संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीहयग्रीवकवचमहामन्...

श्रीहयग्रीवकवचम् - अस्य श्रीहयग्रीवकवचमहामन्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीहयग्रीवकवचमहामन्त्रस्य हयग्रीव ऋषिः, अनुष्टुप् छन्दः, श्रीहयग्रीवः परमात्मा देवता, ॐ श्रीं वागीश्वराय नम इति बीजं, ॐ क्लीं विद्याधराय नम इति शक्तिः, ॐ सौं वेदनिधये नमो नम इति कीलकम्, ॐ नमो हयग्रीवाय शुक्लवर्णाय विद्यामूर्तये, ओङ्कारायाच्युताय ब्रह्मविद्याप्रदाय स्वाहा । मम श्रीहयग्रीवप्रसाद सिध्यर्थे जपे विनियोगः ॥
ध्यानम् - कलशाम्बुधिसङ्काशं कमलायतलोचनम् । कलानिधिकृतावासं कर्णिकान्तरवासिनम् ॥१॥
ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् । भूषाकिरणसन्दोहविराजितदिगन्तरम् ॥२॥
वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् । देवतासार्वभौमं तं ध्याये दिष्टार्थसिद्धये ॥३॥
ॐ हयग्रीवश्शिरः पातु ललाटं चन्द्रमध्यगः । शास्त्रदृष्टिर्दृशौ पातु शब्दब्रह्मात्मकश्श्रुती ॥१॥
घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः । जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतीः ॥२॥
ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् । शिवात्मा चिबुकं पातु कपोलौ कमला प्रभुः ॥३॥
विद्यात्मा पीठकं पातु कण्ठं नादात्मको मम । भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥४॥
ज्ञानात्मा हृदयं पातु विश्वात्मा तु कुचद्वयम् । मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥५॥
कुक्षिं कुक्षिस्थविश्वो मे बलिभङ्गो वलित्रयम् । नाभिं मे पद्मनाभोऽव्याद्गुह्यं  गुह्यार्थबोधकृत् ॥६॥
ऊरू दामोदरः पातु जानुनी मधुसूदनः । पातु जङ्घे महाविष्णुर्गुल्भौ पातु जनार्दनः ॥७॥
पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः । सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः ॥८॥
धातुन्नाडीगतः पातु भार्यां लक्ष्मीपतिर्मम । पुत्रान्विश्वकुटुम्बी मे पातु बन्धून्सुरेश्वरः ॥९॥
मित्रं मित्रात्मकः पातु वह्न्यात्मा शत्रुसंहतीः । प्राणान्वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः ॥१०॥
वरुणात्मा रसान्पातु व्योमात्मा हृद्गुहान्तरम् । दिवारात्रं हृषीकेशः पातु सर्वं जगद्गुरुः ॥११॥
विषमे सङ्कटे चैव पातु क्षेमङ्करो मम । सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा ॥१२॥
प्राच्यां रक्षतु सर्वात्मा आग्नेय्यां ज्ञानदीपकः । याम्यां बोधप्रदः पातु नैरृत्यां चिद्धनप्रभः ॥१३॥
विद्यानिधिस्तु वारुण्यां वायव्यां चिन्मयोऽवतु । कौबेर्यां वित्तदः पातु ऐशान्यां च जगद्गुरुः ॥१४॥
ऊर्ध्वं पातु जगत्स्वामी पात्वधस्तात्परात्परः । रक्षाहीनन्तु यत्स्थानं रक्षत्वखिलनायकः ॥१४॥
एवं न्यस्तशरीरोऽसौ साक्षाद्वागीश्वरो भवेत् । आयुरारोग्यमैश्वर्यं सर्वशास्त्रप्रवक्तृताम् ॥१६॥
लभते नात्र सन्देहो हयग्रीवप्रसादतः । इतीदं कीर्तितं दिव्यं कवचं देवपूजितम् ॥१७॥
इति हयग्रीवतन्त्रे अथर्वणवेदे मन्त्रखण्डे पूर्वसंहितायां श्रीहयग्रीवकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP