संस्कृत सूची|संस्कृत साहित्य|कवच| श्री गणेशाय नमः । नमस... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... त्रैलोक्यमोहनकवचम् - श्री गणेशाय नमः । नमस... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम् Translation - भाषांतर श्री गणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥१॥ श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः । गणपतिर्देवता च गायत्री छन्दः एव च । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । शक्तिः स्वाहा ग्लौँ बीजं विनियोगस्य कीर्तितः ॥ अथ न्यासः । ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः । वरवरद मध्यमाभ्यां नमः । सर्वजनं मे अनामिकाभ्यां नमः । वशमानय कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ॥ ध्यानं - हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् । बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे । अथ कवचम् । ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् । श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥१॥ हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी । कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥२॥ ग्लौँ गँ च गणपतये वाचं पातु विनायकः । वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥३॥ सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः । वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥४॥ नाभिमानय मे पातु सर्वसिद्धिविनायकः । जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥५॥ गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा । दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥६॥ दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा । दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥७॥ प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः । कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥८॥ अधो गणपतिः पातु ऊर्धं पातु विनायकः । एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥९॥ इदं कवचमाहाम्यं न देयं यस्यकस्यचित् । यस्य स्मरणमात्रेण मृत्योर्मृत्युभवेत्स्वयम् ॥१०॥ इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥११॥ सप्तकोटिमहामन्त्रास्तत्रादौ कथिताः प्रिये । महागणपतेर्यद्दिव्यं कवचं मन्मुखोदितम् ॥१२॥ गुरुमभ्यर्च्य विधिवत्कवचं यः पठेद्यतः । त्रिः सकृद्वा यथान्यासं सोऽपि पुण्ययुतो नरः ॥१३॥ देशिकः सर्वमन्त्रेषु ह्याधिकारी जपादिषु । देवमभ्यर्च्य विधिवत्पुरश्चर्यां समाचरेत ॥१४॥ अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम । ततस्तु सिद्धकवचः पूर्णतामदनोपमः ॥१५॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रजापते ॥१६॥ वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे । पुष्पाञ्जल्यष्टकं दत्वा मूले नैव पठेत्सकृत् ॥१७॥ अपि वर्षसहस्रायाः पूजायाः फलमाप्नुयात् । विलिख्य भूर्जपत्रे तु स्वर्णस्थ धारयेद्यदि ॥१८॥ कण्ठे वा दक्षिणे बाहौ सकुर्याद्दासवत् जगत् । त्रैलोक्यं क्षोभवत्येव त्रैलोक्यविजयी भवेत् ॥१९॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि याति च । मान्यानि कुसुमानीव सुखदानि भवन्ति हि ॥२०॥ स्पर्धान्निर्धूय भवने लक्ष्मीर्वाणी मुखे वसेत् ॥२१॥ इदं कवचमज्ञात्वा यो जपेद्गणनायकम् । न स सिद्धिमवाप्नोति मूढो वर्षशतैरपि ॥२२॥ सर्वशत्रुक्षयकरं सर्वविघ्ननिवारणम् । सर्वापत्त्येकशमनं सर्वमोक्षस्य हेतुकम् ॥२३॥ इति श्रीरुद्रयामले गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् । N/A References : N/A Last Updated : November 24, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP