संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीकामाख्याकवचस्यर्षिर...

हरिप्रोक्तं कामाख्याकवचम् - ॐ श्रीकामाख्याकवचस्यर्षिर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीकामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः ॥४५॥
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते । विनियोगः सर्वसिद्धौ तं च श‍ृण्वन्तु देवताः ॥४६॥
शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम । शारदा कर्णयुगलं त्रिपुरा वदनं तथा ॥४७॥
कण्ठे पातु महामाया हृदि कामेश्वरी पुनः । कामाख्या जठरे पातु शारदा मां तु नाभितः ॥४८॥
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने । गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ॥४९॥
जानुनो शारदा पातु त्रिपुरा पातु जङ्घयोः । महामाया पादयुगे नित्यं रक्षतु कामदा ॥५०॥
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका । भैरवी दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ॥५१॥
बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी । विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु ॥५२॥
रोमकूपेषु सर्वेषु गुप्तकमा सदावतु । पादाङ्गुलीः पार्ष्णिभागे पातु मां भुवनेश्वरी ॥५३॥
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु । लः पातु चान्तरे वक्ष हः पातु जठरान्तरे ॥५४॥
सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु । अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ॥५५॥
लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु । चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् ॥५६॥
पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा । वारुण्यां चैव वायव्यां कौबेरे हरमन्दिरे ॥५७॥
अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः । पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ॥५८॥
ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा । नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे ॥५९॥
नवस्वरं तु मां नित्यं नासादिषु समन्ततः । वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ॥६०॥
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च । तत्सेतू सततं पातां क्रव्याद्भ्योमान्निवारकौ ॥६१॥
नमः कामेश्वरीं देवीं महामायां जगन्मयीम् । या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् ॥६२॥
कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां- श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् । ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या- मग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् ॥६३॥
मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया- लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा । विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः ॥६४॥
इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि । इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥६५॥
इत्ययं कवचं यस्तु कामाख्यायाः पठेद्बुधः । सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा ॥६६॥
नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा । नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥६७॥
दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः । आवर्तयञ्छतं देवी-मन्दिरे मोदते परे ॥६८॥
यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः । तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥६९॥
इति कालिकापुराणे द्विसप्ततितमाध्यायान्तर्गतं हरिप्रोक्तं कामाख्याकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP