संस्कृत सूची|संस्कृत साहित्य|कवच|
कैलासाचलम्ध्यगम्पुरवहं शा...

श्रीबगलामुखीकवचम् - कैलासाचलम्ध्यगम्पुरवहं शा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं वामस्था कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति । देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् ॥१॥
श्रीशङ्कर उवाच- देवी श्रीभववल्लभे श‍ृणु महामन्त्रँ विभूतिप्रदन्देव्या वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् । तारं रुद्रवधूँ विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥२॥
ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रमनोवाञ्छितङ्कार्यं साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः । कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति भैरवर्ष्षिसहितञ्छन्दो विराट्संयुतम् ॥३॥
स्वेष्टार्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये । ध्यात्वा श्रीबगलाननामनुवरञ्जप्त्वा सहस्राख्यकन्दीग्र्धैः षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके ॥४॥
ध्यानम् । सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् । हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषण- व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीञ्चिन्तये ॥
ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः विराट्छन्दः श्रीबगलामुखी देवता क्लीम्बीजं ऐंशक्तिः श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥
शिरसि भैरवऋषये नमः । मुखे विराट्छन्दसे  नमः । हृदि बगलामुखीदेवतायै नमः । गुह्ये क्लीम्बीजाय नमः । पादयोः ऐंशक्तये नमः । सर्वाङ्गे श्रीङ्कीलकाय नमः । ॐ ह्रां अङ्गुष्ठाभ्यान् नमः । ॐ ह्रीं तर्जनीभ्यान् नमः । ॐ ह्रूं मध्यमाभ्यान् नमः । ॐ ह्रैं अनामिकाभ्यान् नमः । ॐ ह्रौं कनिष्ठिकाभ्यान् नमः । ॐ ह्रः करतलकरपृष्ठाभ्यान् नमः । ॐ ह्राँ हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायैवषट् । ॐ ह्रैं कवचायहुम् । ॐ ह्रौं नेत्रत्रयायवौषट् । ॐ ह्रः अस्त्राय फट् ॥
मन्त्रोद्धारः ॐ ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय २, ममैश्वर्याणि देहि २, शीघ्रमनोवाञ्छितकार्यं साधयः २, ह्रींस्वाहा ॥
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् । सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥१॥
श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥२॥
देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम । कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥३॥
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥४॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी । रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥५॥
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु । मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥६॥
ॐ ह्रीं पातु नाभिदेशमे कटिमे बगलावतु । मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥७॥
जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् । वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥८॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥९॥
जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च । पादोद्र्ध्वं  सर्वदा पातु बुद्धिं पादतले मम ॥१०॥
विनाशयपदं पातु पादाङ्गुल्योर्न्नखानि मे । ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥
सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥१२॥
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥१४॥
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥१५॥
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६॥
योगिन्यः सर्वदा पातु महारण्ये सदा मम । इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥१७॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् । अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥१८॥
निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥१९॥
पठेदिदं हि कवचन्निशायान्नियमात्तु यः । यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥२०॥
तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी । गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥२१॥
कवचण् यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन । यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥२२॥
त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥२३॥
लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् । एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥२४॥
जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् । संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥२५॥
विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् । श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥२६॥
नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि । वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥२७॥
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥२८॥
भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् । हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥२९॥
ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३०॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् । धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥३१॥
सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥३२॥
सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् । बृहस्पतिसमो वापि विभवे धनदोपमः ॥३३॥
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः । कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥३४॥
गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः । एकादशशतं यावत्पुरश्चरणमुच्यते ॥३५॥
पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् । न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥३६॥
देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् । इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ॥
शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥३७॥
दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां विद्यां श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ॥
ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥३८॥
इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP