संस्कृत सूची|संस्कृत साहित्य|कवच| श्री देव्युवाच । जमदग... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... रेणुकाकवचं - श्री देव्युवाच । जमदग... N/Aदेवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र रेणुकाकवचं भैरवरुद्रयामाले Translation - भाषांतर श्री देव्युवाच । जमदग्निप्रियां देवीं रेणुकामेकमातरं सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् । अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥ श्री शङ्कर उवाच । विना जपं विना दानं विना होमं महेश्वरि । रेणुका मन्त्रसिद्धिस्यान्नित्यं कवचपाठतः ॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥ डाकिनी-भूतवेताल-ब्रह्मराक्षस-नाशनम् । पुरा देवासुरे युध्दे माहिषे लोके विग्रहे ॥ ब्रह्मणा निर्मिता रक्षा साधकानां सुखाय च । मन्त्रवीर्यं समोपेतं भूतापस्मार-नाशनम् ॥ देवैर्देवस्य विजये सिद्धेः खेचर-सिध्दये । दिवा रात्रमधीतं स्यात् रेणुका कवचं प्रिये ॥ वने राजगृहे युद्धे ब्रह्मराक्षससङ्कुले । बन्धने गमने चैव कर्मणि राजसङ्कटे ॥ कवचस्मरणादेव सर्वं कल्याणमश्नुते । रेणुकायाः महादेव्याः कवचं शृणु पार्वति ॥ यस्य स्मरणमात्रेण धर्मकामार्थभाजनम् । रेणुका-कवचस्यास्य ऋषिर्ब्रह्मा विधीयते ॥ छन्दश्चित्राह्वयं प्रोक्तं देवता रेणुका स्मृता । पृथ्वी बीजं रमा शक्तिः पुरुषार्थ-चतुष्टयम् ॥ विनियोगो महेशानि तदाकाले प्रकीर्त्तितः ( प्रकीर्तितः )। ध्यात्वा देवीं महामायां जगन्मातरमम्बिकाम् ॥ पूर्णकुम्भसमायुक्तां मुक्ताहारविराजिताम् । स्वर्णालङ्कारसंयुक्तां स्वर्णसिंहासनस्थिताम् ॥ मस्तके गुरुपादाब्जं प्रणम्य कवचं पठेत् । इन्द्रो मां रक्षतु प्राच्यां वह्नौ वह्निः सुरेश्वरि ॥ याम्यां यमः सदा पातु नैरृत्यां निरृतिस्तथा । पश्चिमे वरुणः पातु वायव्ये वायुदेवता ॥ धनश्चोत्तरे पातु ईशान्यामीश्वरो विभुः । ऊर्ध्वं ब्रह्मा सदा पातु अनन्तोऽधः सदाऽवतु ॥ पञ्चान्तको महेन्द्रश्च वामकर्णेन्दुभूषितः । प्रणवं पुटितं कृत्वा तत्कृत्वा प्रणवं पुनः ॥ समुच्चार्य ततो देवीकवचं प्रपठे तथा । ब्रह्माणी मे शिरः पातु नेत्रे पातु महेश्वरी ॥ वैष्णवी नासिकायुग्मं कर्णयोः कर्णवासिनी । कण्ठं मातु महालक्ष्मीर्हृदयं चण्डभैरवी ॥ बाहू मे बगला पातु करौ महिषमर्दिनी । कराङ्गुलिषु केशेषु नाभिं मे चर्चिकाऽवतु ॥ गुह्यं गुह्येश्वरी पातु ऊरू पातु महामतिः । जानुनी जननी रामा गुल्फयोर्नारसिंहिका ॥ वसुन्धरा सदा पादौ पायात्पादाङ्गुलीषु च । रोमकूपे मेदमज्जा रक्त-मांसास्थिखण्डिके ॥ रेणुका जननी पातु महापुरनिवासिनी । रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ॥ पूर्वं बीजं समुच्चार्य सम्पुटक्रमयोगतः । मुद्रां वध्वा महेशानि गोलं न्यासं समाचरेत् ॥ अस्य श्रीरेणुका-कवचमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः रेणुका देवता लं बीजं रेणुका प्रीत्यर्थे गोलन्यासे विनियोगः । ॐ रां अङ्गुष्ठाभ्यां नमः । ॐ रीं तर्जनीभ्यां नमः । ॐ रूं मध्यमाभ्यां नमः । ॐ रैं अनामिकाभ्यां नमः । ॐ रौं कनिष्ठिकाभ्यां नमः । ॐ रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ पं नमः मूर्ध्नि । ॐ फं नमः दक्षिणनेत्रे । ॐ बं नमः वामनेत्रे । ॐ भं नमः दक्षिणनासापुटे । ॐ मं नमः वामनासापुटे । ॐ यं नमः दक्षिणकर्णे । ॐ रं नमः वामकर्णे । ॐ लं नमः मुखे । ॐ वं नमः गुदे । ब्रह्माणी ब्रह्मभागे च शिरो धरणि धारिणी । रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥ भैरवी त्रिपुरा बाला वज्रा मे तारिणी पऱा । रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥ एषा मेऽङ्गं सदा पातु पार्वती हरवल्लभा । महिषासुरसंहर्त्री विधातृवरदायिनी ॥ मस्तके पातु मे नित्यं महाकाली प्रसीदतु । आकाशे ताडका पातु पाताले वह्निवासिनी ॥ वामदक्षिणयोश्चापि कालिका च करालिका । धनुर्बाणधरा चैव खड्ग-खट्वाङ्ग-धारिणी ॥ सर्वाङ्गं मे सदा पातु रेणुका वरदायिनी । रां रां रां रेणुके मातर्भार्गवोद्धारकारिणी ॥ राजराजकुलोद्भूते संग्रामे शत्रुसङ्कटे । जलाप्नाव्ये व्याघ्रभये तथा राजभयेऽपि च । श्मशाने सङ्कटे घोरे पाहि मां परमेश्वरि ॥ रूपं देहि यशो देहि द्विषतां नाशमेव च । प्रसादः स्याच्छुभो मातर्वरदा रेणुके भव ॥ ऐं महेशि महेश्वरि चण्डिमे भुजङ्गधारिणि शङ्खकपालिके । कनक-कुण्डल-मण्डल-भाजने वपुरिदञ्च पुनीहि महेश्वरि ॥ इदं श्रीकवचं देव्याः रेणुकाया महेश्वरि । त्रिकालं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ॥ ग्रहणेऽर्कस्य चन्द्रस्य शुचिः पूर्वमुपोषितः । शतत्रयावृत्तिपाठाद्मन्त्रसिद्धिः प्रजायते ॥ नदीसङ्गममासाद्य नाभिमात्रोदकस्थितः । रविमण्डलमुद्वीक्ष्य जले तत्र स्थितां शिवाम् ॥ विचिन्त्य मण्डले देवी कार्ये सिद्धिर्भवेद्ध्रुवम् । घटं तव प्रतिष्ठाप्य विभूतिस्तत्र वेशयेत् । दीपं सर्षपतैलेन कवचं त्रिः पठेत्तदा ॥ भूतप्रेत-पिशाचाश्च डाकिन्यो यातुधानिका । सर्व ते नाशमायान्ति कवचस्मरणात्प्रिये ॥ धनं धान्यं यशो मेधां यत्किञ्चिन्मनसेप्सितम् । कवचस्मरणादेव सर्वमाप्नोति नित्यशः ॥ इति श्री मातृसंस्थाने भैरवरुद्रयामले रेणुकाकल्पे पञ्चमं पटलं सम्पूर्णम् ॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP