संस्कृत सूची|संस्कृत साहित्य|कवच|
तन्त्रराजतन्त्रे अष्टाविं...

नित्याकवचम् - तन्त्रराजतन्त्रे अष्टाविं...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

तन्त्रराजतन्त्रे अष्टाविंशं पटलान्तर्गतम् ।
समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये । भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥१॥
समस्तरोगनाशाय समरे विजयाय च । चोरसिंहद्वीपिगजगवयादिभयानके ॥२॥
अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा । सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे ॥३॥
प्रजप्य नित्याकवचं सकृत्सर्वन्तरत्यसौ । सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥४॥
श‍ृणु तत् कवचं देवि वक्ष्ये तव तदात्मकम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥५॥
सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥६॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम ॥७॥
तथैव पश्चिमं भागं रक्षेत् सा वह्निवासिनी । महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥८॥
वामपार्श्वं सदा पातु दूती मे त्वरिता ततः । पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी ॥९॥
नित्या मामूर्द्ध्वतः पातु साधो मे पातु सर्वदा । नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥१०॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥११॥
पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा । कामात् क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥१२॥
पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा । स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥१३॥
असत्यक्रूरचिन्तातो हिंसातश्चौर्यतस्तथा । रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥१४॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥१५॥
सिंहारूढास्तथा पान्तु मान्तरक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥१६॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तथा । भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा ॥१७॥
भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥१८॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः । असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा ॥१९॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येन्न श‍ृणोति च मत्समः ॥२०॥
इति षोडशनित्यातन्त्रेषु श्रीकादिमते लोकतादात्म्यादिकथनं नाम अष्टाविशं पटलान्तर्गतं नित्याकवचं सम्पूर्णम् ॥१

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP