संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । ॐ गङ्...

श्रीगङ्गाकवचम् - ॐ श्रीगणेशाय नमः । ॐ गङ्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । ॐ गङ्गायै नमः । विनियोगः - गङ्गाकवचस्य विष्णुरृषिविराट्छन्दः चतुर्दश पुरुष उद्धारण अर्थे पाठे विनियोगः ।
ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च । अभिषेके पूजने च पातु मां शुक्लरुपिणी ॥१॥
विष्णुपादप्रसूतासि वैष्णवी नामधारिणी । पाहि मां सर्वतो रक्षेद्गङ्गा त्रिपथगामिनी ॥२॥
मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा । अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति ॥३॥
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा । पञ्चाक्षरमिमं मन्त्रं यः पठेच्छृणुयादपि ॥४॥
रोगी रोगात्प्रमुच्येत्बद्धो मुच्येत बन्धनात् । गुर्विणी जनयेत् पुत्रं वन्ध्या पुत्रवती भवेत् ॥५॥
गङ्गास्मरणमात्रेण निष्पापो जायते नरः । यः पठेद्गृहमध्ये तु गङ्गास्नानफलं लभेत् ॥६॥
स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् । यः पठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह ॥७॥
॥ इति श्रीविष्णुयामले शिवपार्वतीसंवादे गङ्गाकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP