संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच- भगवन्देवद...

श्रीसदाशिवकवच - श्रीदेव्युवाच- भगवन्देवद...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच- भगवन्देवदेवेश सर्वाम्नाय प्रपूजित । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥१॥
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सर्वरक्षाकरं देव यदि स्नेहोऽस्ति मां प्रति ॥२॥
श्रीभगवानुवाच- प्रासादमन्त्रकवचस्य वामदेवऋषिः । पन्क्तिश्छन्दः । सदाशिवो देवता । सकलाभीष्टसिद्धये जपे विनियोगः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः । षडक्षरस्वरूपो मे वदनं तु महेश्वरः ॥३॥
पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आस्यं रक्षतु मे सदा ॥४॥
वटमूलं समासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वदः पातु षट्त्रिंशार्णस्वरूपधृक् ॥५॥
द्वाविंशार्णात्मको रुद्रो दक्षिणः परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥६॥
चिन्तामणिर्बीजरूपो ह्यर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥७॥
एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः । मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥८॥
तुम्बुराख्यो महाबीजस्वरूपः त्रिपुरान्तकः । सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः ॥९॥
ऊर्ध्वमूर्द्धानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषः पायान्मे गिरिनायकः ॥१०॥
अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु । वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥११॥
उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् । इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ॥१२॥
प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् । पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥१३॥
कीर्तिश्रीकान्तिमेधायुः सहितो भवति ध्रुवम् । कण्ठे यो धारयेदेतत्कवचं मत्स्वरूपकम् ॥१४॥
युद्धे च जयमाप्नोति द्यूते वादे स साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥१५॥
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः । कवचं शिरसा यस्तु धारयेद्यतमानसः ॥१६॥
करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपक्षेण वेष्टिताम् ॥१७॥
रजतोदरसंविष्टां कृत्वा वा धारयेत्सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते मद्देहरूपभाक् ॥१८॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥१९॥
अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे । तव स्नेहान्महादेवि कथितं कवचं शुभम् ॥२०॥
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् । यो अर्चयेद्गन्धपुष्पाद्यैः कवचं मन्मुखोदितं तेनार्चिता महादेवि सर्वे देवा न संशयः ॥२१॥
इति श्रीभैरवतन्त्रे श्रीसदाशिवकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP