परमं ब्रह्म यतीनां तपसः फलम् । संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥३९॥
विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् । महादेवं महानन्दं देवानामपि दैवतम् ॥४०॥
शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् । शङ्करो मे शिरः पातु ललाटं भाललोचनः ॥४१॥
विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम । गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥४२॥
कपोलौ मे महादेवः पातु नासां सदाशिवः । मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥४३॥
दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः । रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥४४॥
चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः । कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥४५॥
स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः । उपबाहू महावीर्यः करौ विबुधसत्तमः ॥४६॥
अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् । हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥४५॥
उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः । कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥४८॥
प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः । सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥४९॥
जङ्घे पुररिपुः पातु चरणौ भवनाशनः । शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥५०॥
इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः । पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥५१॥
वारुण्यां सलिलाधीश उदीच्यां मे महीधरः । ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥५२॥
नैरृत्यां भूतभृत् पातु वायव्यां बलवर्धनः । ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥५३॥
सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः । एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥५४॥
नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् । सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥५५॥
॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP