श्रीकार्तवीर्यार्जुनकवच - ॥ श्रीगणेशाय नमः ॥ उड...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
॥ श्रीगणेशाय नमः ॥
उड्डामिरेश्वरतन्त्रोक्तम् । अस्य श्री कार्तवीर्यार्जुनकवचस्तोत्रमहामन्त्रस्य दत्तात्रेयो भगवान्नृषिः ॥
अनुष्टुप् छन्दः ॥
श्री कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती देवता ॥
कृतवीर्यो बीजम् । सहस्रबाहुश्शक्तिः । अव्याहृतः कीलकम् । कार्तवीर्यार्जुनप्रसादसिद्धये जपेविनियोगः ॥
ॐ राजन्यचक्रवर्तिने अङ्गुष्टाभ्यां नमः । वीराय चक्रवर्तिने तर्जनीभ्यां नमः । शूराय चक्रवर्तिने मध्यमाभ्यां नमः । माहिष्मतीपतये चक्रवर्तिने अनामिकाभ्यां नमः । रेवाम्बुलीलासन्तृप्त -परितृप्त -दशास्य - चक्रवर्तिने कनिष्टिकाभ्यां नमः । कारागृहप्रतिबन्धितदशाश्य चक्रवर्तिने करतलकरपृष्टाभ्यां नमः । राजन्यचक्रवर्तिने हृदयाय नमः । वीराय चक्रवर्तिने शिरसे स्वाहा । शूराय चक्रवर्तिने शिखायै वषट् । माहिष्मतीपतये चक्रवर्तिने कवचाय हुम् । रेवाबुलीलासन्तृप्तपरितृप्तदशास्यचक्रवर्तिने नेत्रत्रयाय वौषट् । कारागृहप्रतिबन्धितदशास्यचक्रवर्तिने अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानं सहस्रबाहुं सशरं सचापं रक्ताम्बरं रत्नकिरीटकुण्डलम् । चोरारिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥१॥
अव्यात्सर्वभयात्प्रभाकरनिभः प्रद्योतनो नूतनः स्वर्णस्रक् परिवीतकन्धरधरो रक्तांशुकोष्णीषवान् । नानाकल्पविभूषणः करसहस्रार्धात्तबाणासनो बाणर्धात्तसहस्रबाहुरनिशं भूवल्लभो नः प्रभुः ॥२॥
श्रीदेव्युवाच । देवादिदेव सर्वज्ञ सर्वभूतहिते रत । केन रक्षा भवेन्नॄणां भीतानां विविधापदि ॥
राजचोरादि पीडासु शस्त्राग्निविषपातने । मारिदुस्स्वप्नपीडासु ग्रहरोगभयेषु च ॥
ज्वरापस्मारपीडासु सिंहव्याघ्रनिपातने । राक्षस - असुरवेतालपिशाचप्रेत-पातने ॥३॥
महाभये महानाशे महानावगतेऽर्णवे । महामृत्युभये घोरे महाकलहसम्भवे ॥४॥
केनोपायेन शान्तिः स्यात् साधकानां महेश्वर । अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥५॥
सर्वाकर्षणसङ्क्षोभसर्वसंहननं तथा । भवत्यभीष्टदं नृणां केन तद्वद मे शिव ॥६॥
ईश्वर उवाच । शृणु गुह्यतमं देवि गोपनीयं प्रयत्नतः । अवाच्यमपि वक्ष्यामि तव लोकहिताय वै ॥७॥
कवचं कार्तवीर्यस्य साङ्गावरणकं क्रमात् । स्वमूर्तिशक्तिमन्त्रौघसहितं ध्यानपूर्वकम् ॥८॥
सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले । भास्वद्ध्वजपताकाढ्ये तुरङ्गायुतशोभिते ॥९॥
महासंवर्तक्रान्तेमहाराजविराजिते । समुद्धृतमहाच्छत्रवितानितवियत्पथे ॥१०॥
निक्वणत्किङ्किणीजाले चलच्चामरमण्डिते । महारथ्यावलयिते सर्वालङ्कारशोभिते ॥११॥
महावररथे दीप्ते नानाशस्त्रविराजिते । सुस्थितं विपुलोदारसहस्रभुजमण्डलम् ॥१२॥
वामैरुदारैः कोदण्डान् दधानमपरैश्शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥१३॥
मुद्रिकोदरबन्धाद्यैः काञ्चीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैस्सुविराजितम् ॥१४॥
आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् । धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् ॥१५॥
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥१६॥
सर्वसौभाग्यदं भद्रं भक्तानां भयनाशनम् । दिव्यमाल्यानुलेपाङ्गं सर्वलक्षणसंयुतम् ॥१७॥
रथनागाश्वपादातिवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनां आद्यं लोकैकपालकम् ॥१८॥
सभानोदितसाहस्र-सूर्येन्दुज्वलनप्रभम् । उदितादित्यसङ्काशं कुण्डलद्वयशोभितम् ॥१९॥
महायोगबलैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् । श्रीमच्चक्रं हरेरंशादवतीर्णं महाबलम् ॥२०॥
सम्यगात्माविभेदेन ध्यात्वा रक्षामुदीरयेत् । दत्तात्रेय ऋर्षिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥२१॥
कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती च देवता । विनियोगश्च रक्षायै सर्वत्र परिकीर्तितः ॥२२॥
सर्वशत्रुविनाशाय सर्वार्थस्य च सिद्धये । तस्यैव मूर्तयः पञ्च भानुमत्किरणोज्ज्वलाः ॥२३॥
अग्नीशासुरवायव्यकोणेषु हृदयन्तिकाः । सर्वतस्तु ज्वलद्रूपा वरचर्मासिपाणयः ॥२४॥
अव्याहतबलैश्वर्यशक्तिसामार्थ्यविग्रहाः । क्षेमङ्करीं शक्तियुक्तःचोराणां च विभञ्जनः ॥२५॥
प्राचीं दिशं रक्षतु मे बाणबाणासनैर्युतः । श्रीकरीशक्तिसहितो मारीमदविभञ्जनः ॥२६॥
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् । महावश्यकरी युक्तो शत्रूणां मदभञ्जनः ॥२७॥
महेषुचापधृक् पातु मम प्राचेतसीं दिशम् । यशः करी यशस्करो दैत्यानां मदभञ्जनः ॥२८॥
कोदण्डेषुधरस्सौम्यां दिशं मे परिरक्षतु । प्रज्ञाकरीयुतश्चापःबाणधृक् दुष्टशासनः ॥२९॥
परिरक्षतु मां सम्यक् सम्यक् विदिशं चाग्निदेवताम् । विद्याकरी समायुक्तः सुमहान् दुष्टशासनः ॥३०॥
पातु मे नैरृतीं चापबाणो विदिशमीश्वरः । धनाकर्षणसमायुक्तो महादुरितनाशनः ॥३१॥
इष्वासनेषु दृक् पातु विदिशो मम वायवीम् । आयुष्कार्यायुतःश्रीमान् महाभयविनाशनः ॥३२॥
चापेषुधारीरौवीं मे विदिशं परिरक्षतु । विजयश्रीयुतस्साक्षात्साहस्त्रारधरो विभुः ॥३३॥
दिशमूर्ध्वामवतु मे महाभयविभञ्जनः । शङ्खभृत्सुमहाशक्तिस्सम्भूतो मे धरां दिशम् ॥३४॥
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः । महाशोभाश्रयायुक्तः सर्वदिक्चक्रमण्डलः ॥३५॥
महायोगीश्वरः पातु सर्वतो मम पद्मधृक् । एतश्च कार्तवीर्यस्य शुक्लमाल्यांशुकावृताः ॥३६॥
प्रधानदेवतारूपाः पृथग्वररथस्थिताः । शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्निभाः ॥३७॥
शुक्लमाल्यसुवसना ललितास्तिलकोज्वलाः । तत्पार्श्वदेवताः स्वस्ववाहनायुधभूषणाः ॥३८॥
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः । एतास्तस्य समाख्याताः सर्वावरणदेवताः ॥३९॥
सर्वतो मां सदा पातु सर्वशक्तिसमन्विताः । हृदये चोदरे नाभौ जठरे गुह्यमण्डले ॥४०॥
ऊरुयुग्जानुपादेषु मूर्ध्नि भ्रूयुगलेऽपि च । कर्णाक्षिनासिकाजिह्वाकण्ठबाहुयुगेषु च ॥४१॥
दशबीजात्मिकामन्त्राः यस्य संवृद्दिदायकाः । तेजोरूपधराः पान्तु वाञ्चापूरसुरद्रुमाः ॥४२॥
दश चान्ये महावर्णाः मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥४३॥
कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥४४॥
सुकुमारो हनूं पातु तालौ भ्रुयुगलेपि च । नयने पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥४५॥
दन्तोष्टौ तु सदा पातु ब्रह्मगेयः सनातनः । सर्वशास्त्रकलाधारो जिह्वां चुबुकमव्ययः ॥४६॥
दत्तात्रेयप्रियः कर्णौ स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥४७॥
कुक्षौ रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातु काराग्रे त्रिजगत्पतिः ॥४८॥
रेवाम्बुलीलासन्तृप्तो ज्वरं मेऽभिरक्षतु । महावीरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥४९॥
सहस्रभुजधृक् पृष्टं सप्तद्वीपाधिपः कटिम् । गुह्यं जितेन्द्रियः पातु सन्धिं नो योगवल्लभः ॥५०॥
ऊरू माहिष्मतीनाथ जानुनी वल्लभो भुवः । जङ्घे वीराधिपः पातु पादौ पातु मनोजवः ॥५१॥
पातु सर्वायुधधरः सर्वाङ्गं सर्वसन्धिषु । सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ॥५२॥
प्रणादि दशजीवेशान् सर्वशिष्ठेष्टदोऽवतु । वशीकृतेन्द्रियग्रामो पातु सर्वेन्द्रियाणि मे ॥५३॥
रोमकूर्चानि राजेन्द्रस्त्वचं मेऽसाध्यविग्रहः । अस्थिमांसादिकं पातु सर्वक्षुद्रनिवारकः ॥५४॥
अनुक्तमपि च यत्स्थानं शरीरान्तर्बहिश्च यत् । तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ॥५५॥
वज्रासारतरं चेदं शरीरं कवचावृतम् । बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ॥५६॥
यद्विदं कवचं दिव्यमभेद्यं हैहयेशितुः । विचरामि दिवारात्रौ निर्भयेनान्तरात्मना ॥५७॥
राजमार्गे भये दुर्गे मार्गे चोरादिसङ्कुले । विषमे विपिने घोरे दावाग्नौ गिरिकन्धरे ॥५८॥
सङ्ग्रामे शत्रुसम्बाधे सिंहव्याघ्रनिपातने । गह्वरे सर्पसङ्कीर्णे देशे चोरगणावृते ॥५९॥
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे । नाना रोगज्वरावेशे पिशाचप्रेतपातने ॥६०॥
मारीदुःस्वप्नपीडासु क्लिष्टविश्वासघातके । शरीरे च महादुःखे मानसे च महाज्वरे ॥६१॥
आधिव्याधिभये विघ्ने मान्त्रोपद्रवकेऽपि च । न भवेत्तु भयं किञ्चित्कवचेनावृतस्य मे ॥६२॥
आगन्तुकामानखिलानस्मद्वस्तु विलुम्पकान् । निवारयतु दोर्दण्डसहस्रेण महारथः ॥६३॥
स्वकरोददृतसाहस्रपाशबन्धान् सुदुर्जयान् । संरुद्धगतिसामर्थ्यान् करोतु कृतवीर्यजः ॥६४॥
सृणीसहस्रनिर्भिन्नान्सहस्रशरखण्डितान् । राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ॥६५॥
खड्गसाहस्रदलितान् सहस्रमुसलार्दितान् । चोरादिदुष्टसर्वौघान् करोतु कमलेक्षणः ॥६६॥
स्वशङ्खनादसन्त्रस्तान् सहस्रारविदारितान् । करोतु दुष्टसत्वौघान् साहस्रारस्सहस्रधृक् ॥६७॥
कृतवीर्य सुतो राजा सहस्रभुजमण्डलः । अवतारो हरेस्साक्षात्पालयेत्सकलं मम ॥६८॥
कार्तवीर्यार्जुनो नाम राजाबाहुसहस्रवन् । तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥६९॥
धनुः पञ्चशतं वामे दाक्षिणे तावतः शरान् । बिभ्राणः कार्तवीर्योऽसौ पालयेत्सकलं मम ॥७०॥
यद् भवेल्लोकरक्षार्थं अंशाच्चक्रं हरेर्विभोः । तन्नमामि महावीर्यमर्जुनं कृतवीर्यजम् ॥७१॥
कार्तवीर्य महावीर्य सर्वशत्रुविनाशन । सर्वत्र सर्वदा तिष्ठन् चोरान्नाशय पाहिमाम् ॥७२॥
उत्तिष्ट दुष्टदमन सप्तद्वीपैकपालक । त्वामेव शरणं प्राप्तं सर्वार्ताद्रक्ष पाहिमाम् ॥७३॥
दुष्टघ्न किं त्वं स्वपिषि किं तिष्टसि चिरापदि । पाहि नः सर्वदा सर्वं भयेभ्यः स्वसुतानि च ॥७४॥
ये चोरा वसुहर्तारो दुष्टा ये च हिंस्रकाः । अन्तरायकरा दुष्टाः छद्मकाः ये दुरात्मकाः ॥७५॥
दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च घातकाः । ये च कार्यविलुप्तारो ये खलाः परिपन्थिनः ॥७६॥
सर्वस्वहरणा ये च महामायाविनोऽपि ये । महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ॥७७॥
ये महागरदातरो वञ्चकाः शश्त्रपाणयः । ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ॥७८॥
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः । छिद्रान्वेषकरा नित्यं येऽस्मान्बाधितुमुद्यताः ॥७९॥
ते सवै कार्तवीर्यस्य महाशङ्खरवाद्धताः । सहसा विलयं यन्तु दूरादेव विमोहिताः ॥८०॥
ये दानवा महादैत्या ये यक्षा ये च राक्षसाः । पिशाचा ये महासत्वा ये भूता ब्रह्मराक्षसाः ॥८१॥
अपस्मारग्रहा ये च ये ग्रहा पिशिताशिनः । महालोहितभोक्तारो वेताला ये च गुह्यकाः ॥८२॥
गन्धर्वाप्सरसस्सिद्धाः ये च देवादियोनयः । डाकिन्यो धोणसाः प्रेता क्षेत्रपाला विनायकाः ॥८३॥
महाव्याघ्रमुखाः क्रूराः महातुरगमूर्तयः । महाव्यघ्रा महामेषाः महामहिषसन्निभाः ॥८४॥
महाराजो महासिंहः महाभल्लूकसन्निभाः । ऋक्षवाराहशुनकवानरालूकमूर्तयः ॥८५॥
महोष्ट्रखरमार्जारसर्पगो विषपुच्छकाः । नानारूपमहासत्वाः नानाक्लेशसहस्रधाः ॥८६॥
नानारोगकराः क्षुद्रा नानावीर्याः महाबलाः । वातका पैत्तिका घोराश्श्लेष्मिकास्साक्षिपातिकाः ॥८७॥
माहेश्वरा वैष्णवाश्च वैरिञ्चश्च महाज्वराः । स्कान्दा वैनायकाः क्रूराः ये च मन्मथसंज्ञिकाः ॥८८॥
महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः । एकाह्निका द्व्याह्निकाश्च त्र्याह्निकाश्च महाज्वराः ॥८९॥
साप्ताहिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये । संवत्सरा दुर्निवार्याः ज्वराः परमदारुणाः ॥९०॥
स्वाप्निकाश्च महोत्पाताः ये च दुःस्वप्नजा ग्रहाः । कूष्माण्डा भैरवा भीमाः धोणसा निधिवञ्चकाः ॥९१॥
भ्रामकाः प्राणहन्तारो ये च बालग्रहादयः । मनोबुद्धीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥९२॥
महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचराः ये च सन्ध्यासु दारुणाः ॥९३॥
प्रमत्तमप्रमत्तं च ये मां बाधितुमुद्याताः । ते सर्वे हैहयेन्द्रस्य धनुर्मुक्तश्शरार्दिताः ॥९४॥
सहस्रधा प्रणश्यन्तु भग्नसत्वबलोद्यमाः । ये सर्पा ये महानागाः महागिरिविलेशयाः ॥९५॥
कालाव्याला महादंष्ट्रा महाजगरसंज्ञिकाः । अनन्तगुलिकाद्याश्च दृग्विषाश्व महाभयाः ॥९६॥
अनेकशतवर्षाश्च खड्गपुच्छाश्च दारुणाः । महाविषजलूकाश्च वृश्चिका रक्तपुच्छकाः ॥९७॥
आशीविषाः कालकूटाः महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥९८॥
मत्स्यका विषपुच्छा ये चान्ये जलनिवासिनः । जलजा स्थलजाश्चैव नानाभेदकुलोद्भवाः ॥९९॥
ये च षड्बिन्दवो लूताः भ्रमराः शूलपुच्छकाः । स्थावरा जङ्गमाश्चैव कृत्रिमाश्च महाविषाः ॥१००॥
गुप्ता विगुप्तारूपाश्च भूषिकाः गृहगोधिकाः । कृकलासा कुलीराश्च ये चान्ये यादसां गणाः ॥१०१॥
स्मरणा विषमा घोरा महोग्रविषसंज्ञिकाः । येऽस्मान्बाधितुमिच्छति शरीरप्राणनाशकाः ॥१०२॥
ते सर्वे कार्तवीर्यस्य खड्ग-साहस्रसादिताः । दूरादेव विनश्यन्तु प्रणष्टेन्द्रियमानसाः ॥१०३॥
मनुष्याः पशवो ऋक्षाः वानराः वनगोचराः । सिंहव्याघ्रवराहाश्च माहिषा ये महामृगाः ॥१०४॥
गजास्तुरङ्गाटव्या रासभाश्शरभा बृकाः । शुनका विपिनः शुम्भमार्जाराः विषलोमशाः ॥१०५॥
शृगालाः शशकाः श्येनाः गरुत्मन्तो विहङ्गमाः । भेरुण्डा वायसाः गृध्रा हंसाद्याः पक्षिजातयः ॥१०६॥
उद्भिजाश्वाडजाश्वैव स्वेदजाश्च जरायुजाः । नानाभेदकुले जाताः नानाभूताः पृथग्विधाः ॥१०७॥
येऽस्मान्बाधितुमुद्यन्ति सन्ध्यासु च दिवानिशि । ते क्षिप्रं कार्तवीर्यस्य चक्रसाहस्रखण्डिताः ॥१०८॥
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः । ये चाक्षेपप्रदातारो द्वेष्टारो ये विदूषकाः ॥१०९॥
कृत्यं यत्र प्रदातारः कूटमायाविनश्च ये । मारणोच्चाटनोच्चाटुद्वेषमोहनकारकाः ॥११०॥
विश्वस्तघातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गुप्तहारिणः ॥१११॥
दाहोपघातगरलशस्त्रपातनदुःखदाः । क्षेत्रवित्तापहरणाः बन्धनादि बहुप्रदाः ॥११२॥
ईतयो विविधाकारा ये चान्ये दुष्टजातयः । पीडाकरा ये सततं क्षुद्रका घ्नन्ति सन्ततम् ॥११३॥
ते सर्वे कार्तवीर्यस्य गदासाहस्रचूर्णिताः । दूरादेव विनश्यन्तु लयं यान्तु सहस्रधा ॥११४॥
ये मेधा ये महावर्षाः ये वाता याश्च विद्युतः । ये महाशनो ये दीप्ताः यो निर्घाताः सुदारुणाः ॥११५॥
उल्कापाताश्च ये घोराः ये महोन्द्रायुधादयः । अर्केन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥११६॥
राहुश्च केतवो घोरा नक्षत्रराशयस्तथा । तिथयस्सङ्क्रमा मासत्वययनायुगनायकाः ॥११७॥
मन्वन्तरस्सिद्धर्षयो योगसिद्धाः सदोज्वलाः । विधयो ऋग्यजुःसामात्यथर्वाद्याश्च वह्नयः ॥११८॥
ऋतवो लोकपालाश्च पितरो देवसन्ततिः । विद्याश्चैव चतुःषष्टिभेदोक्ता भुवनत्रये ॥११९॥
सेवन्ते कीर्तितास्सर्वे ये चान्येनानुकीर्तिताः । ते सन्तु नः सदा सौम्याः सर्वलोकसुखावहाः ॥१२०॥
अज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी योगीन्द्रो हेहयेश्वरः ॥१२१॥
दत्तात्रेयप्रियतमः सहस्रभुजमन्डलः । चापी खड्गी रथी बाणी चर्मवर्मी महाबलः ॥११२॥
सुभगः सुमुखः शान्तः चक्रवर्ती गुणाकरः । दशास्यदर्पहा रेवालीलातृप्तः सुदुर्जयः ॥१२३॥
दुःखहा चोरदमनो राजराजेश्वरः प्रभुः । सर्वज्ञः सर्वगः श्रीमान् सर्वशिष्टप्रदः कृती ॥१२४॥
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः । विजयी विश्रुतो वाग्मी महागतिरलोलुपः ॥२५॥
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञो यस्सनातनः । माहिष्मतीपतिर्योद्धा महाकीर्तिर्महाभुजः ॥१२६॥
सुकुमारो महावीरो मारिघ्नो मदिरेक्षणः । शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगवल्लभः ॥१२७॥
महाभागवतो धीमान् महाभयविनाशनः । असाध्यविग्रहो दिव्यो भयव्याप्तजगत्त्रयः ॥१२८॥
सर्वशास्त्रकलाधारो विरजो लोकवन्दितः । वीरो मलिनचित्ताढ्यो महाबलपराक्रमः ॥१२९॥
विजयश्रीमयो मान्यो जितारिर्मन्त्रनायकः । खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ॥१३०॥
भद्रवादाप्रियो वैद्यो वरदो विबुधो वशी । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविग्रहः ॥१३१॥
चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः । महाधनो निधिपतिर्महायोगी गुरुप्रियः ॥१३२॥
योधाद्यो सर्वरोगघ्नो राजिताखिलभूषणः । दिव्यास्त्रविदमेयात्मा सर्वगोप्ता महोज्वलः ॥१३३॥
सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः । योगसिद्धो महाकायो महाबृन्दशताधिपः ॥१३४॥
सर्वज्ञाननिधिस्सर्वभोगदानकृतोद्यमः । इत्यष्टशतनामोक्ता मूर्तयो दशदिक्पतेः ॥१३५॥
सम्यक्दशदिशो व्याप्य पालयन्तु च मां सदा । सर्वेन्द्रियाणि सुस्थानि सुशान्तिश्च सदास्तु मे ॥१३६॥
शिष्ठायामूर्तयोष्टौ च विक्रमेणैव भास्वराः । अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा ॥१३७॥
मनस्सौख्यमसम्बाधामरोगमपराजितम् । दुःखहा निरविघ्नश्च प्रजावृद्विस्सुखोदयः ॥१३८॥
वाञ्छावाप्तिश्च कल्याणं अवैषम्यमनामयम् । अनष्टद्रव्यरक्षा च नष्टस्य पुनरागमः ॥१३९॥
धर्मायुष्यं यशोलाभस्सौकुमार्यमभीप्सितम् । अनालस्यमभीष्टं च मृत्युहानिर्बलोन्नतिः ॥१४०॥
भयहानिः यशः कान्तिर्विद्यावृद्धिर्महाश्रयः । अप्रधृष्यं महत्वं च महासामर्थ्यकोविदः ॥१४१॥
सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् । य इदं कार्तवीर्यस्य कवचं पुण्यवर्धनम् ॥१४२॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् । सर्वसम्पत्करं गुह्यं समस्तभयनाशनम् ॥१४३॥
विजयार्थप्रदं नृणां सर्वसम्पत्करं शुभम् । श्रुणुयाद्वा पठेद्वाऽपि सर्वान्कामानमाप्नुयात् ॥१४४॥
आयुरारोग्यमैश्वर्यपुत्रपौत्रादिसम्पदः । भवन्ति सर्वदाऽभीष्टाः पुस्तकस्यापि पूजनात् ॥१४५॥
मुच्यते सर्वदुःखैस्तु सर्वत्र विजयी भवेत् । मारीचोरादिपीडाद्यैर्न कदाचित्प्रबाध्यते ॥१४६॥
पठतः प्रातरुत्थाय दुःस्वप्नादि विनश्यति । लभते वाञ्चितानर्थान् पूज्यते त्रिदशैरपि ॥१४७॥
शय्यातलगतो रात्रौ च इदं कवचं पठेत् । न तस्य तस्करारातिः दुःस्वप्नादिभवं भयम् ॥१४८॥
चोरैर्यदाहृतं पश्येत्पश्वादि धनमात्मनः । एकवारं जपेद्यस्तु सर्वाभीष्टफलप्रदम् ॥१४९॥
सप्तवारं तथा जप्त्वा निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥१५०॥
सप्तविंशति वारं तु प्राचीदिग्वदनो यदि । तदा देवासुरयुतं परचक्रं निवारयेत् ॥१५१॥
विवादे विपुले घोरे पञ्चवारं पठेदिम् । विजयो जायते तस्य न कदाचित्पराजयः ॥१५२॥
सम्यक् द्वादशधा रात्रौ प्रजपेद्बाधमुक्तये । त्रिदिनान्निगलग्रस्तो मुच्यते न विचारणा ॥१५३॥
अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥१५४॥
यात्राकाले पठित्वेदं मार्गं गच्छति यः पुमान् । न दुष्टचोरव्याघ्ग्रद्यैः भयं स्यात्परिपन्थिनः ॥१५५॥
नित्यं ग्रहगतो जित्वा कल्याणैः परिपूर्यते । न भयं जायते तस्य दुष्टसत्वादिभिः क्वचित् ॥१५६॥
सर्वरोगप्रपीडासु त्रिधा वा पञ्चधा पठेत् । सरोगमृत्युवेतालभूतप्रेतैः प्रमुच्यते ॥१५७॥
पठनात्स्मरणात्कुर्याज्जलेनाञ्जलिना रवौ । स चाग्निविषकृत्यासु रोगस्फोटैर्न बाध्यते ॥१५८॥
त्रिसन्ध्यासु पठेदेतत् षण्मासं विजितेन्द्रियः । कालमृत्युमपि प्राप्तं जयत्यत्र न संशयः ॥१५९॥
पठतः कवचं चेदं विषं नाक्रमते तनौ । जडान्धत्वं च मूकत्वं नोपसर्गभयं क्वचित् ॥१६०॥
विंशद्वर्णोक्तविधिना धार्येदेवं तदात्मकम् । मन्त्री गुरुप्रसादात्तं मन्त्रराजं जपेत्पुनः ॥१६१॥
कवचेनावृतो भूयो मन्त्रध्यानं समाचरेत् । यथोक्तं लभते सद्यः फलं वज्रतनुर्भवेत् ॥१६२॥
यथा तथेदं कवचं न कस्यापि प्रकाशयेत् । आदौ संशोधनं कृत्वा तन्नाम ध्यानपूर्वकम् ॥१६३॥
सिद्धयै तच्चक्रमन्त्राणां उच्चरेत् द्विजपूर्वकम् । गोपनीयं प्रयत्नेन शिवस्य वचनं तथा ॥१६४॥
सुभक्ताय सुशिष्याय दद्यात्सर्वस्वदायिने । साधकानां हितार्थाय यदुक्तं चन्द्रमौलिना ॥१६५॥
कार्तवीर्यस्य कवचं यदुक्तं वै मया तव । येनैदं रक्षतो देहः कालेनापि न जीर्यति ॥१६६॥
तस्मात्सर्वप्रयत्नेन कवचं धारयेत्सुधीः ।
N/A
References : N/A
Last Updated : November 18, 2025

TOP