संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीपञ्चमुखिवीरहनूमत...

श्रीपञ्चमुखिवीरहनूमत्कवचम् - अस्य श्रीपञ्चमुखिवीरहनूमत...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीपञ्चमुखिवीरहनूमत्कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । पञ्चमुख्यन्तर्गतः श्रीरामरूपी परमात्मा देवता । रां बीजम् । मं शक्तिः । चन्द्र इति कीलकम् । पञ्चमुख्यन्तर्गत श्रीरामरूपिपरमात्मप्रसादसिद्ध्यर्थे मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
रां अङ्गुष्ठाभ्यां नमः । रीं तर्जनीभ्यां नमः । रूं मध्यमाभ्यां नमः । रैं अनामिकाभ्यां नमः । रौं कनिष्ठिकाभ्यां नमः । रः करतलकरपृष्ठाभ्यां नमः ।
रां हृदयाय नमः । रीं शिरसे स्वाहा । रूं शिखायै वषट् । रैं कवचाय हुम् । रौं नेत्राभ्यां वौषट् । रः अस्त्राय फट् । भूर्भुवस्सुवरोम् ॥
(इति दिग्बन्धः)
अथ ध्यानम् वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशादीन् हलान् खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिदर्पापहम् ॥
ईश्वर उवाच अथ ध्यानं प्रवक्ष्यामि श‍ृणु सर्वाङ्गसुन्दरि । यत्कृतं देवदेवेशि ध्यानं हनुमतः परम् ॥१॥
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥२॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥३॥
अन्यत्तु दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोज्वलितं भीषणं भयनाशनम् ॥४॥
पश्चिमं गारुडं वक्त्रं वज्रकुण्डं महाबलम् । सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं महोज्ज्वलम् । पातालसिद्धिवेतालज्वररोगादिकृन्तनम् ॥६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । एतत्पञ्चमुखं तस्य ध्यायतामभयङ्करम् ॥
खड्गं त्रिशूलं खट्वाङ्गं पाशाङ्कुशसुपर्वतम् । मुष्टिद्रुमगदाभिन्दिपालज्ञानेन संयुतम् ॥८॥
एतान्यायुधजालानि धारयन्तं यजामहे । प्रेतासनोपविष्टं तु सर्वाभरणभूषितम् ॥९॥
दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥१०॥
पञ्चास्यमच्युतमनेकविचित्रवीर्यं श्रीशङ्खचक्ररमणीयभुजाग्रदेशम् । पीताम्बरं मकुटकुण्डलनूपुराङ्गं उद्योतितं कपिवरं हृदि भावयामि ॥११॥
मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रून् संहर मां रक्ष श्रियं दापय मे प्रभो ॥१२॥
हरिमर्कटमर्कटमन्त्रमिमं परिलिख्यति लिख्यति भूमितले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामकरः ॥१३॥
इति ध्यानम्
श्रीपञ्चमुखहनुमत्कवचस्तोत्रमहामन्त्रपठनं करिष्ये
ॐ हरिमर्कटमहामर्कटाय ॐ वं वं वं वं वं वं फट् फे फे स्वाहा । ॐ हरिमर्कटमहामर्कटाय ॐ घं घं घं घं घं घं फट् फे फे स्वाहा । ॐ हरिमर्कटमहामर्कटाय ॐ खें खें खें खें खें खें फट् फे फे मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय ॐ ठं ठं ठं ठं ठं ठं फट् फे फे स्तम्भनाय स्वाहा । ॐ हरिमर्कटमर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ फट् फे फे आकर्षणसत्वकाय स्वाहा ।
ॐ हरिमर्कटमर्कटमन्त्रमिदं परिलिख्यति लिख्यति भूमितले । यदि नश्यति नश्यति वामकरे परिमुञ्चति मुञ्चति श‍ृङ्खलिका । ॐ नमो भगवते पञ्चवदनाय पूर्वे कपिमुखाय श्रीवीरहनूमते ॐ टं टं टं टं टं टं सकलशत्रुसंहाराय हुं फट् फे फे फे फे फे फे स्वाहा । ॐ नमो भगवते श्रीपञ्चवदनाय दक्षिणे करालवदन श्रीनृसिंहमुखाय श्रीवीरहनूमते ॐ हं हं हं हं हं हं सकल भूतप्रेतदमनाय महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा । ॐ नमो भगवते पञ्चवदनाय पश्चिमे गरुडमुखाय श्रीवीरहनूमते ॐ मं मं मं मं मं मं महारुद्राय सकलरोगविषपरिहाराय हुं फट् फे फे फे फे फे फे स्वाहा । ॐ नमो भगवते पञ्चवदनाय उत्तरे आदिवराहमुखाय श्रीवीरहनूमते ॐ लं लं लं लं लं लं लक्ष्मणप्राणदात्रे लङ्कापुरीदाहनाय सकलसम्पत्कराय पुत्रपौत्राद्यभिवृद्धिकराय ॐ नमः स्वाहा । ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखस्थितहयग्रीवमुखाय श्रीवीरहनूमते ॐ रुं रुं रुं रुं रुं रुं रुद्रमूर्तये सकललोकवशीकराय वेदविद्यास्वरूपिणे । ॐ नमः स्वाहा । (इति मूलमन्त्रः । बीजमुद्राः प्रदर्शयेत्)
ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं स्वाहा । इति दिग्बन्धः । ॐ नमो भगवते आञ्जनेयाय महाबलाय हुं फट् फे फे फे फे फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनूमते प्रबलपराक्रमाय आक्रान्तदिङ्मण्डलाय शोभिताननाय धवलीकृतवज्रदेहाय जगच्चिन्तकाय रुद्रावताराय लङ्कापुरीदाहनाय उदधिलङ्घनाय सेतुबन्धनाय दशकण्ठशिरःक्रान्ताय सीताश्वासनाय अनन्तकोटिब्रह्माण्डनायकाय महाबलाय वायुपुत्राय अञ्जनादेवीगर्भसम्भूताय श्रीरामलक्ष्मणानन्दकराय कपिसैन्यप्रियकराय सुग्रीवसहायकारणकार्यसाधकाय पर्वतोत्पाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ॥
(श्रीरामचन्द्रदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीतादुःख- निवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय कोलाहलसकल- ब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिरालम्बिताय पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बफलसेवनाय दृष्टिनिरालङ्कृताय अङ्गदलक्ष्मणमहाकपिसैन्यप्राणनिर्वाहकाय दशकण्ठविध्वंसनाय रामेष्टाय फल्गुनसखाय सीतासमेतरामचन्द्रप्रसादकाय स्वाहा ।)
ॐ ह्रीं क्लीं सर्वदुष्टग्रहनिवारणाय सर्वरोगज्वरोच्चाटनाय शाकिनी-डाकिनीविध्वंसनाय ॐ ह्रीं क्लीं हुं फट् फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनूमते सर्वभूतज्वरैकाहिक-द्व्याहिक-त्र्याहिक-चातुर्थिक-सन्ततविषमज्वर- गुप्तज्वर-शीतज्वर-महेश्वरज्वर-वैष्णवज्वरादिसर्वज्वरान् छिन्दि छिन्दि भिन्दि भिन्दि । यक्षराक्षसब्रह्मराक्षसभूतप्रेतपिशाचानुच्चाटयोच्चाटय ॥
ॐ श्रीं ह्रीं हुं फट् फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनूमते नमः । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । आह आह । असै असै एहि एहि ॐ ॐ हों हों हुं हुं फट् फे फे स्वाहा । ॐ नमो भगवते पवनात्मजाय डाकिनी-शाकिनी-मोहिनीनिःशेष- निरसनाय सर्वविषं निर्विषं कुरु कारय कारय हुं फट् फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनुमते सिंहशरभ-शार्दूल-गण्डभेरुण्ड-पुरुषमृगाणां ओशाति निरसनाय । ??? क्रमनिरसनक्रमणं कुरु । सर्वरोगान्निवारय निवारय आक्रोशय आक्रोशय शत्रून्मादभयं छिन्दि छिन्दि । छादय छादय । मारय मारय । शोषय शोषय । मोहय मोहय । ज्वालय ज्वालय । प्रहारय प्रहारय । मम सर्वरोगान् छेदय छेदय । ॐ ह्रीं हुं फट् फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनुमते सर्वरोगदुष्टग्रहानुच्चाटय उच्चाटय परबलानि क्षोभय क्षोभय । मम सर्वकार्याणि साधय साधय । श‍ृङ्खलाबन्धनं मोक्षय मोक्षय । कारागृहादिभ्यो मोचय मोचय । शिरःशूल-कर्णशूलाक्षिशूल-कुक्षिशूल- पार्श्वशूलादि महारोगान् निवारय निवारय । नागपाशानन्त-वासुकि- तक्षक-कर्कोटक-कालगुलियकपद्म-महापद्म-कुमुदाचलचर-रात्रिचर- दिवाचरादिसर्वविषं निर्विषं कुरु निर्विषं कुरु । सर्वरोगनिवारणं कुरु । सर्वराजसभामुखस्तम्भनं कुरु । स्त्रीजनस्तम्भनं कुरु स्तम्भनं कुरु । सर्वभयचोरभयाग्निभयप्रशमनं कुरु प्रशमनं कुरु । सर्वनरयन्त्र-परतन्त्र-परविद्यां छेदय छेदय । सन्त्रासय सन्त्रासय । मम सर्वविद्यां प्रकटय प्रकटय । पोषय पोषय । सर्वारिष्टं शमय शमय सर्वशत्रून् संहारय संहारय । सर्वरोगपिशाचबाधां निवारय निवारय । ॐ ह्रां ह्रीं ह्रूं ह्रें फट् फे फे स्वाहा । ॐ नमो भगवते श्रीवीरहनूमते वरप्रसादकाय सर्वाभीष्टप्रदाय सकलसम्पत्कराय महारक्षकाय ॐ जं जं जं जं जं जं जगज्जीवनाय हुं फट् फे फे फे स्वाहा ।
य इदं कवचं नित्यं प्रपठेत् प्रयतो नरः । एकवारं पठेन्नित्यं सर्वशत्रुविनाशनम् । द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ॥
त्रिवारं यः पठेन्नित्यं सर्वसम्पत्करं शुभम् । चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ॥
पञ्चवारं पठेन्नित्यं सर्वशत्रुवशीकरम् । षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ॥
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् । अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ॥
नववारं सप्तकेन सर्वराज्यवशीकरम् । दशवारं च प्रजपेत् त्रैलोक्यज्ञानदर्शनम् ॥
एकादशं जपित्वा तु सर्वसिद्धिकरं नृणाम् । त्रिसप्तनववारं च राजभोगं च सम्भवेत् ॥
द्विसप्तदशवारं तु त्रैलोक्यज्ञानदर्शनम् । दशैकवारं पठनादिदं मन्त्रं त्रिसप्तकम् ॥
स्वजनैस्तु समायुक्तस्त्रैलोक्यविजयी भवेत् । कवचस्मरणादेव महाफलमवाप्नुयात् ।
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतं शुभम् । हस्ताभ्यामवलम्बिताञ्जलिपुटं हारावलिं कुण्डलं बिभ्रद्दीर्घशिखाप्रसन्नवदनं वन्द्याञ्जनेयं भजे ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP