संस्कृत सूची|संस्कृत साहित्य|कवच| कैलासशिखरे रम्ये सुखासीनं... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीसौभाग्यकवचस्तोत्रम् - कैलासशिखरे रम्ये सुखासीनं... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीसौभाग्यकवचस्तोत्रम् Translation - भाषांतर कैलासशिखरे रम्ये सुखासीनं सुरार्चितं गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः । प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥ श्रीशिवोवाच - शृणु देवि! प्रवक्ष्यामि यस्मात् त्वं परिपृच्छसि यस्य श्रवणमात्रेण भवभीतिर्न जायते । एतत् सौभाग्यकवच रहस्यातिरहस्यकं सौभाग्यकवचं देवि! शृणु सौभाग्यदायकम् ॥ विनियोगः - अस्य श्रीसौभाग्यकवचस्तोत्रस्य श्रीआनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ॐ क्लीं सौः बीजम् । ह्रीं क्लीं शक्तिः । आं ह्रीं क्रों कीलकम् । सर्वसौभाग्यसिद्ध्यर्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः - शिरसि श्रीआनन्दभैरवाय ऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीसौभाग्यसुन्दरीदेवतायै नमः । गुह्ये ॐ क्लीं सौः बीजाय नमः । पादयोः ह्रीं क्लीं शक्तये नमः । नाभौ आं ह्रीं क्रों कीलकाय नमः । सर्वाङ्गे सर्वसौभाग्यसिद्ध्यर्थे पाठे विनियोगाय नमः । षडङ्गन्यासः - करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट । ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ॥ ध्यानं - ऐहिकपरफलदात्रीमैशानीं मनसि भावये मुद्राम् । ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥१॥ क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् । क्लृप्तजनेष्टकर्त्रीं कल्पितलोकप्रभां नमामि कलाम् ॥२॥ सौभाग्यदिव्यकनिधिं सौरभकचवृन्दविचलदलिमालाम् । सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥३॥ पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् । यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥४॥ हेमाद्रौ हेमपीठस्थितामखिलसुरैरीड्यमानां विराजत् । पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ॥५॥ दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्याञ्चितैः स्व । भ्रष्टैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥६॥ कवचस्तोत्रं - शिखाग्रं सततं पातु मम त्रिपुरसुन्दरी । शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥१॥ नित्यक्लिन्नाऽवताद्दक्षं भेरुण्डा तस्य पश्चिमम् । वह्निवासिन्यवेद् वामं मुखं विद्येश्वरी तथा ॥२॥ शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् । तद्वामपार्श्वमवतात् तथैव कुलसुन्दरी ॥३॥ नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी । वामभ्रुवं तु विजया नयनं सर्वमङ्गला ॥४॥ ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी । दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥५॥ दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका । दक्षनासापुटं दुर्गा तदन्यं तु भारती ॥६॥ नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् । अणिमा दक्षकटिं महिमा च तदन्यकम् ॥७॥ दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा । ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥८॥ ईशित्वमूर्ध्वदन्तांश्च ह्यधोदन्तान् वशित्वकम् । रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥९॥ तालुमूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् । कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥१०॥ कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः । कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥११॥ सर्वसङ्क्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् । तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ॥१२॥ आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् । भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥१३॥ वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् । लसत् त्रिखण्डिनीमुद्रा वामभागं प्रपालयेत् ॥१४॥ श्रीकामाकर्षिणी नित्या रक्षताद् दक्षकूर्परम् । कूर्परं वाममवतात् सा बुद्ध्याकर्षिणी तथा ॥१५॥ अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् । शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकाऽवतु ॥१६॥ प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् । रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥१७॥ गन्धाकर्षिणिका वामं चित्ताकर्षिणिकाऽवतु । करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ॥१८॥ स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् । बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥१९॥ आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् । शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ॥२०॥ अनङ्गकुसुमा शक्तिः पातु दक्षिणस्तनोपरि । अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥२१॥ अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः । रक्षतादनिशं देवी ह्यनङ्गःमदनातुरा ॥२२॥ अनङ्गरेखा वामं तु वक्षोज तस्य चूचुकम् । अनङ्गवेगिनी क्रोडमनङ्गास्याङ्कुशाऽवतु ॥२३॥ अनङ्गमालिनी पायाद् वक्षःस्थलमहर्निशम् । सर्वसङ्क्षोभिणी शक्तिर्हृत् सर्वद्राविणी परा ॥२४॥ कुक्षिं सर्वाकर्षिणी तु पातु पार्श्वं च दक्षिणम् । आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी चिरम् ॥२५॥ सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी । वशङ्करी वस्तिदेशं सर्वरञ्जिनी मे कटिम् ॥२६॥ सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् । सर्वार्थसाधिनी शक्तिः नितम्बं रक्षतान्मम ॥२७॥ दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरिणी । सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥२८॥ पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु दक्षिण वङ्क्षणम् ॥२९॥ सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् । सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥३०॥ मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥३१॥ पायात् तदन्यमुष्कं तु सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥३२॥ पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी । सर्वाङ्गसुन्दरी देवी रक्षताद् दक्षसक्थिकम् ॥३३॥ वामसक्थितलं पायात् सर्वसौभाग्यदायिनी । अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥३४॥ वामाष्ठीवं सर्वशक्तिः देवी पातु युगं मम । सर्वैश्वर्यप्रदा देवी दक्षजानुं सदाऽवतु ॥३५॥ सर्वज्ञानमयी देवी जानुमन्यं ममावतात् । अव्याद् देवी दक्षजङ्गां सर्वव्याधिविनाशिनी ॥३६॥ तदन्यां पातु देवी सा सर्वाधारस्वरूपिणी । सर्वपापहरा देवी गुल्फं रक्षतु दक्षिणम् ॥३७॥ सर्वानन्दमयी देवी वामगुल्फं सदाऽवतु । पार्ष्णि मे दक्षिणं पायात् सर्वरक्षास्वरूपिणी ॥३८॥ अव्यात् सदा सदा पार्ष्णि सर्वेप्सितफलप्रदा । दक्षाङ्घ्रिपार्श्वं वशिनी पूर्वं वाग्देवता मम ॥३९॥ सर्वं कामेश्वरी चोर्ध्वमधो वाग्देवता मम । मोदिनी प्रपदं पातु विमला दक्षिणेतरे ॥४०॥ अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला । तदन्या जयिनी पातु सदा सर्वेश्वरी मम ॥४१॥ दक्षवामपादतलं कौलिनी देवता मम । कुर्वन्तु जृम्भणा बाणाः त्रैलोक्याकर्षणं मम ॥४२॥ मोहं संहरतादिक्षुकोदण्डं भृङ्गमौविकम् । करोतु सततं पाशी वशीकरणमद्भुतम् ॥४३॥ विदध्यादङ्कुशं नित्यं स्तम्भनं शत्रुसङ्कटे । पीठं मे कामरूपाख्यं पातु कामान्तिकं मनः ॥४४॥ पूर्णं पूर्णगिरेः पीठं कान्तिं मे जनयेत् सदा । जालन्धरमन्यजालन्धरपीठं मे रक्षतु ॥४५॥ सायुज्ये नियतां प्रज्ञां श्रीपीठं श्रीकरं मम । कामेश्वरी त्वात्मतत्त्वं रक्षेद् वज्रेश्वरी तथा ॥४६॥ विद्यातत्त्वं शैवतत्त्वं पायाछ्रीभगमालिनी । कामं विद्यान्महाशत्रूनमृतार्णवमानसम् ॥४७॥ क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् । लोभं चिदासनं हन्याद् देव्यात्मामृतरूपभाक् ॥४८॥ मोहं संहरताच्चक्रं मदं मन्त्रासनं मम । मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा ॥४९॥ आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी । मणिपूरं मणिद्योता पायात् त्रिपुरसुन्दरी ॥५०॥ अव्यादनाहतं भव्या नित्यं त्रिपुरवासिनी । विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुरमालिनी ॥५१॥ इडां मे त्रिपुरसिद्धा त्रिपुरा चापि पिङ्गलाम् । सुषुम्नां पातु मे नित्या पायात् त्रिपुरभैरवी ॥५२॥ त्रैलोक्यमोहनं चक्रं रोमकूपांश्च रक्षतु । सर्वाशापूरकं चक्रं सप्तधातूँश्च रक्षतु ॥५३॥ सर्वसङ्क्षोभण चक्रं प्राणाद्यं वायुपञ्चकम् । सौभाग्यदायकं चक्रं नागाद्यनिलपञ्चकम् ॥५४॥ सर्वार्थसाधकं चक्रं कारणानां चतुष्टयम् । सर्वरक्षाकरं चक्रं रक्षतान्मे गुणत्रयम् ॥५५॥ सर्वरोगहरं चक्रं पायात् पुर्यष्टकं मम । सर्वसिद्धिप्रदं चकमव्यान्मे कोशपञ्चकम् ॥५६॥ सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु । सौन्दर्यं मन्मथः पायाद् धृतिश्चापि रतिं मम ॥५७॥ प्रीतिं मे पातु या प्रीतिः रूपं पातु वसन्तकः । सङ्कल्पं कल्पकोद्यानं महालक्ष्मी श्रियं मम ॥५८॥ कान्तिं कपालिनी रक्षेत् मन्दिरं मणिमण्डपः । पुत्रान् शङ्खयनिधिः पायाद् भार्यां पद्मनिधिस्तथा ॥५९॥ मार्गे क्षेमङ्करी रक्षेत् मातङ्गी मुकुटं तथा । योगिनी प्रकटाद्यास्ता नवद्वाराणि पान्तु मे ॥६०॥ भोजने मामन्नपूर्णा मातङ्गी क्रीडनेऽवतात् । वने रक्षतु मां दुर्गा जाग्रती दुष्टनिग्रहे ॥६१॥ त्रिधाऽहङ्कारनैष्ठुर्यदोषत्रयं मलत्रयम् । डाकिन्यो योगिनीमुख्याः संहरन्तु ममानिशम् ॥६२॥ इच्छाशक्तिर्गुरोर्भक्तिं पातु मे ज्ञानमात्मनि । ज्ञानशक्तिः क्रियाशक्तिर्वैराग्यविषयेष्वपि ॥६३॥ हृत्पद्मकर्णिकामध्ये ह्रीङ्कारी परिरक्षतु । वैखरी श्रवणं पातु मध्यमा मननं पुनः ॥६४॥ योगं रक्षतु पश्यन्ती साक्षात् ज्ञानपरा मम । ब्रह्माणी जागृतं पातु शयानं वैष्णवी तथा ॥६५॥ सुषुप्तौ चण्डिका पातु तुर्या मे मोहकारिणी । सदा मां भैरवी पातु जगद्भरणपण्डिता ॥६६॥ चरणाम्भोरुहानन्दपरामृतरसेरिता । प्लाविनी कुण्डली पूर्णा अन्तरान्तं सदाऽवतात् ॥६७॥ अष्टदिक्षु महेन्द्राद्या सायुधाः पान्तु सर्वदा । पायादूर्ध्वा दिशं ब्रह्मा विष्णुश्चक्रायुधोप्यधः ॥६८॥ अनावृत्तानि स्थानानि कवचेन तु यानि मे । तानि सर्वाणि रक्षन्तु शिवाद्या गुरवः सदा ॥६९॥ फलश्रुतिः । एतत् सौभाग्यकवचं शाङ्करं यस्तु पाठयेत् । त्रिसन्ध्यं यः पठेद् भक्त्या शृणुयाद् वा समाहितः ॥१॥ तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः । गुटिकापादुकाद्यष्टसिद्धयः सम्भवन्ति च ॥२॥ वश्यादीन्यष्टकर्माणि योगश्चाष्टाङ्गसंयुतः । ब्रह्माविष्णुगिरीशेन्द्रकन्दर्परतिभिः सह ॥३॥ विचरन्ते तदखिलान् सिद्धगन्धर्वसेविताः । तस्य स्मरणमात्रेण ग्रहभूतपिशाचकाः ॥४॥ कीटवत् प्रपलायन्ते कष्माण्डा भैरवादयः । तस्याङ्घ्रितोयपतनात् प्रशाम्यति महारुजाः ॥५॥ तत्पादकमलासक्तरजोलेशाभिमर्शनात् । वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् । आबालमहिलाभूपाः किमु मायाविमोहिताः ॥६॥ ॥ इति वामकेश्वरन्तन्त्रे नित्याषोडशिकार्णवे श्रीसौभाग्यकवचम् ॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP