संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीगणेशाय नमः ॥ श्...

गङ्गासाम्राज्यकवचम् - ॥ श्रीगणेशाय नमः ॥ श्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीगणेशाय नमः ॥
श्रीदेव्युवाच -- देवेश! परमेशान ! भक्तानुग्रहकारक ! । गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥१॥
श्रीशिव उवाच -- श‍ृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् । यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥२॥
पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् । मोक्षप्रदं मुमुक्षूणां श‍ृणु चैकमना प्रिये ! ॥३॥
ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी । तारिणी सर्वलोकानां दायिनी सर्वसम्पदाम् ॥४॥
सर्वसौख्यकरी सत्यं कवचं तद्वदामि ते ।
ॐ अस्य श्रीगङ्गासाम्राज्यकवचमन्त्रस्य श्रीभगवान् महादेव ऋषिरनुष्टुप्छन्दः, श्रीगङ्गापरमेश्वरी देवता, ॐ ऐं बीजं हिलि हिलि मिलि मिलि शक्तिः, गङ्गे मां पावय पावय स्वाहा इति कीलकम्, धर्मार्थकाममोक्षार्थे जपे विनयोगः ।
ॐ शिरो मे प्रणवः पातु सर्वसिद्धिकरीश्वरी ॥५॥
ऐँ बीजं में शिखां पातु गङ्गा त्रैलोक्यसुन्दरी । ह्रिङ्कारी मस्तके मेऽव्याल्लिकारं मे ललाटके ॥६॥
पुनः पातु महामाया हिकारी परदेवता ॥७॥
मिकारी मुखमध्ये तु लिकारी श्रोत्रयोर्मम । कण्ठमध्ये सदा पातु मिकारी वाग्विलासिनी ॥८॥
लिकारी हृदयं रक्षेद्गङ्गे पापापहारिणी ॥
स्तनद्वन्द्वे सदा मेऽव्यान्माङ्कारी परमेश्वरी ॥९॥
पाकारी पार्श्वयोः पातु वकारं नाभिदेशके । यकारं मे कटिं पातु पाकारी लिङ्गदेशके ॥१०॥
पुनः पाकारं मे पातु गुह्यदेशे निरन्तरम् । वकारं जङ्घयोः पातु पकारं मम जानुनी ॥११॥
स्वाकारं गुल्फयोः पातु हाकारं पादयोः सदा । सर्वाङ्गं मे सदा पातु गङ्गा सवार्थसिद्धिदा ॥१२॥
इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । पठनाद्ब्रह्मसायुज्यं प्राप्नुयान्नात्र संशयः ॥१३॥
सप्तम्यां वा चतुर्दश्यां सङ्क्रान्तौ ग्रहणे तथा । यः पठेन्नित्यकृद् भक्त्या सर्वसिद्धीश्वरो भवेत् ॥१४॥
इदं कवचमज्ञात्वा गङ्गां यो भजतेऽधमः । जन्मजन्म भवेन्मूर्खो दरिद्रो व्याधिसंयुतः ॥१५॥
तस्मादवश्यमेतत्तु यः पठेन्नित्यमेव हि । सर्वसम्पद्युतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥१६॥
इति श्रीशिवशिवानन्दनाथविरचितं श्रीगङ्गासाम्राज्यकवचम् ।

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP