संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । श्री ...

श्रीशरभेश्वरकवचम् - ॐ श्रीगणेशाय नमः । श्री ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । श्री देव्युवाच । सर्वज्ञ सर्वमन्त्रस्य सर्वाचार्य शिव प्रभो । शरभं कवचं दिव्यं सर्वरक्षाकरं परम् ॥१॥
वज्रपञ्जर नामाख्यं वद मे करुणाकर । श्रीशिव उवाच । वक्ष्यामि श‍ृणु देवेशि सर्व लक्षणमद्भुतम् । (श‍ृणु ते देवि) शारभं कवचं नाम्ना चतुर्वर्गफलप्रदम् ॥२॥
शरभ-सालुव-पक्षिराजाख्य कवचस्य तु । (शरभशालुव) सदाशिव ऋषिश्छन्दो बृहती शरभेश्वरः ॥३॥
देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते । कीलकं पक्षिराजाय सर्वरक्षाकरोविभुः ॥४॥
पर-प्रयोग-शान्त्यर्थ सर्वशत्रुनिवृत्तये । चतुर्वर्गार्थ-सिध्यर्थे विनियोगोऽथ भावना ॥५॥
ध्यानम् । रक्ताभं सुप्रसन्नं त्रिनयनममृतोन्मत्त भाषाभिराममं कारुण्याम्भोधिमीशं वरदमभयदं चन्द्ररेखावतंसम् । (शरभमभयदं) शङ्ख-ध्माताखिलाशा प्रतिहतविधिना भासमानात्म-भावं (शङ्खध्वानाखिलाशा) सर्वेशं सालुवेशं प्रणतभयहरं पक्षिराजं नमामि ॥६॥ (सर्वेशंशालुवेशं)
ॐ श्री शिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्वं महेश्वरः ॥१॥
शिखाग्रं पातु मे शम्भुर्निटिलं पातु शङ्करः । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ॥२॥
भ्रुवौ पातु मम स्थाणुः कपर्दी पातु लोचने । शर्वो मे श्रोत्रयोः पातु वागीशः पातु लम्बिकाम् ॥३॥ (श्रोत्रके पातु)
नासयोर्मे वृषारूढो नासाग्रं वृषभध्वजः । (नासिके, नासाग्रे) स्मरारिः पातु मे ताल्वेरोष्ठयोर्भक्तवत्सलः ॥४॥
जिह्वां मम सदा पातु सर्वविद्या प्रदायकः । पातु मृत्युञ्जयो दन्तान्चिबुकं पातु भूतराट् ॥५॥
परमेशः कपोलौ मे त्रिकं पातु कपालभृत् । कण्ठं पशुपतिः पातु शूली पातु हनू मम ॥६॥
स्कन्धद्वयं हरः पातु धूर्जटि पातु मे भुजौ । भुजसन्धिं महादेव ईशानो मे प्रकूपरे ॥७॥
मध्यसन्धी जगन्नाथः प्रकोष्ठे चन्द्रशेखरः । मणिबन्धौ त्रिनेत्रो मे भीमः पातु करस्थले ॥८॥
करपृष्ठे मृडः पातु रुद्रोऽगुंष्ठद्वये मम । उमासहायस्तर्जन्यौ भर्गो मे पातु मध्यमे ॥९॥
अनामिके करालास्यः कालकण्ठः कनिष्ठिके । गङ्गाधरोऽङ्गुलीपर्वाण्यप्रमेयो नखानि मे ॥१०॥
वक्षस्तत्पुरुषः पातु कक्षे दक्षाध्वरान्तकः । अघोरो हृदयं पातु वामदेव स्तनद्वयम् ॥११॥
भालदृक् जठरं पातु नाभिं नारायणप्रियः । कुक्षौ प्रजाकरः पातु कुक्षिपार्श्वे महाबलः ॥१२॥
सद्योजातः कटी पातु पृष्ठभागं तु भैरवः । मोहनोजघनं पातु गुदं मम जितेन्द्रियः ॥१३॥
ऊर्ध्वरेता लिङ्गदेशं वृषणं विश्वमोहनः । ऊरूद्वयं भवः पातु जानुयुग्मं भवान्तकः ॥१४॥ (ऊरुयुग्मं हरः पातु)
हुङ्कारः पातु मे जङ्घे फट्कारो मम गुल्फके । वषट्कारः पादपृष्ठे वौषट्कारोऽङ्घ्रिणस्तले ॥१५॥ (खट्कारः)
स्वाहाकारोऽङ्गुलीपार्श्वे स्वधाकारोऽङ्गुलीर्मम । त्वरितः सर्व सन्धीन्मे रोमकूपाणि सिंहजित् ॥१६॥ (त्वरितः सन्धिबन्धं मे)
त्वचं पातु मनोवेगः कालजिद्रुधिरं मम । पुष्टिदः पातु मे मांसं मेदो मे स्वस्तिदोऽवतु ॥१७॥
सर्वात्मास्थिचयं पातु मज्जानं मे जगत्प्रभु । (मज्जां मम) शुक्रं वृद्धिकरः पातु बुद्धिं वाचामधीश्वरः ॥१८॥
मूलाधाराम्बुजं पातु भगवान्शरभेश्वरः । स्वाधिष्ठानमजः पातु मणीपूरं हरिप्रियः ॥१९॥
अनाहतं सालुवेशोविशुद्धं जीवनायकः । (शालुवेशोविशुद्धं) सर्वज्ञानप्रदोह्याज्ञां ललाटं मे सदाशिवः ॥२०॥ (प्रदो देवो)
ब्रह्मरन्ध्रं महादेवः पक्षिराजोऽखिलात्मवान् । सर्वलोकवशीकारः पातु मां परगर्वजित् ॥२१॥
वज्र-मुष्टि-वराभीतिहस्तः कालाभ्रसन्निभः । विजया सहितः पातु चैन्द्रीं ककुभमग्निजित् ॥२२॥
शक्ति-शूल-कपालासिहस्तः सौदामिनीप्रभः । जयायुतो महाभीमः पातु वैश्वानरीं दिशम् ॥२३॥
दण्डासि-मुसलं-हाल-पाशाङ्कुश कराम्बुजः । (दण्डासि-मुसली सीर) यमान्तकोऽजितायुक्तो याम्यीं पातु दिशं ममः ॥२४॥ (कामान्तकोऽजितायुक्त्ऱः दिशं याम्यां सदाऽवतु)
खड्ग-खेटासि-परशुहस्त-शत्रुविमर्दनः । (खेटाग्नि) अपराजितया युक्तः सदाव्यान्नैरॄतिं दिशम् ॥२५॥
पाशाङ्कुश-धनुर्बाण-पाणि-घोणियुतोऽग्रकः । हरिद्राभोऽनिशं पायाद्वारुणीं दिशमात्मजित् ॥२६॥
ध्वज-चक्रयुतोदारिभुजो दुर्गा युतोऽर्गलः । (ध्वजछत्रगदाकुन्त) चण्डवेगः शिवः पायात्सततं मारुती दिशम् ॥२७॥
गदास्त्रग्वरदाभीति कराम्भोज श्रियायुतः । (गदाक्षर) कनकाभो महातेजः पातु कौबेरकीदिशम् ॥२८॥
त्रिशूलाहि-कपालाग्निदोस्तलो विद्ययायुतः । भस्मोद्धूलितसर्वाङ्ग ऐशीं पात्वपराजितः ॥२९॥ (सर्वाङ्गो दिशं पातु शिवप्रियाम्)
जपास्त्रक्पुस्तकाम्भोज कमण्डलुं कराम्बुजः । (जपस्रक्) ऊर्ध्वं पातु गिरायुक्तः सर्वभूतहितेरतः ॥३०॥
शङ्ख-चक्र-गदाऽभीति-हस्तः पद्मायुतोऽव्ययः । कालाञ्जनसमोनीलः पातालं पात्वनारतम् ॥३१॥ (नीलाञ्जनो)
अनुक्ता विदिशः पातु सालुवो नारसिंहजित् । शरभः पातु सङ्ग्रामे युद्धे वैरिकुलान्तकः ॥३२॥
सर्वसौभाग्यदः पातु जाग्रत्स्वप्नसुषुप्तिषु । सर्वसम्पत्प्रदः पातु धनधान्यादिकं मम ॥३३॥
सन्तानदः सुतान्पातु दारानायुष्करोऽनिशम् । (पुत्रानायुषकरो) बन्धून्वृद्धिकरः पातु गृहं सर्ववशङ्करः ॥३४॥
ग्रामं ग्रामेश्वरः पातु राज्यं पातु दिगम्बरः । राष्ट्रं शान्तिकरः पातु राजानं धर्मशासकः ॥३५॥
मार्गं दुष्टहरः पातु धर्मकर्माणि भैरवः । बटुकः पातु मे सर्वं त्र्यवस्थासु भयेषु च ॥३६॥
स्पर्श-वीक्षण-संयुक्तः प्राणरक्षां मनोजवः । प्रधानमूर्तिभावश्च प्रासादेष्वाशुसिद्धिकृत् ॥३७॥
साधकः प्रणवं बीजं नमो भगवतेति च । (प्रणवं ध्यायान् ज्वलद्द्विः प्रज्ज्वलद्वयम्) प्रतिनाम चतुर्थ्यन्तं स्पर्श इत्यभिधीयते ॥३८॥ (प्रत्यावृत्ति चतुर्थ्यन्तं)
द्विर्ज्वल-प्रज्वले साध्यं साधय द्विर्द्वि रक्ष तत् । सर्वदुष्टेभ्यो हुं फट् स्वाहान्त युग्वीक्षणम् ॥३९॥
स्पृशन् पश्यन् जपं कृत्वा प्रतिस्थानं समाहितः । (स्पर्शं स्पर्शं जपं) प्रार्थयेदखिलं स्वेष्टं हृदिस्थं सालुवेश्वरम् ॥४०॥ (शालुवेश्वरम्)
ये ग्रामघातकाः क्रूराः कपटा दौष्टिका भटाः । (कपटा दुर्मदा ग्रहाः) तस्कराः शत्रवः क्रुद्धा वधे सक्ताः पलाशनाः ॥४१॥
छद्मचाराः विटाः भ्रष्टास्दिवाचर-निशाचराः । ते सर्वे पक्षिराजस्य पक्षवातपराहताः ॥४२॥
स्त्री-बाल-सहिताः क्षिप्रं पितृ-मातृ कुलान्विताः । भग्नचित्ता गतस्थाना यान्तु देशान्तरं स्वयम् ॥४३॥ (जगस्थाना यान्तु)
ये च दुष्टग्रहा रक्षः-पिशाचाः देवयोनयः । (ये तु दुष्टाहा यक्षाः) चतुःषष्टिगणाः सप्तसप्तत्युन्मादका ग्रहाः ॥४४॥ (मत्तका ग्रहाः)
अष्टाशीति महाभूताः सप्तकोटि महाग्रहाः । नवति ज्वरभेदाश्च शतभेदाश्च कृत्तिकाः ॥४५॥ (शतभेदाश्च कृत्रिमाः )
पञ्चाशद् गणनाथाश्च नियुता कृत्रिमा ग्रहाः । प्रेतारूढास्त्रयस्त्रिंशत्पिण्डदान परायणाः ॥४६॥
अयुतं क्षुद्र-भेदाश्च चत्वारिंशच्छिवाह्वयाः । द्वात्रिंशद्वह्निवक्त्राश्च त्रिंशन्मार्जारवक्त्रकाः ॥४७॥
चतुःषष्ट्याखुरूपाश्च ये चान्ये क्षुद्रयोनयः । ते सर्वे सालुवेशस्य शङ्ख-निःस्वन-मोहिताः ॥४८॥ (शालुवेशस्य)
विषण्णाः खिलतःस्वान्ताः प्राण-त्राण-परायणाः । गच्छन्तु सम्प्रयोक्तारो देशान्तरमनिच्छया ॥४९॥ (सत्प्रयोक्तारो)
ये च मूषक-वैडालाः शुनकोरगवृश्चिकाः । आशीविषाः शिवा व्याला व्याघ्र-ऋक्षेभसूकराः ॥५०॥ (शूकराः)
गृध्राः श्येनाः खगाः कङ्का दंशका भ्रंशका मृगाः । (काकदंशका भृशका ग्रहाः)
एते शरभहस्ताग्र-नख-क्षतविमोक्षगाः ॥५१॥
स्रवद्रक्ततलासिक्ताः शिलातलनिपीडिताः । सम्भिन्नतनवः शीघ्रं नश्यत्खिलदुश्चराः ॥५२॥
न दंशन्तूरगाः क्वापि नातिवातोऽपि वीजतु । (नातिवातोऽपि धातु च) न दहत्वसहो वह्निरायान्त्वापो न चाधिकाः ॥५३॥
न वर्षत्वतिवृष्टिश्च न पतत्वशनिः क्वचित् । नाक्रामत्वपमृत्युश्च नास्त्युत्पातं कदाचन ॥५४॥
न भ्रियन्त्वम्भसि जना न भवत्वशुभं क्वचित् । न वदन्त्वसहं वाक्यं जन्तवो मम देशके ॥५५॥
नास्ति वैरं तु जन्तूनामन्योऽयं राजके मम । भवन्तु सुखिनः सर्वे नार्यः सन्तु पतिव्रताः ॥५६॥ (सर्वे सर्वाः सन्तु)
सर्वाः सूयन्तु सत्पुत्रान्पुत्रीश्च शुभलक्षणाः । सर्वे देवाश्च नन्दन्तु सन्तु कल्याणकारकाः ॥५७॥
राजन्वती मही चास्तु राजा भवतु धार्मिकः । ससंस्त्रवं-पयोगावः फलन्त्वोषधयोऽधिकम् ॥५८॥ (संस्रवन्तु पयो)
भवन्तु फलदा वृक्षाः सिद्धिर्भवतु मेऽखिला । ममास्तु तरसा नूनमात्मज्ञानमचञ्चलम् ॥५९॥
महाक्रोध-महालोभाः समदा लोभ मत्सराः । (मोह मत्सराः) न सन्तु क्वापि मे सर्वे भगवन्करुणानिधे ॥६०॥ (नाक्रामेयुश्च सर्वेश्)
शरभेश्वर विश्वेश पक्षिराज दयानिधे । देहि मे ह्यचलां भक्ति प्रणतोऽस्मि पुनः पुनः ॥६१॥
गौरिवल्लभ कामारे कालकूटविषादन । मामुद्धरापदम्भोधेस्त्रिपुरघ्नान्तकान्तक ॥६२॥
सालुवेश (शालुवेश) जगन्नाथ सर्वभूतहिते रत । (शालुवेश) पाहि मां तरसा चौरान्दुष्टान्नाशय नाशय ॥६३॥ (त्राहि मां तरसा घोरान्)
कालभैरव विश्वेश विश्वरक्षापरायण । रक्ष मूषक-चौरेभ्यो धान्यराशिमिमं प्रभो ॥६४॥ (मूषिकचोरेभ्यो)
पक्षिराज महादेव प्रणतार्तिविनाशन । मदीयानि पदार्थानि नित्यं पालय पालय ॥६५॥
सर्वज्ञ सर्वलोकेश सर्वदुष्टविनाशन । तस्करेण हृतं वस्तु द्रुतं दापय दापय ॥६६॥
ये मर्मवादिनः क्षुद्राः छिद्रोपद्रवकारकाः । (ये मर्मघातिनः) सर्वाचार-परिभ्रष्टा मानहीनाश्च रोधकाः ॥६७॥ (सर्वाचारपरित्यक्ताः)
ते सर्वे सालुवेशस्य मुसलायुधचूर्णिताः । (शालुवेशस्य) नश्यन्तु निमिषार्धेन पावकावृततूलवत् ॥६८॥
ये जना द्रोहिणोऽश्लाघ्यास्त्वकालोचितभाषणाः । (ये जनद्रोहिणोऽल्पाश्च दुरालोचितभाषिणः) सत्कर्म विघ्नकर्तारः शान्त भर्त्सापरायणाः ॥६९॥  (सत्कर्मविघ्नकर्तारश्चासत्कर्मपरा नराः)
ते सालुवेश हस्ताग्र-खड्गनिर्भिन्नदेहिनः । (शालुवेशहस्ताग्रहस्तनिर्भिन्नदेहिनः) पतन्तु भूतले याम्यां प्राणास्तेषां प्रयान्त्वरम् ॥७०॥ (प्रयान्तु वै)
त्वदङ्घ्रि ध्यान निर्दग्ध पापकोशाय मन्त्रिणे । (पापकोशाय मे शिव) मह्यं द्रुह्यन्ति ये तेषां विभवानि क्षयन्त्वरम् ॥७१॥
त्वदाचारं परं भक्तं साधकानां विवेकिनम् । य आक्रमन्ति सङ्ग्रामे ते गच्छन्तु पराहताः ॥७२॥ (आक्रामन्ति च सङ्ग्रामे)
त्वदीयेनैव मार्गेण सञ्चरन्तं जपातुरम् । (मार्गेण चरतां जपतां सदा) ये वदन्ति परीवादं भ्रान्ताः शीघ्रं भवन्तु ते ॥७३ ॥(परीवादे)
त्वद्दासममलं धीरं ये मां तर्जयितुं बलात् । (त्वद्दासमुख्यं मां धीरं तर्जयन्ति बलाच्च ये) मनसा ये न मन्यन्ते तत्स्वान्तं भ्रमतु क्षणात् ॥७४॥ (मनसा येऽव्मन्यन्ते)
मनसा कर्मणा वाचा ये कुर्वन्त्यतिदुःसहम् । ते महाशोकरोगाब्धौ पतन्त्वाशु शिवाज्ञया ॥७५॥
मदीयानि पदार्थानि गृहीतुं योऽवलोकते । (ग्रहितुं) तत्क्षणादेव नष्टाक्षो भवत्वाश्वीश्वराज्ञया ॥७६॥ (भवत्वाशु शिवाज्ञया)
मदीयं द्रव्यमादाय ये गच्छन्तीह तस्कराः । सिंहारि-पाश-सम्बद्धास्ते चरन्तु प्रदक्षिणम् ॥७७॥ (पाशसम्बन्द्धात् ते)
सीमातीताश्च ये चौरा गृहीतद्रव्यसञ्चयाः । (सीमान्तरगताश्चोरा) अवशावयवास्ते तु आगच्छन्तु शिवाज्ञया ॥७८॥ (च गच्छन्तु शरभाज्ञया)
तस्कराः निम्नगातीताः स्वान्त-धान्य-धनाधिकाः । (तस्करा येऽपगृह्णन्ति मम धान्यधनादिकम्) पक्षिराजाङ्कुशाकृष्टाः समागच्छन्तु मद्गृहम् ॥७९॥  (पक्षिराट् क्रोडिकाकृष्टाः समागच्छन्तु ते द्रुतम्)
समाहृत-पदार्थाद्या देशातीताश्च तस्कराः । शरभेश-हलाकृष्टास्ते आगच्छन्तु वै द्रुतम् ॥८०॥
चौरा ग्रहीतुमुद्युक्ताः समागच्छन्ति मद्गृहे । ते सालुवेशपक्षोत्थवातैर्गच्छन्तु सत्वरम् ॥८१॥ (शालुवेशपक्षोत्थवातैर्गच्छन्तु)
शान्तं विवेकिनं भक्तं त्वदङ्घ्रि ध्यानतत्परम् । ब्रुवन्ति ये सहप्राणास्तेषां यान्ति यमीं पुरीम् ॥८२॥  (द्रुह्यन्ति य इह प्राणास्तेषां यान्तु यमं शिव)
षट्त्रिंशत्कोष्टके यन्त्रे रेखाशूलाग्रसाध्यके । स्वेच्छामन्त्रं लिखित्वा तु जपेदाराध्य साधकः ॥८३॥
मध्ये पाशाङ्कुशे वह्नि साध्य नाम लिखेत्क्रमात् । उदङमुखः सहस्त्रं तु रक्षणाय जपेन्निशिः ॥८४॥
नष्टाहरणके पञ्चरात्रं पश्चिम-दिङ्मुखः । मारणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् ॥८५॥
रोगनिग्रहणे चाष्टरात्रमाग्नेयदिङ्मुखः । इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् ॥८६॥
शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् । प्रत्यहं प्रतिपक्षं वा प्रतिमासमथापि वा ॥८७॥
यो जपेत्प्रतिवर्षं वा वरेण्यः स शिवो भवेत् । एवं हि जपतः पुंसां पातकं चोपपातकम् ॥८८॥
तत्सर्वं लयमाप्नोति रविणा तिमिरं यथा । दशाब्दं यो जपेन्नित्यं प्रातरुत्थाय साधकः ॥८९॥
सर्वसिद्धिं समाश्लिष्य देहान्ते स शिवो भवेत् । (सर्वसिद्धिं समाश्रित्य) त्रिकालं ध्यानपूर्वं तु जपेद्द्वादशवार्षिकम् । कायेनानेन सो देवि जीवन्मुक्तो भवेन्नरः ॥९०॥ (जीवन्मुक्तो भवेच्छिवे)
शतवारं जपेन्नित्यं मण्डलं यो वरानने । सोऽणिमादिगुणान्प्राप्य विचरेत्स्वेच्छया सदा ॥९१॥
अतलादिधरण्यादि भुवनानि चतुर्दश । (अतलादिधरण्यन्तर्भुवनेषु तथोपरि) विचरेत्कामतः सर्वैः पूज्यमानो यथासुखम् ॥९२॥ (विचरेत्कामगः)
त्रिमासं यो जपेन्नित्यमष्टोत्तरसहस्रकम् । सहसा शरभेशस्य सारूप्यं लभतेऽम्बिके ॥९३॥
षण्मासं यो जपेद्देवि प्रयतस्तु दृढव्रतः । मद्रूपधारको मर्त्यः सर्वसिद्धिप्रदायकम् ॥९४॥  (मद्रूपधारकैर्मत्यैः सहसिद्धिप्रदायकैः)
मम लोके सम्पूज्यो विष्णुलोके विशेषतः । ब्रह्मलोके च रमते सर्वत्र न निवार्यते ॥९५॥
इन्द्राग्नियमरक्षेशजलेशपवनैः सह । सोमेशैः सह रुद्रेशैर्दिशाम्पालैः स पूज्यते ॥९६॥ (सोमेशानकलक्ष्मीशैर्दिशाम्)
आदित्य-सोम-पृथ्वीज-बुध-श्रीगुरु-भार्गवैः । पूज्यते स ग्रहैः सर्वैस्सशनि-राहु-केतुभिः ॥९७॥
भृग्वङ्गिरः-पुलस्त्यैश्च-पुलहात्रि मरीचिभिः । (पुलहादि) दक्ष-कश्यप-भृग्वाद्यैर्योगिभिश्च स पूज्यते ॥९८॥  (दक्षकाश्यपक्रत्वब्जयोनिभिः स च पूज्यते)
भैरवैर्वसुभी रुद्रैरादित्यैर्बालखिल्यकैः । दिग्गजैश्च महानागैर्दिव्यास्त्रैर्दिव्यवाहनैः ॥९९॥
माहेश्वरैर्महारत्नैः कामधेनु-सुरद्रुमैः । सरिद्भिः सागरैः शैलैर्देवताभिस्तपोधनैः ॥१००॥
दानवै राक्षसैः क्रूरैः सिद्ध-गन्धर्व-किन्नरैः । यक्ष-विद्याधरैर्नागैरप्सरोभिश्च पूज्यते ॥१०१॥
अपस्मार-ग्रहैर्भीमैरुन्मतैर्ब्रह्मराक्षसैः । वेतालैः खेचरैर्मर्त्यैः कूष्माण्डै राक्षसग्रहैः ॥१०२॥ (खेचरैर्क्रूरैः)
ज्वालावक्त्रैस्तमोहारैः स्त्रीग्रहैः पावकग्रहैः । भूत-प्रेत-पिशाचाद्यैर्ग्रहैः सर्वैः स पूज्यते ॥१०३॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च जातिभिः । (शुद्रैरन्यैश्च मानवैः) पशु-पक्षि-मृग-व्यालैः पूज्यते सर्वजन्तुभिः ॥१०४॥
किमत्र बहुना देवि तव वक्ष्येऽहं यथातथम् । मया च विष्णुना चैव विश्वकर्त्रा च कल्प्यते ॥१०५॥ (विश्वकर्त्रा च पाल्यते)
भवत्या च गिरा लक्ष्म्या ब्रह्माण्याद्यष्टमातृभिः । गणेश्वरादियोगीन्द्रैर्योगिनीभिः स पाल्यते ॥१०६॥
य इदं प्रजपेद्भक्त्या तस्यासाध्यं न विद्यते । कवचेन्द्र महामन्त्रं जपेत्तस्मादनुत्तमम् ॥१०७॥
उच्चाटने मरुद्वक्त्रो विद्वेषे राक्षसाननः । प्रागाननोऽभिवृद्धौ तु सर्वेष्वीशानदिङ्मुखः ॥१०८॥
यो जपेत्कवचं नित्यं त्रिकालं ध्यानपूर्वकम् । सर्वसिद्धिमवाप्नोति सहसा साधकोत्तमः ॥१०९॥
श्रीदेव्युवाच । देव देव महादेव शिव कारुण्यवारिधे । पाहि मां प्रणतं स्वामिन्प्रसीद सततं मम ॥११०॥
सर्वार्थसाधनोपाय सर्वैश्वर्यप्रदायक । समस्तापत्प्रतीकार चन्द्रशेखर ते नमः ॥१११॥
यत्कृत्यं तन्नकृतं यदकृत्यं कृत्यवदाचरितम् । उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयोच्चरितम् ॥११२॥ (नामाक्षरद्वितयम्)
॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे     उमामहेश्वरसंवादे शरभकवचं सम्पूर्णम् ॥
 ॥आकाशभैरवकल्पम् । एकचत्वारिंशोऽध्यायः ॥
इति श्रीशरभेश्वरकवचं अथवा श्रीशरभकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP