संस्कृत सूची|
संस्कृत साहित्य|
कवच|
ॐ महाशाबरी शक्ति परमात्मन...
शाबरीकवचम् - ॐ महाशाबरी शक्ति परमात्मन...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ महाशाबरी शक्ति परमात्मने नमः । ॐ श्रीगुरु परमात्मने नमः । ॐ श्रीनवनाथ परमात्मने नमः । ॐ शाबरी पञ्चदशी यन्त्र परमात्मने नमः । अथ ध्यानम् । ॐ नमो भगवते श्रीवीरभद्राय । विरूपाक्षी लं निकुम्भिनी षोडशी अपचारिणी । वरूथिनी मांसचर्विणी । चें चें चें चामलवरायै । धनं धनं कम्प कम्प आवेशय । त्रिलोकवर्ति लोकदायै । सहस्रकोटिदेवान् आकर्षय आकर्षय । नवकोटिगन्धर्वान् आकर्षय आकर्षय । हंसः हंसः सोऽहं सोऽहं सर्वं रक्ष मां रक्ष भूतेभ्यो रक्ष । ग्रहेभ्यो रक्ष । पिशाचेभ्यो रक्ष । शाकिनीतो रक्ष । डाकिनीतो रक्ष । अप्रत्यक्षप्रत्यक्षारिष्टेभ्यो रक्ष रक्ष । महाशक्तिं रक्ष । कवचशक्तिं रक्ष । रक्ष ओजवाल । गुरुवाल । ॐ प्रसह हनूमन्त रक्ष । श्रीमन्नाथगुरुत्रयं गणपतिं पीठत्रयं भैरवम् ॥
सिद्धाढ्यं बटुकत्रयं पदयुगं द्युतिक्रमं मण्डलम् ॥
वैराटाष्टचतुष्टयं च नवकं वैरावली पञ्चकम् । श्रीमन्मालिनीमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् । इति ध्यानम् ॥
अथ प्रार्थना । ॐ ह्रां ह्रीं ह्रृं क्षां क्षीं क्षुं । कृष्णक्षेत्रपालाय नमः आगच्छ आगच्छ । बली सर्वग्रहशमनं मम कार्यं कुरु कुरु स्वाहा । ॐ नमो ॐ ह्रीं श्रीं क्लीं ऐं चक्रेश्वरी । शङ्खचक्रगदापद्मधारिणी । मम वाञ्छित सिद्धिं कुरु कुरु स्वाहा । ॐ नमो कमलवदनमोहिनी सर्वजनवशकारिणी साक्षात् सूक्ष्मस्वरूपिणी यन्मम वशगा ॐ सुरासुरा भवेयुः स्वाहा । गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
अरुणकिरण जालै रञ्जिता शावकाशा विधृतजपमाला वीटिका पुस्तहस्ता । इतरकरवराढ्या फुल्लकल्हार हस्ता निवसतु हृदि बाला नित्यकल्याणशीला ॥
अथ शाबरीकवचजपे विनियोगः ॥
॥ श्री ॥
॥ अथ शाबरीकवचपाठप्रारम्भः ॥
ॐ सर्वविघ्ननाशाय । सर्वारिष्टनिवारणाय । सर्वसौख्यप्रदाय । बालानां बुद्धिप्रदाय । नानाप्रकारकधनवाहनभूमिप्रदाय । मनोवाञ्छितफलप्रदाय । रक्षां कुरु कुरु स्वाहा । ॐ गुरवे नमः । ॐ श्रीकृष्णाय नमः । ॐ बलभद्राय नमः । ॐ श्रीरामाय नमः । ॐ हनुमते नमः । ॐ शिवाय नमः । ॐ जगन्नाथाय नमः । ॐ बद्रीनारायणाय नमः । ॐ दुर्गादेव्यै नमः । ॐ सूर्याय नमः । ॐ चन्द्राय नमः । ॐ भौमाय नमः । ॐ बुधाय नमः । ॐ गुरवे नमः । ॐ भृगवे नमः । ॐ शनैश्चराय नमः । ॐ राहवे नमः । ॐ पुच्छनायकाय नमः । ॐ नवग्रह रक्षां कुरु कुरु नमः । ॐ मन्ये वरं हरिहरादय एवं दृष्ट्वा दृष्टेषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चित् मनो हरति नाथ भवानत एहि । ॐ नमः श्रीमन्बलभद्रजयविजय अपराजित भद्रं भद्रं कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
सर्वविघ्नशान्तिं कुरु कुरु स्वाहा । ॐ ऐं ह्रीं क्लीं श्रीं बटुकभैरवाय । आपदुद्धरणाय । महानमस्याय स्वरूपाय । दीर्घारिष्टं विनाशय विनाशय । नानाप्रकारभोगप्रदाय । मम (अथवा ... यजमानस्य) सर्वारिष्टं हन हन । पच पच हर हर कच कच राजद्वारे जयं कुरु कुरु । व्यवहारे लाभं वर्धय वर्धय । रणे शत्रुं विनाशय विनाशय । अनापत्त्ययोगं निवारय निवारय । सन्तत्युत्पत्तिं कुरु कुरु । पूर्णं आयुः कुरु कुरु । स्त्रीप्राप्तिं कुरु कुरु । हुं फट् स्वाहा ॥
ॐ नमो भगवते वासुदेवाय नमः । ॐ नमो भगवते विश्वमूर्तये नारायणाय । श्रीपुरुषोत्तमाय रक्ष रक्ष । युष्मदधीनं प्रत्यक्षं परोक्षं वा । अजीर्णं पच पच । विश्वमूर्ते अरीन् हन हन । एकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय । चतुरधिकान्वातान् अष्टादशक्षयरोगान् अष्टादशकुष्ठान् हन हन । सर्वदोषान् भञ्जय भञ्जय । तत्सर्वं नाशय नाशय । शोषय शोषय आकर्षय आकर्षय । मम शत्रुं मारय मारय । उच्चाटय उच्चाटय विद्वेषय विद्वेषय । स्तम्भय स्तम्भय निवारय निवारय । विघ्नान् हन हन । दह दह पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन । परविद्यां छेदय छेदय । चतुरशीतिचेटकान् विस्फोटय नाशय नाशय । वातशूलाभिहत दृष्टीन् । सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पदान । अपरे बाह्यान्तरादि भुव्यन्तरिक्षगान् । अन्यानपि कश्चित् देशकालस्थान् सर्वान् हन हन । विषममेघनदीपर्वतादीन् । अष्टव्याधीन् सर्वस्थानानि रात्रिदिनपथग चोरान् वशमानय वशमानय । सर्वोपद्रवान् नाशय नाशय । परसैन्यं विदारय विदारय । परचक्रं निवारय निवारय । दह दह रक्षां कुरु कुरु । ॐ नमो भगवते ॐ नमो नारायण हुं फट् स्वाहा । ठः ठः ॐ ह्रां ह्रीं हृदये स्वदेवता ॥
एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः । असुरान् हन्तु हत्वा तान् सर्वांश्च बलिदानवान् । यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान् । तस्य सर्वान् हिंसती यस्या दृष्टिगतं विषम् ॥
अन्यादृष्टिविषं चैव न देयं सङ्क्रमे ध्रुवम् । सङ्ग्रामे धारयत्यङ्गे उत्पातशमनी स्वयम् ॥
सौभाग्यं जायते तस्य परमं नात्र संशयः । हुते सद्यो जयस्तस्य विघ्नं तस्य न जायते ॥
किमत्र बहुनोक्तेन सर्वसौभाग्यसम्पदः । लभते नात्र सन्देहो नान्यथा नदिते भवेत् ॥
गृहीतो यदि वा यत्नं बालानां विविधेरपि । शीतं चोष्णतां याति उष्णः शीतमयो भवेत् ॥
नान्यथा श्रूयते विद्यां यः पठेत् कथितां मया । भूर्जपत्रे लिखेद्यन्त्रं गोरोचनमयेन च ॥
इमां विद्यां शिरोबन्धात्सर्वरक्षां करोतु मे । पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षणः ॥
विद्रवन्ति प्रणश्यन्ति धर्मस्तिष्ठति नित्यशः । सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः ॥
ॐ ऐं ह्रीं क्लीं श्रीं भुवनेश्वर्यै । श्रीं ॐ भैरवाय नमो नमः ।
अथ श्रीमातङ्गीभेदा, द्वाविंशाक्षरो मन्त्रः । समुख्यायां स्वाहातो वा ॥
हरिः ॐ उच्चिष्टदेव्यै नमः । डाकिनी सुमुखिदेव्यै महापिशाचिनी । ॐ ऐं ह्रीं ठाः ठः द्वाविंशत् ॐ चक्रीधरायाः । अहन् रक्षां कुरु कुरु । सर्वबाधाहरिणी देव्यै नमो नमः । सर्वप्रकार बाधाशमनं अरिष्टनिवारणं कुरु कुरु । फट् । श्री ॐ कुब्जिकादेव्यै ह्रीं ठः स्वः । शीघ्रं अरिष्टनिवारणं कुरु कुरु । देवी शाबरी क्रीं ठः स्वः । शारीरिकं भेदाहं मायां भेदय पूर्णं आयुः कुरु । हेमवती मूलरक्षां कुरु । चामुण्डायै देव्यै नमः । शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु । भूतप्रेतपिशाचान् घातय । जादूटोणाशमनं कुरु । सती सरस्वत्यै चण्डिकादेव्यै गलं विस्फोटकान् वीक्षित्य शमनं कुरु । महाज्वरक्षयं कुरु स्वाहा । सर्वसामग्रीं भोग सत्यं दिवसे दिवसे देहि देहि रक्षां कुरु कुरु । क्षणे क्षणे अरिष्टं निवारय । दिवसे दिवसे दुःखहरणं मङ्गलकरणं कार्यासिद्धिं कुरु कुरु । हरिः ॐ श्रीरामचन्द्राय नमः । हरिः ॐ भूर्भुवः स्वः । चन्द्र तारा नवग्रह शेषनाग-पृथ्वीदेव्यै आकाशनिवासिनी सर्वारिष्टशमनं कुरु स्वाहा ॥
आयुरारोग्यमैश्वर्यं वित्तं ज्ञानं यशोबलम् ॥
नाभिमात्रजले स्थित्वा सहस्रपरिसङ्ख्यया ॥
जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवेत्ततः ॥
अनेन विधिना भक्त्या कवचसिद्धिश्च जायते ॥
शतमावर्तयेद्यस्तु मुच्यते नात्र संशयः ॥
सर्वव्याधिभयस्थाने मनसाऽस्य तु चिन्तनम् ॥
राजानो वश्यतां यान्ति सर्वकामार्थसिद्धये ॥
अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां न मम ॥
शुभं भवतु ॥इति शाबरीकवचम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP