संस्कृत सूची|संस्कृत साहित्य|कवच|
श्री गणेशाय नमः । श्रीमद...

नरसिंहकवचम् - श्री गणेशाय नमः । श्रीमद...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्री गणेशाय नमः । श्रीमद्दिव्यलक्ष्मीनृसिंहाय नमः । अथ श्रीलक्ष्मीनृसिंहकवचप्रारम्भः । ॐ अस्य श्रीलक्ष्मीनृसिंहकवचमालामन्त्रस्य व्यासप्रह्लाद ऋषिः शिरसि । सर्वव्यापी स्तम्भवासो बीजं नाभौ । श्रीः शक्तिः पादयोः । गुह्यरूपधृक् कीलकं सर्वाङ्गे । श्रीलक्ष्मीनृसिंहप्रसादसिध्यर्थे श्रीलक्ष्मीनृसिंहकवचस्तोत्रमन्त्रराजजपे विनियोगः । अथ करन्यासः । ॐ योगिहृत्पद्मवासाय अङ्गुष्ठाभ्यां नमः । ॐ लक्ष्मीनृसिंहाय तर्जनीभ्यां नमः । ॐ स्वप्रकाशाय मध्यमाभ्यां नमः । ॐ सहस्रशीर्षाय अनामिकाभ्यां नमः । ॐ सोमसूर्याग्निलोचनाय कनिष्ठिकाभ्यां नमः । ॐ दिव्यास्त्रशोभितभुजाय करतलकरपृष्ठाभ्यां नमः । अथ हृदयादिन्यासः । ॐ योगिहृत्पद्मवासाय हृदयाय नमः । ॐ लक्ष्मीनृसिंहाय शिरसे स्वाहा । ॐ स्वप्रकाशाय शिखायै वषट् । ॐ सहस्रशीर्षाय कवचाय हुम् । ॐ सोमसूर्याग्निलोचनाय नेत्रत्रयाय वौषट् । ॐ दिव्यास्त्रशोभितभुजाय अस्त्राय फट् । ॐ भूर्भुवस्वरोम् । इति दिग्बन्धः । अथ ध्यानम् । कर्पूरधामबलं कटकाङ्गदादि-छत्रं त्रिनेत्रशशिशेखरमण्डितास्यम् । वामाङ्कसंस्थितरमानयनाभिरामं चक्राब्जशङ्खसगदं नृहरि नमामि ॥। नमस्कृत्य गणाधीशं सर्वविघ्ननिवारणम् ।
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥१॥
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥२॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् । लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥३॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् । सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥४॥ (रत्नकेयूरशोभितम्)
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् । इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥५॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः । गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥६॥ (सविनयं)
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् । नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥७॥ (आत्मसम्भवः)
सर्वगोऽपि स्तम्भवासः भालं मे रक्षतु ध्वनिम् । नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥८॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः । नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम । वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥१०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् । दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः । हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥१२॥ (हृददं)
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः । नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥१३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् । गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥१४॥
ऊरु मनोभवः पातु जानुनी नररूपधृक् । जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥१५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः । सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥१६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः । महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥१७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः । नृसिंहः पातु वायव्यां सौम्यां भीषणविग्रहः ॥१८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः । (अधश्चोर्ध्वं तथा मध्ये पातु मां भक्तवत्सलः ।) संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥१९॥
(जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥)
(फलश्रुतिः) इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् । भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥२०॥ (सर्वपापात्)
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते । यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥२१॥ (कामान्)
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् । भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥२२॥
वृश्चिकोरगसम्भूत विषापहरणं परम् । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥२३॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् । करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥२४॥ (तस्य कार्याणि)
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् । एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥२५॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति । द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥२६॥ (यः पठेत् शुद्धमानसः)
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते । अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥२७॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् । त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥२८॥ (वारिभ्य मन्त्र्य च)
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् । तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥२९॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् । मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥३०॥
(नृसिंहकोश २ - इति परमरहस्यसारमेतत्कवचवरं पठतीह यस्तु भक्त्या । स भवति धनधान्यपुत्र भोगी तनुविगमे समुपैति नारसिंहम् ॥३१॥
तप्तहाटककेशान्तज्वलत्पावकलोचन । वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥३२॥
श्रीनृसिंहो दिव्यसिंहः सर्वाभीष्टप्रदायकः । एकवीरोऽद्भुतबलो मन्त्रयन्त्रकभञ्जनः ॥३३॥
भयं नास्ति भयं नास्ति नृसिंहपदसेवानात्। सत्यं सत्यं वचो वच्मि शङ्करोऽहं त्रिलोचनः ॥३४॥
कुतो भीतिः कुतो मृत्युः कुतस्तस्य दरिद्रता । मृत्योर्मृत्युः रमानाथो यस्य नाथो नृकेसरी ॥३५॥
भर्जनं भवबीजानां वर्धनं सुखसम्पदाम् । तर्जनं यमदूतानां नृहरेर्नामगर्जनम् ॥३६॥
माता नृसिंहश्च पिता नृसिंहो भ्राता नृसिंहश्च सखा नृसिंहः विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ॥३७॥
यतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः । नृसिंहदेवादपरं न किञ्चित् । तस्मान्नृसिंहं शरणं प्रपद्ये ॥३८॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् । (क्षोभयन्तं क्षिपन्तम् ।) क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं  var  भ्रमन्तं वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥३९॥ (करनिकर)
॥ इति श्रीब्रह्माण्डपुराणे नारदागस्तिसंवादे प्रह्लादप्रोक्तं श्रीनृसिंहकवचं अथवा श्रीलक्ष्मीनृसिंहकवचं सम्पूर्णमस्तु ॥

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP