संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ अथ पुरश्चरणरसोल्लासे ईश...

श्रीगुरुकवचम् - ॥ अथ पुरश्चरणरसोल्लासे ईश...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ अथ पुरश्चरणरसोल्लासे ईश्वरदेवीसंवादे श्रीगुरुकवचम् ॥
पूर्वपीठिका
॥ श्रीईश्वर उवाच ॥
श‍ृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥१॥
अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥२॥
न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥३॥
गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् । तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् । सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥४॥
॥ सविधि श्रीगुरुकवचस्तोत्रम् ॥
विनियोगः -- ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्म ऋषिः सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता नमो हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजं स-ह-क्ष-म-ल-व-र-यीं शक्तिःहंसः सोऽहं कीलकं समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगः ।
ऋष्यादिन्यासः -- श्रीपरमब्रह्मर्षये नमः शिरसि । सर्ववेदानुज्ञदेवदेव श्री आदिशिवदेवतायै नमः हृदि । नमः हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये । स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ । हंसः सोऽहं कीलकाय नमः पादयोः । समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगाय नमः अञ्जलौ ।
अथ षडङ्गन्यासः । ॐ हसाम् । ॐ हसीम् । ॐ हसूम् । ॐ हसैम् । ॐ हसौम् । ॐ हसः ।
अथ करन्यासः । ॐ हसां अङ्गुष्ठाभ्यां नमः । ॐ हसीं तर्जनीभ्यां नमः । ॐ हसूं मध्यमाभ्यां नमः । ॐ हसैं अनामिकाभ्यां नमः । ॐ हसौं कनिष्ठाभ्यां नमः । ॐ हसः करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः । ॐ हसां हृदयाय नमः । ॐ हसीं शिरसे स्वाहा । ॐ हसूं शिखायै वषट् । ॐ हसैं कवचाय हुं । ॐ हसौं नेत्रत्रयाय वौषट् । ॐ हसः अस्त्राय फट् ।
ध्यानम् -- श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् । वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदं च ॥
मानसपूजन -- लं पृथिव्यात्मकं गन्धतन्मात्रप्रकृत्यात्मकं गन्धं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । हं आकाशात्मकं शब्दतन्मात्रप्रकृत्यात्मकं पुष्पं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । यं वाय्वात्मकं स्पर्शतन्मात्रप्रकृत्यात्मकं धूपं सशक्तिकाय श्रीगुरवे घ्रापयामि नमः । रं वह्न्यात्मकं रूपतन्मत्रप्रकृत्यात्मकं दीपं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । वं अमृतात्मकं रसतन्मात्रप्रकृत्यात्मकं नैवेद्यं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । सं सर्वात्मिकां ताम्बूलादिसर्वोपचारपूजां सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
॥ कवचस्तोत्रम् ॥
ॐ नमः प्रकाशानन्दनाथः तु शिखायां पातु मे सदा । परशिवानन्दनाथः शिरो मे रक्षयेत् सदा ॥१॥
परशक्तिदिव्यानन्दनाथो भाले च रक्षतु । कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् ॥२॥
दिव्यौघो मस्तकं देवि! पातु सर्वशिरः सदा । कण्ठादिनाभिपर्यन्तं सिद्धौघा गुरवः प्रिये ॥३॥
भोगानन्दनाथ गुरुः पातु दक्षिणबाहुकम् । समयानन्दनाथश्च सन्ततं हृदयेऽवतु ॥४॥
सहजानन्दनाथश्च कटिं नाभिं च रक्षतु । एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥५॥
अधरे मानवौघाश्च गुरवः कुलनायिके! गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा ॥६॥
नीलौघानन्दनाथश्च रक्षयेत् पादपृष्ठतः । स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु ॥७॥
कन्दोलानन्दनाथश्च रक्षेत् पादतले सदा । इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः ॥८॥
गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः । परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ॥९॥
परमेष्ठीगुरुश्चैव रक्षयेत् वायुमण्डले । शिवादिगुरवः साक्षात् आकाशे रक्षयेत् सदा ॥१०॥
इन्द्रो गुरुः पातु पूर्वे आग्नेयां गुरुरग्नयः । दक्षे यमो गुरुः पातु नैरृत्यां निऋतिर्गुरुः ॥११॥
वरुणो गुरुः पश्चिमे वायव्यां मारुतो गुरुः । उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः ॥१२॥
ऊर्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः । एवं दशदिशः पान्तु इन्द्रादिगुरवः क्रमात् ॥१३॥
शिरसः पादपर्यन्तं पान्तु दिव्यौघसिद्धयः । मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा ॥१४॥
सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् । आत्मानं गुरुरूपं च ध्यायेन् मन्त्रं सदा बुधः ॥१५॥
॥ फलश्रुतिः ॥
इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् । तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥१॥
पूजाकाले पठेद् यस्तु जपकाले विशेषतः । त्रैलोक्यदुर्लभं देवि । भुक्तिमुक्तिफलप्रदम् ॥२॥
सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा । सर्वतीर्थफलं देवि । यः पठेत् कवचं गुरोः ॥३॥
अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् । कवचं गुरुपङ्क्तेस्तु भक्त्या च शुबवासरे ॥४॥
पूजयेत् धूपदीपाद्यैः सुधाभिः सितसंयुतैः । तर्पयेत् गुरुमन्त्रेण साधकः शुद्धचेतसा ॥५॥
धारयेत् कवचं देवि! इह भूतभयापहम् । पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् । एवं कवचं परमं दिव्यसिद्धौघकलावान् ॥६॥
॥ इति पुरश्चरणरसोल्लासे द्वितीयप्रश्ने दशमपटले ईश्वरदेवीसंवादे श्रीगुरुकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP